श्रीस्वस्थानीव्रतकथा संस्कृत श्लोक
अथ प्रारम्भः
कैलाशशिखरे रम्ये नानाधातु प्रशोभिते ।
कल्पवृक्षोद्यानयुक्ते कामधेनुविराजिते ।। १ ।।
चिन्तामण्यादिसंयुक्ते चाष्टसिद्धिसमन्विते ।
सुखासीनं जगन्नाथं ज्ञानमुद्रायुतं शिवम् ।। २ ।।
ब्रह्मेन्द्रविष्णुभिर्वन्द्यं सौम्यरुपधरं पतिम् ।
प्रणम्य शिरसाsपृच्छत्पार्वती परमेश्वरी ।। ३ ।।
श्री पार्वत्युवाच
भक्तवत्सल ! सर्वज्ञ ! देवदेव ! जगत्पते ।
ब्रूहि मे परमेशान व्रत त्रैलोक्यदुर्लभम् ।। ४ ।।
को धर्म: सर्वधर्माणां भवत: परमो मत: ।
सुराsसुरास्तथा नागा महाचार्यस्तथा सुरा: ।। ५ ।।
भ्रातरो विविधा: सन्ति तथान्ये विविधा नरा: ।
यद्वै-धव्यहरं पुण्यं स्वस्थानस्थिति हेतुकम् ।। ६ ।।
श्रीसदाशिव उवाच
साधु साधु महादेवि यत्वयsहं प्रबोधित: ।
संक्षेपेण प्रवक्ष्यामि वह्वर्थं व्रतमुत्तमम् ।। ७ ।।
माघस्य पूर्णिमायां तु स्वस्थानीव्रतमाचरेत् ।
आवयो: पूजयेत्तत्र प्रतिमां मण्डले शुभे ।। ८ ।।
चन्दनाक्षतपुष्पादि गृहीत्वास्थानमाचरेत् ।
सुवर्णवर्णदीप्ताभां त्रिनेत्रां कमलासनाम् ।। ९ ।।
सिंहासनसमासीनां सर्वालंकारभूषिताम् ।
खड्गचर्मधरां चोर्ध्वंवामदक्षिणयो: क्रमात् ।। १० ।।
चतुर्भुजं तु तत्रैव पूजयेद् वृषकेतुनाम् ।
निलोत्पलाभये वामे वरशूले च दक्षिणे ।। ११ ।।
एवं ध्यात्वा महादेवमर्घ्यं चार्थ प्रदापयेत् ।
अष्टोत्तरशतै: पुष्पै: फलधूपान्नचन्दनै: ।। १२ ।।
पूजयद्वै महादेवौ जगत: परमेश्वरौ ।
ततो गोधुमचूर्णेन सतिलेन गुडेन च ।। १३
गर्भं कृत्वा तु वक्तव्यं सर्पिषाsष्टोत्तरं शतम् ।
पूपकं परमेशानि तद्वै भक्त्या निवेदयेत् ।। १४ ।
ततोष्टपूपं संगृह्य शुक्लवस्त्रेण वेष्टयेत् ।
पीतसूत्रेण संवर्द्ध्यं पूजयेत्पतिबुद्धिना ।। १५ ।।
पत्ये दद्याद्भक्षणार्थं तद्यद्वा मित्रपुत्रयो: ।
एतान्न लभते यातु सा नद्यां वाहयेद् ध्रुवम् ।। १६ ।।
प्रदक्षिणीकृत्य ततो आवां वै श्रद्धयान्विता ।
ब्राह्मणान् भोजयित्व तु दक्षिणां च प्रदापयेत् ।। १७ ।।
स्वयं ततस्तु भोक्तव्यं रात्रौ जागरणं चरेत् ।
ततो विसर्जनं कृत्वा जले तन्मण्डलं क्षिपेत् ।। १८ ।।
वर्षे वर्षे व्रत कुर्यात् स्वस्थानीनामकं शुभम् ।
एतद् व्रतफलं देवि संख्या वक्तुं नशक्यते ।। १९ ।।
गोशतं च सहस्त्रं च परिष्कारविभूषितम् ।
कन्यादानान्नदानानां वाजिवारणकोटिश: ।। २० ।।
वस्त्ररत्नमहादानं तिलकांचन्मेव च ।
राजसूयाsश्वमेधाभ्यां यत्फलं समवाप्यते ।। २१ ।।
तत्सर्वं समवाप्नोति व्रतेनाsनेन सुन्दरि ।
व्रताना च शिरोरत्नं स्त्रीणां चैव विशेषत: ।। २२ ।।
त्रिवर्गं तु समालभ्य प्राप्यते परमांगतिम् ।
इत्येतत्कथितं देवि किमन्यच्छ्रोतुमिच्छसि ।। २३ ।।
श्रीपार्वत्युवाच
तत्कथां श्रोतुमिच्चामि सर्वचेतोरमां शुभाम् ।
कथयस्व महादेव यदि योग्याsस्मि हे प्रभो ।। २४ ।।
श्रीसदाशिव उवाच
साधु कृतं त्वया देवि तत्कथाश्रवणो मन: ।।
तव प्रीत्यै प्रवक्षामि सावधान श्रृणु प्रिये ।। २५ ।।
अथ ककथाप्रारभ्यते
पुरासीद् ब्रह्मपुर्यां वै शिवशर्मा महातपा: ।
षट्कर्मनिरतो विप्र: सर्वशास्त्रार्थपारग: ।। २६ ।।
पूर्वजन्मविपाकेन नालभेत्सन्ततिं द्विज: ।
तस्य पत्नी सती नाम्नी नित्यं या पतिदेवता ।। २७ ।।
विषण्णाह्यातिदु:खेन पृच्छति ब्रह्मणीं पतिम् ।
हा ! जन्मपापिनी काsहं न जाने किं मया कृतम् ।। २८ ।।
पुत्र: पुत्री न मे कश्चित् वृथा जन्म गतं मम ।
भार्या वचनमाकर्ण्य पति: स्वामी जगाद ह ।। २९ ।।
एतस्मिन्नन्तरे काले जायापत्यो समाग्रत: ।
तयो पुण्यप्रभावेण तत्रैका गौ: समागता ।। ३० ।।
गवां तयोsग्रभागस्तु गोमयं वै समुझ्झितम् ।
समुत्पन्ना ततो दृष्टा कन्या रूपवती शुभा ।।३१ ।।
सर्वलक्षणसम्पूर्णाsपत्यत्वेsङ्गीकृता च सा ।
धनधान्यादिसम्पूर्णा लक्ष्मीवत्प्राप्यतां द्विज: ।। ३२ ।।
चकार शङ्खवाद्यादिमृदङ्गाह्लादमुत्सवम् ।
ददौ नाम यथान्यायं गोमया भट्टिनीति स: ।। ३३ ।।
अनेकपुण्यकर्माणि ददाति स चकार ह ।
प्रत्यहं वर्द्धते कन्या शुक्लपक्षे शशी यथा ।। ३४ ।।
तत्पुण्यदर्शिता: सर्वे त्रस्ता: शक्रादय: सुरा: ।
कैलाशं तु समागम्य मां सर्व ज्ञाप्य तत्वत: ।। ३५ ।।
अभयं च मया दत्तं गच्छ शक्र यथासुखम् ।
शक्र: स्वस्थानमायातो मयाssज्ञातो विचक्षण: ।। ३६ ।।
तत्कालेsहं महादेवि ! वभ्राम भूमिमण्डले ।
कपालिवेषो भिक्षार्थं तत्द्विजद्वारमागत: ।। ३७ ।।
डमरुं वादयित्वा तु ययाचे विप्रमन्दिरे ।
एतस्मिन्नन्तरे काले सा कन्या गर्वगौरवात् ।। ३८ ।।
तस्य वाद्यं न शुश्राव कुसुमै: क्रीडती स्थिता: ।
श्रुत्वा माता तु तच्छब्दं शीघ्रं कन्यां जगाद ह ।। ३९ ।।
दीयतां तत्करे पुत्री राशिमन्नस्य विद्यते ।
मातुर्वचनमाकर्ण्य भिक्षां धृत्वाsग्रतो गता ।
भिक्षुरुप: क्रोधयुक्त: शापं यस्यै ददौ तदा ।। ४० ।
भिक्षुरुवाच
त्वद्भिक्षां नैव गृह्णामि श्रृणु ब्राह्मणकन्यके ।
अशीति वयसा वृद्ध: पतिस्तव भविष्यति ।। ४१ ।।
इति शापं तत: श्रुत्वा रुरोदाsतीव विह्वला ।
धीमती जननी कन्यां सान्त्वयामास यत्नत: ।। ४२ ।।
कालेनाल्पेन सा देवी गोमयोद्भवसुन्दरी ।
गोमयेति च विख्याताsभवत्सा सप्तवर्षिकी ।। ४३ ।।
पतिं योग्यतरं तस्या गतो मार्गयितुं पिता ।
द्विजो जामातृयोग्यो हि न प्राप्तं शिवशर्मणा ।। ४४ ।।
विश्रान्त: स्वगृहं प्राप्य शिवशर्मा सुदु:खित: ।
भिक्षुकस्य तु शापेन दैवेन प्रतिपादित: ।। ४५ ।।
ब्राह्मणोsतीव वृद्धश्च कन्यां याचितुमागत: ।
जटालम्बितदीर्घाङ्ग: कम्पितश्चातिदुर्बल: ।। ४६ ।।
कुब्ज: कुवेषो बधिर: पश्चिमे वयसि स्थित: ।
अन्यद्विजस्याsलाभेन तस्य शापभयेन च ।। ४७ ।।
पूर्वशापं चानुस्मृत्य तस्मै दुहितरं ददौ ।
कन्यादानं चकारासौ शुभ लग्ने शुभे दिने ।। ४८ ।।
ततस्तु शिवभट्टेन पालितो दुहितु पति: ।
कालेन ज्वरपिडार्त: शिवशर्मा दिवं ययौ ।। ४९ ।।
तत्पत्नी पतिना सार्द्धं सतीत्वं च समागता ।
गोमया चातिदु:खार्ता पतिना सह तिष्ठति ।। ५० ।।
क्लेशैर्युक्तातिमलिना भोक्तुं पातुं न विन्दति ।
तस्यां तु गर्भ: संजातो हर्षशोकविवर्धन: ।। ५१ ।।
सीमन्तोन्नयनं कृत्वा विप्र: पुंसवनादिकम् ।
एकमासावधिं कृत्वा भिक्षार्थं वृद्धब्राह्मण: ।। ५२ ।।
पत्नीं प्रबोधयित्वा तु ततो देशान्तरं गत: ।
स शीतज्वरपीडार्तो ममारारण्यके द्विज: ।। ५३ ।।
गोमया ब्राह्नणी सा च निर्जने निजमन्दिरे ।
स्थित्वा ग्राम्यजनेनैव पालिता पतिदेवता ।। ५४ ।।
गोमया दशमे मासि सम्प्राप्तं तनयं शुभम् ।
द्विजवालक नामोस्ति नवराज प्रकीर्तितम् ।। ५५ ।।
याचितान्नेन सा माता कारयामास सत्तमै: ।
चूडाव्रतविवाहादिसर्वकर्माणि तस्य वै ।। ५६ ।।
यौवनोद्भेदवयसी नवराजो द्विजोत्तम: ।
वसन् गृहेsतिदु:खेन संयुतो मातृवत्सल: ।। ५७ ।।
मातरं परिपप्रच्छ षोडशाब्दोsतिसाहसी ।
भोsम्ब ! तातोsस्ति क्व गत: सत्यं कथय मा मृषा ।। ५८ ।।
इति पुत्रवच: श्रुत्वा सा माता रुदती सती ।
जगाद वचनं पुत्रं भर्तुश्चरितसंयुतम् ।। ५९ ।।
त्वयि गर्भस्थिते पुत्र ततस्ते भिक्षितुं गत: ।
क्व तिष्ठति न जानामि जीवितो वा मृतोsथवा ।। ६० ।।
इति मातृवच: श्रुत्वा नवराजोsतिधार्मिक: ।
अम्बामाश्वासयामास हेतुभि: शास्त्रबोधितै: ।। ६१ ।।
नवराज उवाच
पित्र्युद्देशेगमिष्यामि तवानुज्ञाम् विधाय च ।
पुत्रस्य परमो धर्म: पितृसेवाsपरो नहि ।। ६२ ।।
जीविते वाक्यकरणात् क्षयाहे भूरिभोजनात् ।
गयायां पिण्डदानाच्च त्रिभि: पुत्रस्य पुत्रता ।। ६३ ।।
एवं प्रबोध्य जननीमनुज्ञाम् प्राप्य स द्विज: ।
प्रबोध्य युवतीं भार्यां पाथेयं परिगृह्य च ।। ६४ ।।
यात्रां स विधिना कृत्वा ततोदेशान्तरं गत: ।
ग्रामद् ग्रामान्तरं गच्छन् तातमन्वेषयद् द्विज: ।। ६५ ।।
शुश्राव स ग्राम्यमुखान्निश्चितं पितरं मृतम् ।
रुरोदाsतीव दुखार्तो हा तात जनकेति वै ।। ६६ ।।
गंगातीरं ततो गत्वा चक्रे श्राद्धं विधानत: ।
अथ स्नुषा गोमयाया दु:खात्पितृगृहं गता ।। ६७ ।।
तदा सा गोमयोद्भूता ग्रामं तत्याज्यलज्जया ।
वस्त्रहीनाsतिमलिना नदी तट निवासिनी ।। ६८ ।।
एरण्डपादपाकीर्णे तृणकुड्यन्तरे स्थिता ।
कोद्रवान्नं सदाभुक्तं सूत्रकर्तनकर्मत: ।। ६९ ।।
कर्मणा सातिदु:खेन साध्वी कालं न्यवर्तयत् ।
तदा कैलाशशिखरे लक्ष्मी देवी सरस्वती ।। ७० ।।
सर्वदेवगणैर्युक्ताश्चक्रु स्तद्व्रतमुत्तमम् ।
तत्र मर्त्योपदेशार्थं स्वाश्रमान्नारदो मुनि: ।। ७१ ।
आगतश्च मयाज्ञप्ता गच्छ लोकहिताय वै ।
एतद्यथा मर्त्यलोके चरिष्यति तथा कुरु ।। ७२ ।।
इत्याज्ञाम् स मुनि: प्राप्य गतवान् मर्त्यविष्टपम् ।
पृथ्वीमण्डलमध्येsथ दरिद्र: को भवेदिति ।। ७३ ।।
चिन्तयामास तत्वज्ञ: परोपकरणप्रिय: ।
गोपालं परिपप्रच्छ को दरिद्र क ईश्वर: ।। ७४ ।।
गोपालस्तु ततो वाक्यमुवाच प्रान्तरे स्थित: ।
दु:खितानां न कोप्यस्ति गोमया केवलं दु:खि: ।। ७५ ।।
गोपालवचनं श्रुत्वा गतस्तत्सन्निधौ मुनि: ।
ब्राह्मणीमाह्वयामास द्वारे स्थित्वा पुन: पुन: ।। ७६ ।।
धर्मोपदेशं श्रृणुतं स्वस्थानीव्रतमुत्तमम् ।
यथाविधान वक्ष्यामि गोमये तद्व्रतं कुरु ।। ७७ ।।
इत्युक्त्वा नारदो धीमान्नुवाच सकल विधिम् ।
तत: सानन्दसंयुक्ता प्रणम्य मुनिसत्तमम् ।। ७८ ।।
तस्मै पीठासनं दत्वा संवेश्य च गृहान्तरे ।
आतिथ्यं तस्य वै कर्तुं मनसा परिचिन्त्य सा ।। ७९ ।।
गृहे नास्ति च मे किंचित्किं करोमीति दु:खिता ।
कर्तितं सूत्रमादाय ताम्बुलार्थं जगाम ह ।। ८० ।।
ताम्बूलं पूगसहितं गृहित्वा गृहमागता ।
तावदेव गृहे तस्या निधिं दत्वा गतो मुनि: ।। ८१ ।।
ब्राह्मणी गृहमायाता न ददर्श मुनीश्वरम् ।
गेहं सम्मार्जनं चक्रे विषादेन युता सती ।। ८२ ।।
भद्रपीठं समुत्थाप्य तत्र दृष्टो निधिस्तत: ।
व्रतोपदेशमात्रं वै नायं दातुं मुनिश्वर: ।। ८३ ।।
धर्मव्याजैर्निधिमपि मह्यं दातुं समागत: ।
इत्यानन्देन मनसा जग्राह निधिमुत्तमम् ।। ८४ ।।
तत: सा तद्व्रतं चक्रे मुनिनाsभिहितं यथा ।
पूपाष्टकं तु संस्थाप्य पुत्राssगमनकाङ्क्षया ।। ८५ ।।
स्वयं शतं सा बुभुक्षे सिताक्षीरघृतैर्युतम् ।
तद्व्रतस्य प्रभावेण रात्रौ तत्पुत्रमागत: ।। ८६ ।।
आशीर्भिरर्चयामास सूनुनासौ नमस्कृता ।
पूपाष्टकं च पुत्राय ददौ सा गोमयोद्भवा ।। ८७ ।।
दत्तं पूपं च बुभुजे सिताक्षीरघृतैर्युतम् ।
परस्परकथां कृत्वा ह्युभाभ्यां गमिता निशा ।। ८८ ।।
प्रात: ततश्च जननीं नवराजमुवाच ह ।
गङ्गातीरे च गत्वा त्वं स्नान कुरु विधानत: ।। ८९ ।।
ततो विश्वम्भरं देवं ध्यानेन परिचिन्तय ।
इति मातृवच: श्रुत्वा कृतगङ्गाप्लवो द्विज: ।
कृत्वा विश्वेश्वरीं पूजां महास्तोत्र मुवाच ह ।। ९० ।।
यं वै वेदो वेदनो नैव विष्णु- ।
र्नोवावेधा नर्पयो नैववाणी ।।
तं देवेशं मादृश: कोल्पबुद्धी- ।
र्यथार्थं वै वेत्यहो विश्वनाथम् ।। ९१ ।।
श्रुत्वा स्तोत्रमिदं तुष्टो जगाद परमेश्वर: ।
कालान्तरे च ते राज्यं नवराज भविष्यति ।।
इत्युक्त्वा गोमयासूनु मन्तर्ध्यानं गत: शिव: ।। ९२ ।।
ब्राह्मणोsपि वरं प्राप्य जगाम स्वनिकेतनम् ।
एतस्मिन्नन्तरे काले लावण्याख्यपुरीश्वर: ।। ९३ ।।
मृत: कालवशेनैव राजा पुत्रादिवर्जित: ।
तस्मिन् देशे गजेन्द्रेण कश्चिद्राजा विधीयते ।। ९४ ।।
इति श्रुत्वादेशदेशादागता लोकपंक्तय: ।
वस्त्रालंकारसंयुक्ता नानाशोभासमन्विता: ।। ९५ ।।
स्थिता लावण्यपथ्यासु राज्यलोभेण वै नरा: ।
गोमया सापि लोभेण सपुत्र स्वगृहाद्ययो ।। ९६ ।।
सपुत्र लज्जया सा वै संतस्थौ गृहकोणत: ।
सजलं स्वर्णकुम्भं च गृहित्वा राजमार्गत: ।। ९७ ।।
तेषु सर्वेषु तिष्ठत्सु गजेन्द्रोsन्वेषयन्नरान् ।
गृहकोणगत: सो वै नवराज: समातृक: ।। ९८ ।।
स्नापितस्तद्जलेनैव स्वस्कन्धे स्थापितस्तदा ।
राजगेहे स नीतश्च दोलया तत्प्रसूरपि ।। ९९ ।।
पुरोहितादयश्चक्रु: सर्वे तस्याsभिषेचनम् ।
वीणामृदङ्गपटहशंखदुन्दुभिनि: स्वनै: ।। १०० ।।
लाजापुष्पादिसिन्दूरैर्युक्तं प्राप्य महोत्सवम् ।
नवराजस्थितो तत्र सिंहासन गत प्रभु ।। १०१ ।।
मातरं परिपप्रच्छ प्रिया मे क्व गतेति वै ।
स्वस्थानीं सा न जानाति सर्वदुख विनाशिनीम् ।। १०२ ।।
त्वत्प्रसादेन भूपोsहं जातो वै त्वत्प्रभावत: ।
महादु:खं त्वया प्राप्तमित्युक्त्वा मातरं प्रति ।। १०३ ।।
प्रियाय प्रेषयद्दोलां गतास्तस्याsज्ञया जना: ।
ददृशुस्तां स्त्रियं ते वै नदीतीरे निवासिनीम् ।। १०४ ।।
ततोsगच्छन् हो का त्वं भो नवराजप्रिया कुत: ।
तौ पृष्टा चारुनेत्रा सा कथयामास भारकान् ।। १०५ ।।
पत्न्यहं नवराजस्य परमप्रीतिदायिनी ।
गोमया पतिमाता च गच्छामि यत्र मत्प्रभु: ।। १०६ ।।
तस्यास्तद्वचनं श्रुत्वा भटास्ते हर्षसंयुता: ।
दोलायां स्थापयित्वा तां प्रेषयामासुरादृता : ।। १०७ ।।
तैर्भारवाहकै: सर्वैर्दोला नीता नदीतटे ।
अप्सरोभि: कृतं तत्र ददृशुस्ते व्रतोत्तमम् ।। १०८ ।।
तद्दृष्ट्वा भारिका: सर्वेतमाश्वस्य गतास्तत: ।
यत्राप्सरोगणै: सर्वै: स्वस्थानीव्रतमादृतम् ।। १०९ ।।
भारिका उचु:
भो भो देव्य किमेतद्वै क्रियते व्रतमुत्तमम् ।
अप्सरस उचु:
स्वस्थानीव्रतमेतद्धि सर्वकामफलप्रदम् ।। ११० ।।
एतद्व्रतप्रमाणेन स्वर्गलोके महीयते ।
इति श्रुत्वा भारिकास्ते पुष्पादीनि प्रयाच्य वै ।। १११ ।।
अप्सरोभि: सहैवात्र स्वस्थान्याश्चकृरे व्रतम् ।
पुनस्तत्र समायाता यत्र सा भोगिनी स्थिता ।। ११२ ।।
ततोsतीव प्रक्रुद्धासीद्विलम्बेन च सा प्रिये ।
स पुष्पतिलकान् दृष्ट्वा भारावाहान् मुदान्वितान् ।। ११३ ।।
सपुष्पफलहस्ताब्जानाहता पापिनी वधू ।
भारवाहा विलम्बो हि युस्माभि: कृयते कुत: ।। ११४ ।।
इति श्रुत्वा भारवाहा विज्ञप्ति चकृरे मुदा ।
अप्सरोभि: कृतं चैव नानाकामप्रदं शुभम् ।। ११५ ।।
स्वस्थान्यश्च व्रतं दृष्ट्वा न: श्रद्धा समजायत ।
फलाभिलाषिमिश्चैव ह्यस्माभिरपि तत्कृतम् ।। ११६ ।।
भवदर्थं पुष्पफलं समानीतं गृहाण भो ।
एतत्छ्रुत्वा वाहवाक्यं क्रुद्धातीवाsब्रवीत्तदा ।। ११७ ।।
स्वस्थानीका मयाsद्यापि वेदे लोके च न श्रुता ।
इति वज्रसमं वाक्यमुक्त्वा सा पापिनी तदा ।। ११८ ।।
तद्दत्तपुष्पफलयोश्चक्रे सा क्षेपणं रुषा ।
तस्यास्तत्कर्म दोलायां दृष्ट्वा संस्थाप्य पापिनाम् ।। ११९ ।।
निन्युर्मार्गेण त्वरया भारवाहा भयान्विता: ।
अथ तत्र समानाताजलsल्पे सुगमा नदी ।। १२० ।।
ते सां हि पापिनी निन्युर्नदी तर्तुं यदा प्रिये ।
तदा प्रलयावान्मेघा गर्जनं चकृरे प्रदा ।। १२१ ।।
पपात वात वेगेन नदीमध्ये च पापिनी ।
साsदृष्टा पापिनी जाता गलत्कुष्टेन संयुता ।। १२२ ।।
तद्व्रतस्य प्रभावेण वाहकास्ते दिवंगता: ।
तत्पापिनी स्पर्शभित्या जलं पातालमाश्रितम् ।। १२३ ।।
सङ्कटं कर्दमं तत्र दृश्यते पथिकै: सदा ।
तत्र द्वादशवर्षाणि कर्दमे पापिनी स्थिता ।। १२४ ।।
ततो वंशादिभिस्तस्या शोधितं कर्दमं जनै: ।
तदा वंशाग्रसंलग्ना प्रोत्प्लुत्या पापिनी गता ।। १२५ ।।
कुशस्थाने च पतितं सङ्कटे दैवयोगत: ।
सर्वदा सा ज्वलद्वह्निज्वालया परिपीडिता ।। १२६ ।।
तत: स नवराजो हि मातरं प्रति चोक्तवान् ।
राज्यलक्ष्मींश्च संप्राप्तयतो मात: प्रसादत: ।। १२७ ।।
सर्वदानं करिष्येsतो ब्राह्मणेभ्यश्च श्रद्धया ।
इत्युक्त्वा देशदेशाश्च ब्राह्मणा: सन्निमन्तृता ।। १२८ ।।
कपिल: शिष्यसंयुक्तस्तदुद्दिश्या जगाम स: ।
मुनिना कपिलेनाथो दृष्टा सा पापिनी तदा ।। १२९ ।।
मुनिना परिपृष्टा सा दग्धकाष्ठाकृतिर्वधू: ।
कि कुलं केन पाकेन चेदृशीतद्दशाधुना ।। १३० ।।
मुनेस्तद्वचनं श्रुत्वा पापिनी वाक्यमब्रवीत् ।
जात्याहं ब्राह्मणी विप्र ह्यवस्था व्रतनिन्दया ।। १३१ ।।
क्षुधां मां बाधते नित्यं भुक्तशेषमिहाsनय ।
तेनैव मे क्षुधाशान्तिरित्येवं प्रार्थयाम्यsहम् ।। १३२ ।।
ओमित्युक्त्वा गतो विप्रो नवराज निवेशनम् ।
तत्र भुक्त्वा महद्भोज्य दानादि प्राप्य वै तत: ।। १३३ ।।
सर्वे द्विजा गता गेहान् स्वान्स्वानेव मुदान्विता: ।
मुनिना याचितुं नैव शक्यते लज्जया तदा ।। १३४ ।।
इतस्ततो भ्रमन् विप्रो नवराजनृपाङ्गणे ।
मात्रा नृपस्य दृष्टासाततो जिज्ञासितो द्विज: ।। १३५ ।।
नृपमात्रा मुनि: पृष्ट: किं कार्यं भवतस्त्विह ।
तेन चोक्तं परार्थं च याच्यते भोज्यमात्रकम् ।। १३६ ।।
भण्डारिका इति श्रुत्वा दातुं भाण्डगृहं ययु: ।
पक्वान्नादिप्रपूर्णं तद्व्रतनिन्दाप्रभावत: ।। १३७ ।।
रिक्तं भाण्डगृहं जातं सर्वे दृष्टा हि सत्रपा: ।
नृपमात्रे परोवृत्य तेsवदन् सर्वमेव हि ।। १३८ ।।
सोवाच तद्वच: श्रुत्वा दीयतां भोज्यपात्रकम् ।
तस्यास्तद्वचनं श्रुत्वा कृतवन्तस्तथैव ते ।। १३९ ।।
नूतने मृण्मये भाण्डे कृत्वा भोज्यं त्वरान्विता: ।
मुनिर्गतश्च पापेन युक्ता सा यत्र तिष्ठति ।। १४० ।।
श्रीवैष्णव्युवाच
स्वस्थानीपरमेश्वर्या विधिवद्र्व्रतमाचर ।
तेन स्वस्थानलाभस्ते भविष्यति न संशय: ।। १४१ ।।
इत्युक्त्वान्तर्हिता देवी वैष्णवी शान्तरुपिणी ।
तया कृते व्रत सर्वं यथा देव्या प्रभाषितम् ।। १४२ ।।
दधिपूये तया देव्या ह्यप्राप्ते व्रतकर्मणि ।
शर्करायस्ततोsपूपं नदीपंकस्य वै दधि ।। १४३ ।।
कृत्वा समर्पितं बध्वा तद्द्वयं सत्यतां गतम् ।
अष्टपूपं ससूत्रादि नमस्कृत्य पुन: पुन: ।। १४४ ।।
नद्यां क्षिप्तं तया शीघ्रं तत्स्पर्शं प्राप्य नागिनी ।
अष्टोत्तरशतं वर्ष पुरुषेण विवर्जिता ।। १४५ ।।
नागेन मिलिता या च तत्पूपस्पर्शनादिभि: ।
सर्वपापैर्विनिर्मुक्ता बभूवातीव सुन्दरी ।। १४६ ।।
आशिषं च ददौ तस्यै नागकन्याsतिविस्मिता ।
ततो बभूव सा प्राह महालक्ष्मीस्वरुपिणी ।। १४७ ।।
केनाप्यगत्य राज्ञेsथ कथिता सुन्दरी कथा ।
पथिकस्य वच: श्रुत्वाsनुचरा: प्रेषिता पुन: ।। १४८ ।।
नानावाद्यादिघोषेण वेदघोषेण वै तत: ।
स्वीये गृहे समायात नवराजस्य भोगिनी ।। १४९ ।।
गोमयाया: पदद्वन्द्यं सुन्दरी प्रणनाम सा ।
मात्रा पत्न्या स संयुक्तो नवराजो नराधिप: ।। १५० ।।
प्राप्ते निष्कण्टकं राज्यं बुभुजे सर्वसम्मतत् ।
स्वस्थानीपरमेश्वर्या: कथां श्रुत्वा च श्रद्धया ।। १५१ ।।
अपुत्रा पुत्रमाप्नोति पत्यु: प्रीतिं च विन्दति ।
कथाश्रवणमात्रेण ह्यश्वमेधफलं लभेत् ।। १५२ ।।
।। इति श्रीपद्मपुराणे पार्वतीसदाशिवसंवादे स्वस्थानी व्रतकथा समाप्त ।।
अथ मंगलाचरण
सुवर्ण–वर्ण–दीप्ताभां त्रिनेत्रां कमलाननाम् ।
*सिंहासन–समासीनां सर्वालंकार–भूषिताम् ।।
*नीलोत्पल–धरां वामे , दक्षिणे वरदां शुभाम् ।
*खड्ग–चर्मधरां चोध्र्वं वामदक्षिणयोः क्रमात ।।
*चतुर्भुजां च मां वाऽपि पूजयेत् वृषकेतुनम् ।
*एवं ध्यात्वा महादेवीं स्वस्थानीं जगदिश्वरीम् ।।
उपनयतु मंगलं व: सकल जगन्मंगलालय ।
श्रीमान् दिनकर किरण नवोधित नवनलिन्दलन्निभेक्षण: कृष्ण:
काले वर्षतुपर्जन्य: पृथिवी शस्यशालिनी ।
देशोयं क्षोभरहितो ब्राह्मणा सन्तुनिर्भया: ।।
अपुत्रा पुत्रिण: सन्तु पुत्रिण: सन्तु पौत्रिणा: ।
अधना सधना सन्तु जीवन्तु शरदां शतम् ।।
तत्रैव गंगा यमुना च तत्र ।
गोदावरी सिन्धु सरस्वती च ।।
तीर्थानि सर्वाणि वसन्ति यत्र ।
यत्राच्युतोदार कथा प्रसङ्ग: ।।
कावेली बरुणा च तोमर तथा इन्द्रावती कौशिकी ।
मर्श्याङ्गदी कनकाई काली कमला नारायणी वाग्मती ।
कोका वेत्रवती च राप्ती अरुणा कर्णाली मेची तथा ।
काली गण्डकी भेरी सेती सुजला कूर्वन्तु ते मंगलम् ।। ६ ।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं ।
वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्।।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्॥२॥
कायेन वाचा मनसेन्दृयैर्वा ।
बुध्यात्मना वा प्रकृति स्वभावात् ।।
करोमि यद्यत्सकलं परस्मै ।
नारायणायेति सपर्पये तत् ।।
साभार- श्री सुब्बा होमनाथ केदारनाथ उपाध्याय
रामकटौरा वाराणसी द्वारा लिखित श्रीस्वस्थानी
व्रतकथा माघ महात्म्य बाट । नेपाली नदीको
श्लोक आफ्नै रचना थप गरेर प्रस्तुत गरेको छ ।
सुब्बा होमनाथ केदारनाथ हितैषी कम्पनी
पो. ब. न० १०८१ रामकटोरा रोड वाराणसी -२२१-००१
टाईप युनिकोड मा