Wednesday, July 24, 2019

अथाऽष्टयोगिनीदशा तथा स्तोत्रम्


।।अथाष्टयोगिनी महादशा तथा स्तोत्रम।।



।। अथ मङ्गलामहादशा फलम् ।।
सद्धर्मे द्विजदेवगोपुरजनोत्कर्षप्रदात्री नृणां ।
नानाभोगयशोऽर्थसन्नृपपराश्वेभाङ्गजाप्तिप्रदाः ।।
सन्माङ्गल्यविभूषणाम्बरचयस्त्रीभोगसन्दायिनी ।
ज्ञानानन्दकरी दशा भवति सा ज्ञेया सदा मङ्गला ।।१।।

।। अथपिङ्गलामहादशा फलम् ।।
स्यात्पुंसां यदि पिङ्गला प्रसवतो हृद्रोगशोकप्रदा ।
नानारोगकुसङ्गदेहमनसो व्याध्यर्दितार्तिप्रदा ।
तृष्णासृग्ज्वरपित्तशूलमलिनस्त्रीपुत्रभृत्याप्तसन् ।
मानध्वंशकरी धनव्ययकरी सत्प्रेमहन्त्री खला ॥२।।

।। अथ धान्यामहादशा फलम् ।।
धान्या धन्यतमा धनागमसुखव्यापारभोगप्रदा ।
पुंसां मानविवृद्धिदा रिपुगणप्रध्वंसिनी साैख्यदा ।
विद्याराजजनप्रबोधसुरतज्ञानाङ्कुरान्वर्द्धिनी ।
सत्तीर्थामरसिद्धसेवनरतिर्लभ्या दशा भाग्यतः ॥३।।


।। अथ भ्रामरीमहादशा फलम् ।।
दुर्गारण्यमहीधरोपगहनारामातपव्याकुला ।
दूराद्दूरतरं भ्रमन्ति मृगवत्तृष्णाकुलाः सर्वतः ।
भूपालान्वयजा दशामधिगता ये वै नृपा भ्रामरीं ।
स्वं राज्यं प्रविहाय ते स्फुटतरं क्ष्माधो लुठन्ते मुहुः।।४।।

।। अथ भद्रिकामहादशा फलम् ।।
साैहार्दं निजवर्गभूसुरसुरेशानां सुहृन्मान्यता ।
माङ्गल्यं गृहमण्डलेऽखिलसुखव्यापारसक्तं मनः ।
राज्यं चित्रकपोलपालितिलकालिप्ताङ्गनाभिः समम् ।
क्रीडामोदभरो दशा भवति चेत् पुंसां हि भद्राभिधा ॥५।।


।। अथ उल्कामहादशा फलम् ।।
उल्का चेद्यदि योगिनी गुरुदशा मानार्थगोवाहन ।
व्यापाराम्बरहारिणी नृपजनक्लेशप्रदा नित्यशः ।
भृत्यापत्यकलत्रवैरजननी रम्यापहन्त्री नृणां ।
हृन्नेत्रोदरकर्णदन्तपदजो रोगः स्वदेहे भृशम् ॥६।।


।। अथ सिद्धामहादशा फलम् ।।
सिद्धा सिद्धिकरी सुभोगजननी मानार्थ सन्दायिनी ।
विद्याराजजनप्रतापधनसद्धर्माप्तसज्ज्ञानदा ।
व्यापाराम्बरभूषणादिकसुतोद्वाहादिमाङ्गल्यदा ।
सत्सङ्गान्नृपदत्तराज्यविभवो लभ्या दशा पुण्यतः।।७।।


।। अथ संकटामहादशा फलम् ।।
राज्यभ्रंशाग्निदाहो गृहपुरनगरग्रामगोष्ठेषु पुंसां ।
तृष्णारोगाङ्गधातुक्षयविकृतिरथो पुत्रकान्तावियोगः ।
चेत्स्यान्मोहोऽरिभीतिः कृशतनुलतिकासङ्कटायाःविरोधो ।
मनोमृत्युर्जन्मकालाद्यमपि हि विना सङ्कटां योगिनीजम् ॥८।।


प्रकरान्तरेण योगिनी महादशा फलम्
।। अथ मंगला फलम् ।।
वैरिणां च विपदां च विनाशं ।
कृद्वाहनानी वसुरत्न लाभदा: ।।
कामिनी सुत गृहादि सौख्यदा ।
मंगला सकल मंगलोऽदय ।।१।।


।। अथ पिंगला फलम् ।।
दु:ख शोक कुलरोग बृद्धिदा ।
व्यग्रता कलह कृत स्वजनैश्च ।।
अन्त्यभाग कथिता फलदासौ ।
पिङ्गला च विदुसी सुख दासौ ।।२।।


।। अथ धान्या फलम् ।।
धनं धान्य वृद्धिं धरानाथ मान्यम् ।
सदा युद्धभूमौ जयं धैर्यवन्तम् ।।
कलत्राङ्ग नाना सुखं चित्र वस्त्रै: ।
युतम् धान्यका धातु वृद्धिं करोति ।।३।।


।। अथ भ्रामरी फलम् ।।
विदेशे भ्रमं हानी मुद्वेगता च ।
कलत्राङ्ग पीडा सुखं वर्जिताञ्च ।
ऋणं व्याधि वृद्धिं तथा भूपकोपम् ।
दशा भ्रामरी भोग भंग करोति ।।४।।


।। अथ भाद्रिका फलम ।।
धनानां प्रवृद्धिं गुणानां प्रकाश ।
समाधिन वस्त्रा गणंराज्यमानम् ।।
अलंकार दिव्याङ्गना भोग सौख्यम् ।
दशा भाद्रिका भद्रकार्यं करोति ।।५।।


।। अथ उल्का फलम् ।।
भ्रमं व्याधिकोपं ज्वराणां प्रकष्टम् ।
धनादिश्च दारादिकानां वियोगं ।
स्वगोत्रे विवादं सुहृद्वन्धु वैरं ।
दशाउल्कयाऽनर्थकारी सदैव ।।६।।


।। अथ सिद्धा फलम् ।।
राज्ञोभि मान्यं स्वजनादि सौख्यम् ।
धान्यादि लाभं गुणकीर्ति वृद्धिम् ।।
रामादिलाभं सुत वृद्धि सौख्यम् ।
विद्धाश्च सिद्धा प्रकरोति पुँसाम् ।।७।।


।। अथ संकटा फलम् ।।
जनानं विवादं ज्वराणां प्रकोपम् ।
कलत्रादि कष्टं पशुनां विनाशम् ।।
गृहे स्वल्पवासं प्रवाषाऽभिलासम् ।
दशा संकटा शंकटं राजपक्षात् ।।८।।



योगिनी दशायां जाप तान्त्रिक मंत्रा

१. मंगला
ॐ ह्रीं मंङ्गले मंङ्गलाय स्वाहा ।।

२.पिंङ्गला

ॐ ग्लौं पिङ्गले बैरिकारिणी प्रसिद फट् स्वाहा।।

३.धान्या

ॐ श्रीं धनदे धान्ये स्वाहा।।

४.भ्रामरी

ॐ भ्रामरी जगता मधीश्वरी भ्रामरी क्लीं स्वाहा।।

५.भद्रीका

ॐ भद्रीके भद्रं देहि अभद्रं नासाय स्वाहा।।

६.उल्का

ॐ उल्के मम रोगं नाशाय जृम्भय स्वाहा।।

७.सिद्धा

ॐ ह्रीं सिद्धमेसर्व मानस साधय स्वाहा।।

८.संकटा

ॐ ह्रीं संकटे मम रोगं नाशय स्वाहा।।



।। अथ मंगलास्तोत्रम् ।।
श्रीपार्वत्युवाच
देवदेव महादेव सृष्टिस्थित्यान्तकारक ।
मङ्गलायाश्चन्द्रमातु: स्तवनं ब्रूहि शंकर ।। १ ।।
श्रीशिव उवाच
शृणु देवी प्रवक्ष्यामी मङ्गलाया: स्तवं शुभम् ।
ग्रहशान्तिकरं दिव्यं यदुक्तं सिद्धवासरे ।। २ ।।
मङ्गला मङ्गलाचारा मङ्गलोदयकारिणी ।
चन्द्रप्रसादजननी चन्द्रमाता कृशोदरी ।। ३ ।।
चन्द्रमण्डलमध्यस्था चन्द्रायुतसमप्रभा ।
शीलता श्वेतवर्णा च श्वेताम्बरविधारिणी ।। ४ ।।
वरदायिनी शान्ता च स्मितस्या पद्मलोचना ।
त्रिनेत्रा च स्वयंभूता श्वेतपर्वतवासिनी ।। ५ ।।
दशाशान्तिकरी रम्या गोभूस्वर्णादिदायिनी ।
सामान्यान्तर्दशारुपा पञ्चत्रिशाद्विभेदत: ।। ६ ।।
एतानि शुभनामानि पठेत् प्रात: समुत्थित: ।
चक्रजन्यं दशाजन्यं पीडा तस्य विनश्यति ।
मङ्गलाया प्रसादेन सर्वं भवति शोभनम् ।। ७ ।।
।। इति सिद्धसावरतन्त्रे मंगलास्तोत्रम् सम्पूर्णम् ।।

 

।। अथ पिङ्गलास्तोत्रम् ।।
उत्तमाधममध्यानां प्राणिनां राज्यदायक: ।
सर्वस्वहारकाश्चैव तथा पञ्चत्वदायका: ।।१।।
ग्रहा लोके प्रसिद्धाश्च येऽधीना योगिनीमुखा: ।
तस्मात् प्रब्रू हि मे देव पिङ्गलाया स्तवं शुभम् ।
मार्तण्डप्रीतिजनकं पीडाशान्तिविधायकम् ।।२।।
श्रीशिव उवाच
शृणु षड्मुख तत्वेन कथ्यमानं मयाऽनघ ।
पिङ्गला सूर्यजननी जनसंमोहकारिणी ।।३।।
वराभयधरा सौम्या त्रिनेत्रा कञ्चलोचना ।
कुसुम्भवर्णा रक्ताक्षी सूर्यविम्बनिवासिनी ।।४।।
ग्रहपीडाप हरणी रक्तपद्माटवीरता ।
रक्ताम्बरा रक्तमान्या रक्तचन्दनचर्चिता ।।५।।
विल्वस्तनी विशालाक्षी मधुपानरता सदा ।
मधुप्रिया दशारुपा दशाधीशा ग्रहेश्वरी ।।६।।
मारकेशी महानन्दा परिपाकफलप्रदा ।
पिङ्गलायास्तवंह्येतत् महाशान्तिविधायकम् ।।७।।
ग्रहपीडापहरणं पठनात् सर्वकामदम् ।
यस्य संस्मरणादेव निहतस्तारको मया ।।८।।
विशेषत: कलियुगे प्रधाना योगिनीगणा ।
कृशरान्नैर्वाडवाँश्च कन्यकाँस्तर्पयेद् बुध: ।।९।।
पठेत् स्तोत्रं महेशान्या: पीडाशान्तिर्भविष्यति।
आयुरारोग्यमाप्नोति वित्तञ्च लभते बहु ।।१०।।
।। इति श्री रुद्रयामल शिवकुमारसंवादे तेजस्विनीकल्पे पिङ्गलास्तवं सम्पूर्णम् ।।


।। अथ धान्यास्तोत्रम् ।।
सनातनमुने सम्यक् शत्रुगेहस्थितस्य च ।
सुराचार्यदशायाश्च वद शान्तिविधिं क्वचित् ।।१।।
ग्रहा: मातृगणाधीना विज्ञेया विबुधर्षभै: ।
तस्माच्छृणु त्वंवक्ष्यामि धान्यास्तोत्र धनप्रदम् ।।२।।
धान्या धनप्रदा धान्यराशिस्था धान्यरुपिणी ।
धनदा धनरुपा च गुरोर्माता गुणेश्वरी ।।३।।
आचार्याणी कुलेशानी दशाचक्रनिवासिनी ।
द्विभुजा धर्मरुपा च वराभयविधारिणी ।।४।।
तप्तकाञ्चनवर्णा च त्र्याक्षा पीताम्बरावृता ।
महाजनैश्चाञ्जलिपुटैर्मुक्तैर्लाजै: प्रपूरिता ।।५।।
दशाचक्रगता देवी मोदिनी वीरनायिका ।
वृन्दारकसमूहैश्छ वन्दिता भुवनेश्वरी ।।६।।
इति धान्यास्तवं दिव्यं पठेन्नित्यमनन्यधी ।
तस्य नश्यन्ति गुरुजा पीडा योगिनीसम्भवा: ।।७।।
पुत्रं पौत्रं धनं धान्यं लभते च न संशय: ।
बातपित्तादिजा पीडा नश्यते पाठमात्रत: ।।८।।
ग्रहभूतपिशाचाश्च डाकिनीशाकिनीगणा: ।
ब्रह्मराक्षसवेताला नागगन्धर्वमातर: ।।
छायां तस्य न लङ्घन्ति का वार्ताग्रहणस्यतु ।।९।।
।। इति श्रीस्कन्दपुराणे रेवाखण्डे धान्यास्तोत्रं सम्पूर्णम् ।।


।। अथ भ्रामरीस्तोत्रम् ।।
श्रीभूरुवाच
कथं भ्रामरिजा पीडा नश्यते स्मृतिमात्रत: ।
भारद्वाजमुने ब्रूहि यदि तेऽनुग्रहो महि ।।१।।
श्रीभारद्वाज उवाच
कुमारीणां पूजनैश्च तथा ब्राह्मणतर्पणै: ।
हवनैश्च सिताज्यादिदानै: सक्षौद्रकीटजै: ।।२।।
अकिञ्चनानां मर्त्यानां जपैश्चैव विशेषत: ।
सर्वेषां स्तोत्रपठनाद् दुष्टदोषो विनश्यति ।।३।।
चत्वारिंशतिभेदेन अन्तर्व्यन्तरजा दशा ।
सूचिता मङ्गलेनाऽथ दुष्टदोषो गमिष्यति ।।४।।
तस्माच्छान्तिकरं स्तोत्रं शृणु सर्वाङ्गसुन्दरी ।
द्विभुजा भ्रामरी श्यामा वरखट्वाङ्गधारिणी ।।५।।
भ्राममाणा दशामध्ये विद्रुमाभा त्रिलोचना ।
रक्ताम्बरा रक्तवर्णा रक्तमाल्यानुलेपना ।।६।।
रक्तनेत्रनखा रक्तरसना रक्तदन्तिका ।
भ्रमहन्त्री भक्तिलभ्या मनसोद्वेगकारिणी ।।७।।
योगिनीवृदमध्यस्था भौममाता यशस्विनी ।
भयदा भयहा दुर्गाष्टवीभ्रमणदायिनी ।।८।।
द्विसहस्त्रबिभेदेन ज्योतिश्चक्रनिवासीनी ।
कालिका कामदा काली कमनीयभुजेक्षणा ।।९।।
कान्तारवासिनी कान्ता घृतोदधिनिवासिनी ।
माक्षीकोदधिसंमग्ना यवपर्वतगामिनी ।।१०।।
शर्करागिरिसँल्लीना कृशरान्नबिभोजिनी ।
खेटा खेटानुगा साध्वी खेटपीडाविभञ्जनी ।।११।।
इति ते कथितं स्तोत्रं सर्वसिद्धिप्रवर्तकम् ।
यस्याऽनुष्ठानमात्रेण नश्यते खेटजं भयम् ।।१२।।
योगिनीजं दशादोषं नश्यतेऽत्र न संशय: ।
सत्यंसत्यं पुन: सत्यं न मिथ्यावादिनो वयम् ।।१३।।
।। इति सूतसंहितायां भूमिभारद्वाजसंवादे भ्रामरीस्तोत्रं संपूरणम् ।।


।। अथ भद्रिकास्तोत्रम् ।।
स्कन्द उवाच
भद्रया: स्तवनं ब्रूहि यत् त्वया सूचितं पूरा ।
तस्य कि ब्रूही में नाथ फलाफल सविस्तरम् ।।१।।
शिव उवाच
नारसिंहे महायुद्धे मया शरभरुपिणा ।
स्तुता सा भदृकादेवी प्रादुर्भूता मितप्रभा ।।२।।
स्तोत्रं तच्चाऽत्र वक्ष्यामि शृणु तब नीलकण्ठज ।
भदृका भद्रदा भद्रा भवरोगविदारिणी ।।३।।
भक्तीप्रिया भक्तिगम्या द्विभुजोत्पलधारिणी ।
बुधस्य जननी बोधा बुधरुपा पतिब्रता ।।४।।
भार्गवी लोकजननी भक्ताभीष्टफलप्रदा ।
भाविनी भवरोगघ्नी भुवनेश्वरपूजिता ।।५।।
भारती भरतेशाना ग्रहमाता हरेश्वरी ।
दशारुपाऽन्तरदशारुपा व्यन्तररुपिणी ।।६।।
प्राणान्तरस्वरुपा च मातृका चक्ररुपिणी ।
संग्रामे जयदा काली सर्वत्र सुखदायिनी ।।७।।
इति स्तुता महादेवी मया शरभरुपिणी ।
वर दत्वा गता साऽपि भदृका भद्रदायिनी ।
तस्या प्रसादत: प्राप्तं संग्रामे जयमुत्तमम् ।।८।।
इदं मया कृते स्तोत्रं ये पठिष्यन्ति मानवा: ।
तेषां तु ग्रहजा: पीडास्तथा मातृसमुद्भवा: ।।९।।
दशाश्चान्तरदशाजन्या लग्नगोचरवर्षजा: ।
विनश्यन्ति महासेन सत्यं सत्यं न संशय: ।।१०।।
।। इति ब्रह्माअयामले ब्रह्मवृक्षकल्पप्रसङ्गे शरभनृसिंहयुद्धे
शरभकृतभदृकास्तोत्रम संपूरणम् ।।



।। अथ उल्कास्तोत्रम ।।
वशिष्ठ उवाछ
कथं दु:खे निमग्नेऽसि किमर्थं मलिनं मुखम् ।
ममाऽग्रे कथ्यतां दु:खमुपायां वच्मि साम्पृतम् ।।१।।
हरिश्चन्द्र उवाच
राज्यभ्रंशो महान् जातो धनानाशादिकं तत: ।
पत्न्यादीनां कथं लाभो युक्ति पूर्णं वद प्रभो ।।२।।
शृणु राजन् प्रवक्ष्यामि उल्कास्तोत्रं विपद्धरम् ।
रोगशोकादिहरणं सर्वसौभाग्यवर्धनम् ।।३।।
धारणं कुरु भो शिष्य उल्कादेव्या: प्रपूजनम् ।
स्तोत्रं च पठ्यतां वस्त विपत्तिं नाशयत्ययम् ।।४।।
ॐ अस्य श्री उल्कादेव्याया: स्तोत्रमन्त्रस्य इत्यपि ।
ऋषि रुद्र: समाख्यात: वृहतीछन्द उच्यते ।।५।।
उल्का बिजं च ह्रीं शक्ति: क्रीं अं च इति कीलकम् ।
ममाधिदु:खशान्त्यर्थं विनियोग: प्रकीर्तित: ।।६।।
उल्काया मूलमन्त्रोऽयं मम रोगं विनाशय ।
जगद्धात्री जगन्माता अविशूक्तविनाशिनी ।।७।।
मन्दमाता विशालाक्षी योगिनीगणचारिणी ।
तारिणी सर्वदु:खानां नाशिनी रिपुघातिनी ।।८।।
ज्ञानदात्री मोक्षकरी सिद्धिदा सौख्यदा सदा ।
दुष्टहन्त्री महामाया सर्वारिष्टप्रणाशिनी ।।९।।
भवदु:खहरी सौम्या दुष्टग्रहविमर्दिनी ।
छायारुपधरी पूर्णा पद्मा पद्मावती शिवा ।।१०।।
वडवारुपिणी गुह्या गुह्यशक्ति: पराऽपरा ।
वागीश्वरी वरा भद्रा भवानी भूतनाशिनी ।।११।।
भूतिदा रोगहन्त्री च ओंकारबीजरुपिणी ।
अर्पणा गिरिजा काली शशानालयवासिनी ।।१२।।
शिवप्रिया महाचण्डी चण्डेश्वरसुपूजिता ।
इत्येतत्परमं गुह्यं उल्कादेव्या: स्तवं शिवम् ।।१३।।
आधिव्याधिहरं पुण्यं तृषु लोकेषु दुर्लभं ।
ग्रहदोष विनाशाय उल्कास्तोत्रं पठेन्नर: ।।१४।।
अभक्ताय निन्दकाय क्रूराय भेषधारिणे ।
जपालस्याय नो दद्यात् सर्वस्व सम्प्रदायिने ।।१५।।
गुरुभक्ताय शान्ताय देशभक्तिपराय च ।
देयं च स्तोत्रराजञ्च सत्यं सत्यं न संशय: ।।१६।।
।। इति श्रीमेरुआगमे कैलाशखण्डे उल्कादेव्याया: स्तोत्रं संपूर्णम् ।।


।। अथ सिद्धास्तोत्रम् ।।
श्रीसूर्य उवाच
शृणु साम्य महावाहो सिद्धास्तोत्रमनुत्तमम् ।
विरुद्धस्याऽसुरगुरो: पीडाशान्तिविधायकम् ।।१।।
योगिनीसिद्धिदा सिद्धा मन्त्रसिद्धिस्वरुपिणी ।
तपस: सिद्धिरुपा च दयारुपा क्षमान्विता ।।२।।
ऋद्धिरुपा शान्तिरुपा मेधारुपा तपस्विनी ।
पद्महस्ता मद्मनेत्रा शुक्रमाता: महेश्वरी ।।३।।
वस्त्रदा धनदात्री च राज्यदा सुखरुपिणी ।
शारदा च रमा काली प्रज्ञासागररुपिणी ।।४।।
सिद्धेश्वरी सिद्धिविद्या सिद्धिलक्ष्मीर्मतङ्गजा ।
शुक्लवर्णा स्वेतवस्त्रा श्वेतमाल्यानुलेपना ।।५।।
श्वेतपर्वतसंकाशा सुश्वेतस्तनमण्डला ।
कर्पूरराशिमध्यस्था शुक्रमण्डलवासिनी ।।६।।
कृशरान्नप्रिया साध्वी स्वेतवस्त्रा प्रियंवदा ।
कन्याशरीरगा रामा विप्रदेहविचारिणी ।।७।।
चित्रा हस्ता च सुभगा परमान्नप्रिया सदा ।।
दशास्वरुपा नक्षत्रा रुपाऽन्तर्यामिरुपिणी ।।८।।
इति ते कथितं वत्स सिद्धास्तोत्रमनुत्तमम् ।
पठनात् पठनाद्वाऽपि सर्वारिष्ट प्रशान्तये ।।९।।
ग्रहजन्यं दशाजन्यं चक्रजं भूतसम्भवम् ।
पिशाचचौरगन्धर्वपूतनामातृसम्भवम् ।।१०।।
अकालमृत्युरोगादिमहोत्पातादि संकटे ।
दोषं विनाशमाप्नोति सत्यं सत्यं न संशय: ।।११।।
।। इति श्रीशाम्बपुराणे सिद्धास्तोत्रम् संपूर्णम् ।।

।। अथ संकटास्तोत्रम् ।।
नारद उवाछ
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञसुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादत: ।।१।।
न तृप्तिमधिगच्छामि तब वाकमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ।।२।।
इति तस्य वच: श्रुत्वा जैगीषव्योऽब्रवित् तत: ।
संकष्टनाशनं स्तोत्रम् शृणु देवर्षिसत्तम ।।३।।
द्वापरे तु पुरवृते भ्रष्टराज्यो युधिष्ठिर: ।
भ्रातृभि: सहितो राज्यनिर्वेदं परमम् गत: ।।४।।
तदानीं तु तत: काशीं पुरीं यातो महामुनि: ।
मार्कण्डेय इति ख्यात: सह शिष्यैर्महायशा ।।५।।
तं दृष्ट्वा तु समुत्थाय प्रणिपत्य सुपूजित: ।
किमर्थ म्लानवदन एतत् त्वं मां निवेदय ।।६।।
युधिष्ठिर उवाछ
संकटं मे महत् प्राप्तमेतादृग्वदनं तत: ।
उतन्निवारणोपायं किञ्चिद् ब्रू हि मुने मम ।।७।।
मार्कण्डेय उवाच
आनन्दकानने देवी संकटानाम विश्रुता ।
वीरेश्वरोत्तरे भागे पूर्वे चन्द्रेश्वरस्य च ।।८।।
शृणु नामाष्टकं तस्या: सर्वसिद्धिकरं नृणाम् ।
संकटा प्रथमं नाम द्वितीयं विजया तथा ।।९।।
तृतीयं कामना प्रोक्तं चतुर्थं दु:खहारिणी ।
शावर्णी पंचमं नाम षष्ठंकात्यायनी तथा ।।१०।।
सप्तमं भीमनयना सर्वरोगहराऽष्टमम् ।
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वित: ।।११।।
य: पठेत्पाठयेद् वाऽपि नरो मुच्येत संकटात् ।
इत्युक्त्वा तु नरश्रेष्ठमृषिर्वाराणसीं ययौ ।।१२।।
इति तस्य वच: श्रुत्वा नारदो हर्षनिर्भर: ।
तत: संपूज्य तां देवीं वीरेश्वरसमन्विताम् ।।१३।।
भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् ।
मालाकमण्डलुयुतां पद्मशंखगदायुताम् ।।१४।।
त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् ।
वरदाभयहस्तां तां प्रणम्य विधिनन्दन ।।१५।।
वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ ।
एतत् स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनं ।।१६।।
संकष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।।१७ ।।
।। इति श्रीपद्मपुराणे संकटाष्टकं संपूर्णम् ।।


।। अथ मुन्थादशास्तोत्रम् ।।
कैलाशं शिखरासीनं देवदेवं जगद्गुरुम् ।
पार्वती प्रणतो भूत्वा वचनं समभाषितम् ।।१।।
श्रीपार्वत्युवाच
भगवान् सर्वधर्मज्ञ सर्वशत्रुविमर्दनम् ।
यस्मिन् वर्षे व्याधिभयं मुन्थाहा कुरुते यदि ।।
केनोपायेन शान्ति: स्यात् तद् वदस्व सुरेश्वर ।।२।।
श्रीमहादेव उवाच
अस्तहि मुन्थहा देव्याश्चाष्टकं नाम सिद्धिदम् ।
यस्य विज्ञानमात्रेण बहवो निर्भयङ्गता ।।३।।
मुन्थहा प्रथमं नाम द्वितीय कीर्तिवर्धिनी ।
तृतीयं देवजननी चतुर्थं माधवप्रिया ।।४।।
पंचमं भयहन्त्री च षष्ठं विश्वेश्वरी तथा ।
सप्तमं कलुषघ्नी च वरदा चाऽष्टमं तथा ।।५।।
इत्येतेर्नामभिर्देवी प्रत्यहं पूजिता यदि ।
तस्य पीडाभयं नाऽस्ति सत्यं सत्यं वदाम्यहम् ।।१६।।
यज्ञात्वा निर्जरैर्देवै: सर्वे दानवराक्षशा: ।
निहता: समरे देवि तस्मात्मुन्थां सदा जपेत् ।।१७।।
राज्यदां भोग्यदां श्रीदां पुत्रदां कीर्तिदा सदा ।
नामान्येतानि मुन्थाया: पठेन्नित्य महेश्वरी ।।१८।।
।। इति मुन्थास्तोत्रं समाप्तम् ।।





सङ्कलन- आचार्य डा. केशव शरण लुईटेल 
मिति- २०७६/०४/०८ गते बुधबार 
तारिक- २४/०७/२०१९ 
स्थान-कपन मिलनचोक काठमाण्डौ नेपाल