Friday, August 12, 2016

Shiva Kawach शिव कवच

अमोघशिवकवचस्तोत्रम् 


                                                  ।।श्रीगणेशाय नम:।।
                                                     ॐ नमः शिवाय 
विनियोगः- ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:। श्रीसदाशिवरुद्रो देवता। ह्रीं शक्‍ति:। रं कीलकम्। श्रीं ह्री क्लीं बीजम्। श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:।
र-न्यास: – ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्लांसर्वशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रुं अनादिशक्‍तिधाम्ने अघोरात्मने मध्यामाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वांरौं अलुप्तशक्तिधाम्ने सद्यो जातात्मने कनिष्ठिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐयंर: अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्यां नम:।
॥ अथ ध्यानम् ॥
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वंदे शंभुमुपतिम् ॥ १ ॥
।।ऋषभ उवाच।।
अथापरं सर्वपुराणगुह्यं निशे:षपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥ २ ॥
नमस्कृत्य महादेवं विश्‍वव्यापिनमीश्‍वरम्।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ ३ ॥
शुचौ देशे समासीनो यथावत्कल्पितासन: ।
जितेन्द्रियो जितप्राणश्‍चिंतयेच्छिवमव्ययम् ॥ ४ ॥
ह्रत्पुंडरीक तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।
अतींद्रियं सूक्ष्ममनंतताद्यंध्यायेत्परानंदमयं महेशम् ॥ ५ ॥
ध्यानावधूताखिलकर्मबन्धश्‍चरं चितानन्दनिमग्नचेता: ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ६ ॥
मां पातु देवोऽखिलदेवत्मा संसारकूपे पतितं गंभीरे
तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं ह्रदिस्थम् ॥ ७ ॥
सर्वत्रमां रक्षतु विश्‍वमूर्तिर्ज्योतिर्मयानंदघनश्‍चिदात्मा ।
अणोरणीयानुरुशक्‍तिरेक: स ईश्‍वर: पातु भयादशेषात् ॥ ८ ॥
यो भूस्वरूपेण बिर्भीत विश्‍वं पायात्स भूमेर्गिरिशोऽष्टमूर्ति: ॥
योऽपांस्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्य: ॥ ९ ॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलील: ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ १० ॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणि: ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्र: प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ११ ॥
कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान् दधान: ।
चतुर्मुखोनीलरुचिस्त्रिनेत्र: पायादघोरो दिशि दक्षिणस्याम् ॥ १२ ॥
कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांक: ।
त्र्यक्षश्‍चतुर्वक्र उरुप्रभाव: सद्योधिजातोऽवस्तु मां प्रतीच्याम् ॥ १३ ॥
वराक्षमालाभयटंकहस्त: सरोज किंजल्कसमानवर्ण: ।
त्रिलोचनश्‍चारुचतुर्मुखो मां पायादुदीच्या दिशि वामदेव: ॥ १४ ॥
वेदाभ्येष्टांकुशपाश टंककपालढक्काक्षकशूलपाणि: ॥
सितद्युति: पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाश: ॥ १५ ॥
मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्र: ।
नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्‍वनाथ: ॥ १६ ॥
पायाच्छ्र ती मे श्रुतिगीतकीर्ति: कपोलमव्यात्सततं कपाली ।
वक्रं सदा रक्षतु पंचवक्रो जिह्वां सदा रक्षतु वेदजिह्व: ॥ १७ ॥
कंठं गिरीशोऽवतु नीलकण्ठ: पाणि: द्वयं पातु: पिनाकपाणि: ।
दोर्मूलमव्यान्मम धर्मवाहुर्वक्ष:स्थलं दक्षमखातकोऽव्यात् ॥ १८ ॥
मनोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।
हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्‍वरो मे ॥ १९ ॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्‍वरोऽव्यात् ।
जंघायुगंपुंगवकेतुख्यातपादौ ममाव्यत्सुरवंद्यपाद: ॥ २० ॥
महेश्‍वर: पातु दिनादियामे मां मध्ययामेऽवतु वामदेव: ॥
त्रिलोचन: पातु तृतीययामे वृषध्वज: पातु दिनांत्ययामे ॥ २१ ॥
पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।
गौरी पति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ॥ २२ ॥
अन्त:स्थितं रक्षतु शंकरो मां स्थाणु: सदापातु बहि: स्थित माम् ।
तदंतरे पातु पति: पशूनां सदाशिवोरक्षतु मां समंतात् ॥ २३ ॥
तिष्ठतमव्याद्‍भुवनैकनाथ: पायाद्‍व्रजंतं प्रथमाधिनाथ: ।
वेदांतवेद्योऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ॥ २४ ॥
मार्गेषु मां रक्षतु नीलकंठ: शैलादिदुर्गेषु पुरत्रयारि: ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्ति: ॥ २५ ॥
कल्पांतकोटोपपटुप्रकोप-स्फुटाट्टहासोच्चलितांडकोश: ।
घोरारिसेनर्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्र: ॥ २६ ॥
पत्त्यश्‍वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडोघोर कुठार धारया २७ ॥
निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य ।
शार्दूल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनु: पिनाक: ॥ २८ ॥ दु:स्वप्नदु:शकुनदुर्गतिदौर्मनस्यर्दुर्भिक्षदुर्व्यसनदु:सहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्‍ग्रहार्ति व्याधींश्‍च नाशयतु मे जगतामधीश: ॥ २९ ॥
ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्‍धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनायानंतकोटिब्रह्माण्डनायकायानंतवासुकितक्षककर्कोटकङ्‍खकुलिक पद्ममहापद्मेत्यष्टमहानागकुलभूषणायप्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपायग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैकर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकल वेदान्तपारगाय सकललोकैकवरप्रदाय सकलकोलोकैकशंकराय शशांकशेखराय शाश्‍वतनिजावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्‍चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरंतकाय निष्प्रपंचाय नि:संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियय निस्तुलाय नि:संशयाय निरंजनाय निरुपमविभवायनित्यशुद्धबुद्ध परिपूर्णसच्चिदानंदाद्वयाय परमशांतस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्‍वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्‍तिभिंदिपालतोमरमुसलमुद्‌गरपाशपरिघ भुशुण्डीशतघ्नीचक्राद्यायुधभीषणकरसहस्रमुखदंष्ट्राकरालवदनविकटाट्टहासविस्फारितब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेन्द्रवलय नागेंद्रचर्मधरमृयुंजय त्र्यंबकपुरांतक विश्‍वरूप विरूपाक्ष विश्‍वेश्वर वृषभवाहन विषविभूषण विश्‍वतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशयनाशयचोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय ममशमनुच्चाट्योच्चाटयत्रिशूलेनविदारय कुठारेणभिंधिभिंभधि खड्‌गेन छिंधि छिंधि खट्‍वांगेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय वाणै: संताडय संताडय रक्षांसि भीषय भीषयशेषभूतानि निद्रावय कूष्मांडवेतालमारीच ब्रह्मराक्षसगणान्‌संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्‍वासयाश्‍वासय नरकमहाभयान्मामुद्धरसंजीवय संजीवयक्षुत्तृड्‌भ्यां मामाप्याय-आप्याय दु:खातुरं मामानन्दयानन्दयशिवकवचेन मामाच्छादयाच्छादयमृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।
   
।। ऋषभ उवाच ।।
इत्येतत्कवचं शैवं वरदं व्याह्रतं मया ॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ ३० ॥
य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शंभोरनुग्रहात् ॥ ३१ ॥
क्षीणायुअ:प्राप्तमृत्युर्वा महारोगहतोऽपि वा ॥
सद्य: सुखमवाप्नोति दीर्घमायुश्‍चविंदति ॥ ३२ ॥
सर्वदारिद्र्य शमनं सौमंगल्यविवर्धनम् ।
यो धत्ते कवचं शैवं सदेवैरपि पूज्यते ॥ ३३ ॥
महापातकसंघातैर्मुच्यते चोपपातकै: ।
देहांते मुक्‍तिमाप्नोति शिववर्मानुभावत: ॥ ३४ ॥
त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम्
धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ॥ ३५ ॥
    
॥ सूत उवाच ॥
इत्युक्त्वाऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ॥ ३६ ॥
पुनश्‍च भस्म संमत्र्य तदंगं परितोऽस्पृशत् ।
गजानां षट्‍सहस्रस्य द्विगुणस्य बलं ददौ । ३७ ॥
भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृति: ।
स राजपुत्र: शुशुभे शरदर्क इव श्रिया ॥ ३८ ॥
तमाह प्रांजलिं भूय: स योगी नृपनंदनम् ।
एष खड्‍गो मया दत्तस्तपोमंत्रानुभावित: ॥ ३९ ॥
शितधारमिमंखड्गं यस्मै दर्शयसे स्फुटम् ।
स सद्यो म्रियतेशत्रु: साक्षान्मृत्युरपि स्वयम् ॥ ४० ॥
अस्य शंखस्य निर्ह्लादं ये श्रृण्वंति तवाहिता: ।
ते मूर्च्छिता: पतिष्यंति न्यस्तशस्त्रा विचेतना: ॥ ४१ ॥
खड्‌गशंखाविमौ दिव्यौ परसैन्य निवाशिनौ ।
आत्मसैन्यस्यपक्षाणां शौर्यतेजोविवर्धनो ॥ ४२ ॥
एतयोश्‍च प्रभावेण शैवेन कवचेन च ।
द्विषट्‍सहस्त्रनागानां बलेन महतापि च ॥ ४३ ॥
भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम् ॥ ४४ ॥
इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां पूजित: सोऽथ योगी स्वैरगतिर्ययौ ॥ ४५ ॥
।।इति श्रीस्कंदपुराणे एकाशीतिसाहस्त्रयां तृतीये ब्रह्मोत्तरखण्डे अमोघ-शिव-कवचं समाप्तम् ।।

संकलन- डा. केशव लुईटेल                                                                                              मिति- २०७४-०७-१४ गते मंगलवार 

Tuesday, July 28, 2015

Aaditya Hridaya Stotram आदित्यहृदय स्तोत्रम


आदित्य हृदय स्तोत्र





अगस्त्य ऋषि


॥ आदित्यहृदयम्॥
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥
 दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥
 राम राम महाबाहो शृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥
 आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥
 सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥
 रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥
 सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥
 एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥
 पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥
 आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥
 हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥
नम उग्राय वीराय सारङ्गाय नमो नमः।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥
॥ इति आदित्यहृदयम् मन्त्रस्य॥
संकलन-केशव लुईटेल 
मिति-२०६९-०८-१३ गते बुधवार 


Tuesday, October 21, 2014

Shrisukta श्रीसुक्त


श्रीसुक्त 




॥ श्रीसूक्त (ऋग्वेद) ॥
ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६ फलश्रुति
पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥
अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमही ।
तन्नो लक्ष्मीः प्रचोदयात् ॥
आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्
श्रीरेव देवता ॥
चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥
श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु ।
श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥
श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं
सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद ।

ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।

तन्नो लक्ष्मीः प्रचोदयात् ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥

केशव शरण लुइँटेल 
मिति-२०७१-०७-०५ गते बुधबार 

Thursday, July 31, 2014

Bishnu Mahimna Stotram विष्णुमहिम्नः स्तोत्रम्

                             || विष्णुमहिम्नः स्तोत्रम् ||
               
            

           


                          || अथ प्रारम्भ ||


                  महिम्नस्ते पारं विधि हरफणीन्द्रप्रभृतयो ।
                  विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् ।।
                  विजानीयामद्धा नलिननयनात्मीयवचसो ।।
                  विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ।। १ ।।
                                            ॐ
                  यदाहुब्र्रह्मैके पुरुषमितरे कर्म च परे ।
                  ऽपरे बुद्धं चाऽन्ये शिवमपि च धातारमपरे ।।
                  तथा शक्तिं केचिद् गणपतिमुतार्कं चसुधियो ।
                  मतिनां वै भेदात्वमसि तदशेषं मम मतिः ।। २ ।।
                                            ॐ
                  शिवः पादाम्भस्ते शिरशि धृतवानादरयुतं ।
                  तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।।
                  दिनेशं चैवामुं तव नयनमूचुस्तु निगमा ।
                  स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ।। ३ ।।
                                             ॐ
                  क्वचिन्मत्स्यः कूूर्मः क्वचिदपि वराहो नरहरिः ।
                  क्वचिद् खर्वो रामो दशरथसुतो नन्दनतयः ।।
                  क्वचिद् बुद्धः कल्किर्विहरसि कुमारापहृतये ।
                  स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ।। ४ ।।
                                             ॐ
                  हृताम्नायेनोक्तं स्तवनवरमाकण्र्य विधिना ।
                  द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो ।।
                  क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे ।
                  रशेषं संगुप्तं जगदपि च वेदैकशरणम् ।। ५ ।।
                                             ॐ
                   निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा ।
                   हितर्थं देवानां कमठवपुषा ऽऽविश्य गहनम् ।।
                   पयोराशिं पृष्ठे तमजित सलीलं धृतवतो ।
                   जगद्धातुस्तेऽभूत् किमु सुलभभाराय गिरिकः ।। ६ ।।
                                             ॐ
                   हिराण्यक्षः क्षोणीमविशदसुरो नक्रनिलयं ।
                   समादायामत्र्यैः कमलजमुखैरम्बरगतैः ।।
                   स्तुतेनानन्तात्मत्र—चिरमवभाति स्म विधृता ।
                   त्वया दंष्टाग्रेऽसाववनिरखिला कन्दुक इव ।। ७ ।।
                                             ॐ
                   हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्यनिखिलं ।
                   जगत्रादैः स्तम्भात्ररहरि शरीरेण करजैः ।।
                   समुत्पत्या शूरा वसुरवरमादारितवत—
                   स्तवाख्याता भूमन् किमु जगति नो सर्वगतता ।। ८ ।।
                                             ॐ
                   विलोक्याजं द्वार्गं कपटलघुकायं सुररिपु—
                   र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् ।।
                   प्रसत्रस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं ।
                   बलेर्भक्ताधीन्यं तव विदितमेवामरपते ।। ९ ।।
                                             ॐ
                   समाधावासक्तं नृपतितनयैर्वीक्ष पितरं ।
                   हतं बाणै रोषादुरुतरमुपादायपरशुम् ।।
                   विना क्षेत्रं विष्णो क्षितितलमशेषं कृतवतो—
                   असत्किं भूभारोद्धरणपटुता ते न विदिता ।। १० ।।
                                            ॐ
                   समाराध्योमेशं त्रिभुवनमिदं वासवमुखं ।
                   वशे चक्रे चक्रित्रगणयदनीशं जगदिदम् ।।
                   गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं ।
                   न केनाप्तं त्वत्तः फलमविनयस्यासुररिपोः ।। ११ ।।
                                            ॐ
                   क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता ।
                   क्वचिद् गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।।
                   क्वचिन्मृत्स्नाशित्वं क्वतिदपि च वैकुण्ठविभव—
                   श्चरित्रं ते नूनं शरणदविमाहाय कुधियाम् ।। १२ ।।
                                           ॐ
                   न हिंस्यादित्येतद् ध्रुवमवितथंं वाक्यमबुधै—
                   रथाग्नीषोमीयं पशुमिति  तु विप्रैर्निगदितम् ।।
                   तवैत्तत्रास्थानेऽसुरगणविमोहाय गदतः ।
                   समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ।। १३ ।।
                                             ॐ
                   विभागे वर्णानां निगमनिचये चावनितले ।
                   विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे ।।
                   समारुह्याश्वं स्वं लसदसकरोम्लेच्छनिकरान् ।
                   निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते ।। १४ ।।
                                             ॐ
                   गभीरे कासारे जलचरवराकृष्टचरणो ।
                   रणेऽशक्तो मज्जत्रभयद जलेऽचिन्तयदसौ ।।
                   यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो ।
                   गतः स्वर्गं स्थानं भवति विपदां ते किमु जनः ।। १५ ।।
                                            ॐ
                   सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा ।
                   वथात्मन्यात्मानं शरणमगमत्वां त्रिजगताम् ।।
                   ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुसा ।
                   त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ।। १६ ।।
                                             ॐ
                   समाविद्धो मातुर्वचनविशिखैराशु विपिनं ।
                   तपश्चक्रे गत्वा तव परमतोषाय परमम् ।।
                   ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि ।
                   किमस्त्यस्मिंल्लोके त्वयि वरद तुष्टे दुरधिगम् ।। १७ ।।
                                             ॐ
                   बृकाद्भीतस्तूर्णं स्वजनभयभित्वां पशुपति—
                   भ्र्रमँल्लोकान् सर्वान् शरणमुपयातोऽथ दनुजः ।।
                   स्वयं भस्मीभूतस्तव वचनभङ्गोद्रतमतौ ।
                   रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ।। १८ ।।
                                             ॐ
                   हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजयैस्तु नयतः ।
                   कटाक्षैः सम्मोहं युवतिवरवेषेण दितिजान् ।।
                   समग्रं पीयुषं सुभग सुरपूगाय ददतः ।
                   समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ।। १९ ।।
                                            ॐ
                   समाकृष्टा दुष्टैद्र्रुपदतनयाऽलब्धशरणा ।
                   सभायां सर्वात्मंस्तव शरणमुच्चैरुपगता ।।
                   समक्षं सर्वेषामभवदचिरं चौरनिचयः ।
                   स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ।। २० ।।
                                            ॐ
                   वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे ।  
                   गवां लोके लोकं फणिनिलयपातालमितरे ।।
                   तथाऽन्ये क्षीरोदं हृदयनलिनं चापि तु सतां ।
                   न मन्ये तत्स्थानं त्वमिह च न यत्राऽसि न विभो ।। २१ ।।
                                            ॐ
                   शिवोऽहं रुद्राणामहमममराजो दिविषदां ।
                   मुनीनां व्यासोऽहं सुरवरसमुद्रोऽस्मि सरसाम् ।।
                   कुबेरो यक्षाणामिति तव वचो मन्दमतये ।
                   न जाने तज्जातं जगति ननु यत्रासि भगवन् ।। २२ ।।
                                            ॐ
                   शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो ।
                   निशि श्रोत्रे वाणी निगमनिकरस्ते कटिरिला ।।
                   अकूपारो बस्तिश्चरणमपि पातालमिति वै ।
                   स्वरुपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ।। २३ ।।
                                            ॐ
                   शरीरं वैकुण्ठं हृदयनलिनं वाससदनं ।
                   मनोवृत्तिस्ताक्ष्र्यो  मतिरियमथो सागरसुता ।।
                   विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो ।
                   न पश्यत्यज्ञा त्वामिह बहिरहो याति जनता ।। २४ ।।
                                             ॐ
                   सुधीरं कान्तारं विशति च तडागं सुगहनं ।
                   तथोत्तुङ्गं श्रृङ्गं सपदि च समारोहति गिरेः ।।
                   प्रसूनार्थं चैतोऽम्बुजममलमेकं त्वयि विभो ।
                   समप्र्याज्ञस्तूर्णं  बत न च सुखं विन्दति जनः ।। २५ ।।
                                               ॐ
                   कृतैकान्तावासा विगतनिखिलाशाः शमपरा ।
                   जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः ।।
                   परं ज्योतिः पश्यन्त्यनघ यदि पश्यन्तु मम तु ।
                   श्रियाश्लिष्टं भूयात्रयनविषयं ते किल वपुः ।। २६ ।।
                                               ॐ
                   कदा गङ्गोत्तुङ्गामलतरतरङ्गाच्छपुलिने ।
                   वसत्राशापाशादखिल—खलदाशादपगतः ।।
                   अये लक्ष्मीकान्ताम्बुजनयन तातामरपते ।
                   प्रसीदेत्याजल्पत्ररमरवर नेष्यामि समयम् ।। २७ ।।
                                              ॐ
                   कदा श्रृङ्गैः स्फीते मुनिगणपरीते हिमनगे ।
                   द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।।
                   क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं ।
                   स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ।। २८ ।।
                                              ॐ
                   सुधापानं ज्ञानं न च विपुलदानं न निगमो ।
                   न यागो नो योगी न च निखिलभोगोपरमणम् ।।
                   जपो नो नो तिर्थं व्रतमिह न चोग्रं त्वयि तपो ।
                   विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ।। २९ ।।
                                             ॐ
                   नमः सर्वेष्टाय श्रुतिुिशखरदृष्टाय च नमो ।
                   नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।।
                   नमो दिस्पष्टाय प्रणवपरिमृष्टाय च नमो ।
                   नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ।। ३० ।।
                                              ॐ
                   कणान् कश्चिद् वृष्टेर्गणन—निपुणस्तूर्णमवने—
                   स्तथाऽशेषान् पांसूनमित कलयेश्चापि तु जनः ।।
                   नमः पिण्डीकुर्यादचिरमपि चेच्चर्मवदिदं ।
                   तथापीशासौ ते कलयितुमलं नाऽखिलगुणान् ।। ३१ ।।
                                             ॐ
                    क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां ।
                    विभो ते मे चेतः क्व च विविधतापाहतमिदम् ।।
                    मयेदं यत् किञ्चिद् गदितमथ बाल्येन तु गुरो ।
                    गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ।। ३२ ।।
                                                ॐ
                 इति हरिस्तवनं सुमनोहरं । परमहंसजनेन समीरितम् ।।
                 सुगमसुन्दरसारपदास्पदं । तदिदमस्तु हरेरनिशंं मुदे ।। ३३ ।।
                                                  ॐ
                गदारथाङ्गाम्बुजकम्बुधारिणो । रमासमाश्लिष्टतनोस्तनोतु नः ।।
                बिलेशयाधीश—शरीरशायिनः । शिवं स्तवोऽजस्रमयं परं हरेः ।। ३४ ।।
                                                       ॐ
          पठेदिमं यस्तु नरः परं स्तवं । समाहितोऽघौघ—घनप्रभञ्जनम् ।।
          स विन्दतेऽत्राखिल भोगसम्पदो । महीयते विष्णुपदे ततो ध्रुवम् ।। ३५ ।।
        इति श्रीमत्परमहंसब्रह्मानन्दविरचितमं श्रीविष्णुमहिम्नः स्तोत्रं सम्पूूर्णम्
                         
                संकलन एवं इन्टरनेट सम्प्रेषण
                       केशव शरण लुइँटेल
           मिति -२०७१-०४-१५ गते गुरुवार  
               स्थान- बुढानिलकण्ठ  १० कपन 
                         काठमाण्डौ नेपाल