Saturday, July 22, 2017

Pitri Stotram पितृ स्तोत्रम




पितृदेवता 



दिव्य वैकुण्ठवासी-श्री चक्रपाणी लुईटेल    {हजुरबुबा }
जन्म-१९७५-०८-१० शुक्रवार -दिवंगत २०५८-०६-१२ शुक्रवार

 श्रीमती यशोदा लुईटेल                          {हजुरआमा }
जन्म-१९७५-१२-१३-बुधवार--दिवंगत-२०६७-०८-१६ विहिवार 


दिव्य वैकुण्ठवासी श्री घनस्याम लुईटेल 
जन्म-२०१४-०२-१८ शुक्रवार- दिवंगत-२०७४-०५-२० मंगलवार

    

      श्रीगरुडपुराण पितृस्तोत्रम् 

रुचिरुवाच ।
नमस्येऽहं पितॄन्भक्त्या ये वसन्त्यधिदेवतम् । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १॥
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २॥ 
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३॥ 
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ ४॥
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५॥ 
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६॥ 
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७॥ 
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८॥ 
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९॥ 
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १०॥ 
नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११॥ 
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२॥ 
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३॥ 
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४॥ 
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५॥ 
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १६॥ 
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७॥ 
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८॥ 
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९॥ 
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ २०॥ 
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ २१॥ 
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२॥ 
दिनेदिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३॥ 
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४॥ 
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ २५॥ 
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६॥ 
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ २७॥ 
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८॥ 
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९॥ 
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३०॥ 
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१॥ 
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ ३२॥ 
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३॥ 
महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ ३४॥ 
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५॥ 
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६॥ 
          माक्रण्डेय उवाच ।
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७॥ 
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ ३८॥
           रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ ३९॥ 
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षोणां तथाऽन्येषां तान्नमस्यामि कामदान् ॥ ४०॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ ४१॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४२॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ४३॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ४४॥ 
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ४५॥ 
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ ४६॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ ४७॥ 
     तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
     नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ४८॥ 

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः |            
..........................................................




मार्कण्डेयपुराणपुराण  पितृ स्तोत्रम्                                                                                 रुचिर उवाच 
नमस्येsहं पितृञ्छ्राद्धे ये वसन्त्यधिदेवता: ।   
   देवैरपि हि तर्प्यन्ते ये च श्राद्धै: स्वधोत्तरै: । १ ।
   नमस्येsहं पितृन्स्वर्गे ये तर्प्यन्ते महर्षिभि: ।
   श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभी: २
   नमस्येsहं पितृन्स्वर्गे सिद्धा: संतर्पयन्ति यान् ।
   श्राद्धेषु दिव्यै: सकलैरुपहारैरनुत्तमै: । ३ ।
   नमस्येsहं पितृन्भक्त्या येsर्च्यन्ते गुह्यकैरपि ।
   तन्मयत्वेन वाञ्छद्भिऋद्धिमात्यन्तिकि पराम् ४ 
   नमस्येsहं पितृन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।।
   श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिन: ।। ५ ।
   नमस्येsहं पितृन् विप्रैरर्च्यन्ते भुवि ये सदा ।
   वाञ्छिताभीष्टलाभाय प्रजापत्यप्रदायिन: ।६ ।
   नमस्येsहं पितृन् ये र्वै तर्प्यन्तेsरण्यवासिभि: ।
   वन्यै: श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्विषै: । ७ ।
   नमस्येsहं पितृन् विप्रैर्नैष्ठिकब्रम्हचारिभि: ।
   ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभि: । ८ ।
   नमस्येsहं पितृन् श्राद्धै: राजन्यस्तर्पयन्ति यान् ।
   कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् ।। ९ ।।
   नमस्येsहं पितृन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
   स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभि: ।। १० ।
   नमस्येsहं पितृन् श्राद्धै र्यै: शूद्रैरपि भक्तित: ।
   संतृप्यन्ते जगत्यत्र नाम्ना ज्ञाता: सुकालिन: ११
   नमस्येsहं पितृन् श्राद्धै: पाताले यै: महासुरै: ।
   संतर्प्यन्ते स्वधाहारैस्त्यक्तदंभमदै: सदा ।। १२ ।
   नमस्येsहं पितृन् श्राद्धैरर्च्यन्ते ये रसातले ।
   भोगैरशेषैर्विधिवन्नागै: कामानभीप्सुभि: । १३ ।
   नमस्येsहं पितृन् श्राद्धै: सर्पै: संतर्पितान् सदा ।
   तत्रैव विधिवन्मन्त्रभोगसंपत्समन्वितै: ।। १४ ।
         
         पितृन्नमस्ये निवसन्त्ति साक्षाद् ।
          यद्देवलोके च तथांन्तरिक्षे ।।
          महीतले ये च सुरादिपूज्या ।।
          स्ते मे प्रयच्छंतु मयोपनीतम् ।। १५ ।।
          
          पितृन्नमस्ये परमात्मभूतान् ।
          ये वै विमाने निवसन्ति मूर्त्ता: ।।
          यजन्ति यानस्तमलैर्मनोभि ।
          र्योगिश्वरा: क्लेशविमुक्तिहेतुन् ।। १६ ।।

          पितृन्नमस्ये  दिवि ये च मूर्ता: ।।
          स्वधाभुज: काम्यफलाभिसंघौ ।
          प्रदानसक्ता: सकलेप्सितानां ।।
          विमुक्तिदा येsनभिसंहितेषु ।। १७ ।।
          
          तृप्यन्तु तेsस्मिन् पितर: समस्ता ।
          इच्छावतां ये प्रदिशंति कामान् ।।
          सुरत्वमिन्द्रत्वमतोsधिकं वा ।।
          सुतान् तनून् स्वानि बलं गृहाणि ।।१८ ।।

          सोमस्य ये रश्मिषु येsर्कबिम्बे ।।
          शुक्ले विमाने च सदा वसन्ति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै ।
          र्गन्धादिना पुष्टिमितो ब्रजंतु ।। १९ ।।
           
          येषां हुतेsग्नौ हविषा च तृप्ति ।
          र्येभुञ्जते विप्रशरीरभाज: ।।
          ये पिण्डदानेन मुदं प्रयाति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै: ।।२० ।।

          ये खङ्गिमांसेन सुरैरभिष्टै: ।।
          कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।।
          कालेन साकेन्द्र महर्षिवर्यै: ।।
          संप्रीणितास्ते मुदमत्र यन्तु ।। २१ ।।

         कव्यान्यशेषाणि च यान्यभीष्टा ।
         न्यतीव तेषाममरार्चितानाम् ।।
         तेषां तु सान्निध्यमिहास्तु पुष्प ।।
         गन्धान्नभोज्येषु मया कृतेषु ।। २२ ।।

         दिने दिने ये प्रतिगृह्णतेर्च्चां ।।
         मासान्तपूज्या भुवि येsष्टकासु ।।
         ये वत्सरान्तेsभ्युदये च पूज्या: ।
         प्रयान्तु ते मे पितरोsत्र तृप्तिम् ।। २३ ।।

        पुज्या द्विजानां कुमुदेन्दुभासो ।
        ये क्षत्रियाणां च नवार्कवर्णा: ।।
        तथा विशां ये कनकावदाता ।
        नीलीनिभा: शूद्रजनस्य ये च ।। २४ ।।

       तेsस्मिन् समस्ता मम पुष्पगंध ।
       धूपान्नतोयादिनिवेदनेन ।।
       तथाग्निहोमेन च यांतु तृप्ति ।
       सदा पितृभ्य: प्रणतोsस्मि तेम्य: ।। २५ ।।

       ये देवपूर्वाण्यतितृप्तिहेतो ।। 
       रश्नंन्ती काव्यानि शुभाहूतानि ।।
       तृप्ताश्च ये भूतिसृजो भवन्ती ।।
       तृप्यन्तु तेsस्मिन प्रणतोsस्मि तेभ्य: ।।२६ ।।

       रक्षांसि भूतान्यसुरांस्तथोग्रा ।।
       न्निर्णाशियन्तस्त्वशिवं प्रजानाम् ।
       आद्या: सुराणाममरेशपूज्या ।।
       स्तृप्यन्तु तेsस्मिन्प्रणतोsस्मि तेभ्य: ।। २७ ।
अग्निष्वात्ता बर्हिषदा आज्यपा सोमपास्तथा ।।
व्रजन्तु तृप्तिं श्राद्धेsस्मिन् पितरस्तर्पिता मया २८
अग्निष्वाता: पितृगणा: प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषद: पान्तु याम्यायां पितरस्तथा ।। २९ ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपा: ।।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषत: ।। ३० ।।
सर्वतश्चाधिपस्तेषां यमो  रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धूर्यो धन्य: शुभानन: । ३१ ।
भूतिदो भूतिकृद्भूति पितृणां ये गणा नव ।।
कल्याण: कल्पतां कर्ता कल्प: कल्पतराश्रय: ३२
कल्पताहेतुरनघ: षडिमे ते गणा: स्मृता: ।।
वरो वरेण्यो वरद: पुष्टिदस्तुष्टिदस्तथा ।। ३३ ।।
विश्वपाता तथा धाता सप्तैवैते गणस्तथा ।।
महान् महात्मा महितो महिमावान्महाबल: । ३४।
गणा: पंच तथैवेते पितृणां पापनाशना: ।।
सुखदो धनदश्चान्यो धर्मदोsन्यश्च भूतिद: ।। ३५ ।
पितृणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकविंशत् पितृगणा यैर्व्याप्तमखिलं जगत् । ३६ ।
ते मेsनुतृप्तास्तुष्यंन्तु यच्छान्तु च सदा हितम् ।
अमूर्त्तानां च मूर्त्तानां पितृणां दीप्ततेजसाम् । ३७ ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।। ३८ ।।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ।
मन्वादीनां मुनिंन्द्राणां सूर्यचन्द्रमसोस्तथा । ३९ ।
तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु ये ।
नक्षत्राणां ग्रहाणां च वाय्यग्नोर्नभसस्तथा ।। ४० ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांञ्जलि: ।
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतम् ।। ४१ ।।
अधिपत्यं सदा दातृन्नमस्येsहं कृताञ्जलि: ।
नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तषु । ४२ ।
चतुर्मूर्ते नस्यामि ब्रम्हणे योगचक्षुषे ।।
यजधारान पितृगणान् योगमूर्तिधरस्तथा । ४३ ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।
अग्निरुपांस्तथैवान्यान्नमस्यामि पितृन्नहम् । ४४ ।
अग्नीषोममयं विश्वे यत एतदशेषत: ।
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय: ।। ४५ ।।
जगत्स्वरुपिणश्चैव तथा ब्रम्हश्वरुपिण: ।
तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानसा: ।
नमो नमो नमस्ते ये प्रसीदन्तु स्वधाभुज । ४६ ।
                    पितर उचु:
                    
स्तोत्रेणानेन च नरो यो मां स्तोष्यन्ति भक्तित: ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् । ४७ ।।
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न संदेहो यच्चान्यदभिवांछितम् । ४८ ।
तस्मात्पुण्यफलं लोके वाञ्छद्भी:सततं नरै: ।
पितृणां चाक्षयां तृप्ति: स्तव्यां स्तोत्रेण मानवै: ४९ 
वाञ्छद्भि: सततं स्तव्या: स्तोत्रेणानेन वै यत: ।
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ५० 
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरत: स्थिता: ।
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।। ५१ ।।
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ।। ५२ ।।
आन्यायोपात्त्वित्तेन यदि वा कृतमन्यथा ।
अश्रद्धार्हैरुपहृतैरुपहारैस्तथा कृतम् ।। ५३ ।।
अकालेsप्यथवाsदेशे विधिहीन्मथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रीत्य वा कृतम् ।। ५४ 
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतन्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । ५५ 
अस्माकं जायते तृप्तिस्तत्र द्वादसवर्षिकी ।
हेमन्ते द्वादशब्दानि तृप्तिमेतत्प्रयच्छति ।। ५६ ।
शिशिरे द्विगुणाब्दांश्च तृप्तिस्तोत्रमिदं शुभम् ।
बसन्ते षोडश समास्तृप्तय श्राद्धकर्मणि ।। ५७ ।
ग्रीष्मे च षोडशे चैतत्पठितं तृप्तिकारकम् ।
विकलेsपि कृते श्राद्धे स्तोत्रेणानेन साधिते ।। ५८ 
वर्षाषु तृम्तिरस्माकमक्षया जायते रुचे ।
शरद्कालेsपि पठितं श्राद्धकाले प्रयच्छति । ५९ ।
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकम् ।
यस्मिन् गृहे च लिखितमेतत्तिष्ठति नित्यदा । ६० ।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्वया श्राद्धे विप्राणां भुंजतां पुर: ।। ६१ ।
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तमम् । ६२ ।

इति मार्कण्डेयपुराणे रुचिमनुना कृतं रुचिस्तवं सप्तर्सिस्तवं च पितृस्तोत्रम् ।।
     
   संग्रह - केशव लुईटेल                                                  
मिति- २०७४-०४-०५ गते गुरुवार  










Kaushikgotra Pooja Paddhati कौशिक गोत्र को पूजा पद्धति




कौशिक ऋषि बाट उत्पन्न कौशिक गोत्र को पूजा पद्धति


कौशिक ऋषि {विश्वामित्र }


कौशिक ॠषि-
विश्वामित्र महाप्राज्ञ गोत्र कौशिकsमुद्भव: ।
मम वंशस्यरक्षार्थं प्रसन्नो भव: सर्वदा ।।
ऋद्धि सिद्धी -
पञ्चधा चित्तवृत्तिश्च बुद्धिरुपेणsकर्षितौ ।
तौ मातरौ प्रणम्योsहम् ॠद्धि सिद्धी प्रदाइनी ।।
रुपाल मष्ट-
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा सन्तुष्टो सर्वदा प्रभो ।।
खप्पर मष्ट-
खप्पर्मष्ट: कुल श्रेष्ठ: मम पुज्याश्च सर्वदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत ।।
कास्यपाल-
कास्यपालं महाभागं महाविघ्न विनाशकम् ।
त्वयर्चयामि पुष्पाणि प्रसन्नो भव: सर्वदा ।।
सुनझाँक्री-
सुनझाँकृति नामोsस्ति यो वै वंशस्य सद्गुरु ।
तस्य पादारविन्देषु भुयो भुयो नमाम्यहम् ।।

लुईटेल वंशको पूजा पद्धति

लुईटेलवंशीया: सर्वे रुमालमाष्टकादय: ।
आवाहनं प्रकुर्वेsहं आयान्तु कुलदेवता: ।। १
खप्परेति कुलश्रेष्ठ माष्टेति कुलमातुल: ।
युष्माकं पूजनं कुर्मो गन्धपुष्पादिभी: सह: ।। २
क्षेत्रपाल ! भागिनेय कुलस्य प्रतिपालक ।
त्वयर्चयामि पुष्पाणि कृपया मां समुद्धर । ३
इदं पाद्यमिदमर्घ्यमिदमाचमनीयकम् ।
स्वीकुरुध्वं वंशदीपा: प्रसन्ना सन्तु सर्वदा । ४
पञ्चामृतं शुद्धजलं पवित्रं कौशिकी पय: ।
स्नानार्थं कल्पितं सर्वे गृह्यतां कुलपालका: । ५
धूपं दीपश्च नैवेद्यमर्पये प्रीतिपूर्वकम् ।।
चन्दनं शुभदं वस्त्रं स्वीकृत्य माष्टकादय: । ६
प्रसन्ना वरदा सन्तु पूजाकाले कुलोद्भवा: ।
पूज्यपूजक भावं हि विभाव्य प्रतिरक्षक: । ७
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा आगच्छन्तु महाशया: । ८
अस्माकं पूर्वजान् स्मृत्वा नमामि न तशीर्षक: ।
यथालब्धोपचारेण अर्चयामि मुहुर्मुहु: ।। ९
दासोsहं कुलदेवस्य भक्तिहीनोsमि मुढधी: ।
तस्मात्त्वच्छरणं प्राप्य निर्भयं विचराम्यsहम् । १०
खप्पर्माष्टाश्चाधिवारा मम पुज्याश्च नित्यदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत । ११
कौशिकं गोत्रवान् सर्वान् स्मारं स्मारं कृताञ्जलि:
सास्टाङ्गमर्पयेत् भक्त्या क्षमां सम्प्रार्थये प्रभो १२
फलश्रुति:
इत्येवंमुत्तमै: पद्यै: पूजां करोति श्रद्धया ।
माष्टकादि प्रसादेन सर्वमाप्नोति पूजक: । १३ त्याज्य
न दद्यादामिषंचान्नं न कुर्याद् पशुहिंसया: ।
फल पुष्प प्रसादेन प्रसन्नो केशवं सदा ।। १४

लेखक- केशव लुईटेल 




२०७४-०१-०४ गते मेरो आफ्नै जन्मोत्सवको उपलक्ष्यमा 
स्वयम्को रचना 

ज्ञातव्य -लुईटेल बन्धु वंशावली २०७३ मा पृष्ठ संख्या १५२१ र १५२२ मा उपर्युक्त श्लोक पूजा पद्धति अन्तर्गत प्रयोग भएको छ  |

Friday, July 21, 2017

Saraswati Bandana सरस्वती बन्दना

     


सरस्वती बन्दना 


उद्धर भारति मामोह ज्ञानम् ।
त्वं खलु निखिल- ज्ञान निधानम् ।।
देवि सुरासुर सेवित चरणम् ।
भीषण संसारार्णव - शरणम् ।। १ ।।

सुन्दर शत दल मण्डित चरणे ।
कुन्द विनिन्दित सस्मित वदने ।।
शिरसि चिरं में क्षरतु च वासी ।
नश्यतु निमिषम् दुष्कृतराशी ।। २ ।।

श्वेताम्बर धर तनु तनु युक्ते ।
विघ्नविघाते मति मति मुक्ते ।।
कुरु मे ध्वान्तम् ध्वान्त विनाशम् ।
छिन्धि च भयदम् भव भय पाशम् ।।३ ।।

आद्या विद्या रचयति सर्वम् ।
हर मे तामस मामिती गर्वम् ।।
वेत्ति न कश्चन तव महिमानम् ।
तमसाध्वान्तं सत्यं ज्ञानम् ।। ४ ।।

सृष्टौ तमसि च मूढा माया ।
तमसि जगतनुरपगत काया ।।
भामति शुद्धे सायं प्रातर ।
दह मम बुद्धे जडता मातर् ।। ५ ।।

प्रसरतु काव्ये शास्त्रे बुद्धि ।
र्भवतु च वाद्ये वाचां सिद्धि: ।।
कुण्ठतु कुञ्च दयया: मैते ।
विधि हर पूज्या माधव दैत्ये ।। ६ ।।

जय ? जय ? देवि चराचर सारे ।
कण्ठ विलम्बित मुक्ताहारे ।।
वीणा रञ्जित पुस्तकहस्ते ।
भगवति भारति ? देवि नमस्ते ।। ७ ।।
साभार -सयपत्री को थुँगो बाट लिएको हो
संग्रह केशव लुईटेल
मिति-२०७४-०८-०१ गते शुक्रवार