Showing posts with label कालसर्प दोश निवारक मनसा स्तोत्र ।. Show all posts
Showing posts with label कालसर्प दोश निवारक मनसा स्तोत्र ।. Show all posts

Saturday, December 23, 2017

Manasa Devi Stotram मनसादेवी स्तोत्रम्






   || मनसादेवी स्तोत्रम् ||

            ।। अथ ध्यानः ।।

चारु-चम्पक-वर्णाभां, सर्वांग-सु-मनोहराम् ।
नागेन्द्र-वाहिनीं देवीं, सर्व-विद्या-विशारदाम् ।।

       ।। मूल-स्तोत्र ।।
       श्रीनारायण उवाच ।
नमः सिद्धि-स्वरुपायै, वरदायै नमो नमः ।
नमः कश्यप-कन्यायै, शंकरायै नमो नमः ।।

बालानां रक्षण-कर्त्र्यै, नाग-देव्यै नमो नमः ।
नमः आस्तीक-मात्रे ते, जरत्-कार्व्यै नमो नमः ।।

तपस्विन्यै च योगिन्यै, नाग-स्वस्रे नमो नमः ।
साध्व्यै तपस्या-रुपायै, शम्भु-शिष्ये च ते नमः ।।

।। फल-श्रुति ।।
इति ते कथितं लक्ष्मि ! मनसाया स्तवं महत् ।
यः पठति नित्यमिदं, श्रावयेद् वापि भक्तितः ।।

न तस्य सर्प-भीतिर्वै, विषोऽप्यमृतं भवति ।
वंशजानां नाग-भयं, नास्ति श्रवण-मात्रतः ।।



।।अथ द्वितीय मनसादेवी स्तोत्रम् ।।

देवी त्वां स्तोतुमिच्छामि सा विनां प्रवरा परम् ।
‎परात्परां च परमां नहि स्तोतुं क्षयोsधुना ।। १ ।।

स्तोत्राणां लक्षणं वेदे स्वभावाव्यानत: परम् ।
‎न क्षम: प्रकृति वक्तुं गुणानां तब सुव्रते ।। २ ।।

शुद्रसत्वस्वरुपा त्वम् कोपहिंसाविवर्जिता ।
‎न च सप्तो मुनिस्तेन त्यक्तया च त्वया यत: ।। ३ ।।

त्वं मया पूजिता साध्वी जननी च यथाsदिति: ।
‎दयारुपा च भगिनी क्षमारुपा यथा प्रसु: ।। ४ ।।

त्वया मे रक्षिता: प्राणा: पुत्रदारा सुरेश्वरी ।
‎अहं करोमि त्वां पूज्यां मम प्रीतिश्छ वर्धते ।। ५ ।।

नित्यं यद्यपि पूज्यां त्वां भवेsत्र जगदम्बिके ।
‎तथाsपि तव पूजां वै वर्धयामि पुन: पुन: ।। ६ ।।

ये त्वयाषाढसङ्क्रान्त्या पूजयिष्यन्ति भक्तित: ।
‎पञ्चम्यां मनसारव्या यां मासान्ते दिने दिने ।। ७ ।।

पुत्रपौत्रादयस्तेषां वर्धन्ते न धनानि च ।
‎यशस्विन: कीर्तिमन्तो विद्यावन्तो गुणान्विता: ।। ८ ।।

ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जना: ।
‎लक्ष्मी हीना भविष्यन्ति तेषां नागभयं सदा ।। ९ ।।

त्वं स्वर्गलक्ष्मी: स्वर्गे च वैकुण्ठे कमलाकला ।
‎नारायणांशो भगवन् जरत्कारुर्मुनीश्वर: ।। १० ।।

तपसा तेजसा त्वं च मनसा ससृजे पिता ।
‎अस्माकं रक्षणायैव तेन त्वं मनसाभिदा ।। ११ ।।

मनसादेवी त्वं शक्त्या चाssत्मना सिद्धयोगिनी ।
‎तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। १२ ।।

यां भक्त्या मनसा देवा: पूजयन्त्यंनिशं भृशम् ।
‎तेन त्वं मनसादेवीं प्रवदन्ति पुराविद: ।। १३ ।।

सत्त्वरुपा च देवी त्वं शश्वत्सर्वानषेवया ।
‎यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।। १४ ।।

इदं स्तोत्रं पुण्यवीजं तां संपूज्य च य: पठेत् ।
‎तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। १५ ।।

विषं भवेत्सुधातुल्य सिद्धस्तोत्रं यदा पठेत् ।
‎पञ्चलक्ष जपेनैव सिद्ध्यस्तोत्रो भवेन्नर ।।
‎सर्पशायी भवेत्सोsपि निश्चितं सर्ववाहन: ।। १६ ।।
‎।। इति महेन्द्रकृतं मनसादेवीस्तोत्रं समसम्पूर्णम् ।।


।। अथ मनसा द्वादशनाम स्तोत्रम् ।।

ॐ नमो मनसायै
जरत्कारु जगद्गौरी मनसा सिद्धयोगिनी ।
‎वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। १ ।।

जरत्कारुप्रियाssस्तीकमाता विषहरीती च ।
‎महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। २ ।।

द्वादशैतानि नामानि पूजाकाले च य: पठेत् ।
‎तस्य नागभयं नास्ति तस्य वंशोद्भस्य च ।। ३ ।।

नागभीते च शयने नागग्रस्ते च मन्दिरे ।
‎नागभीते महादुर्गे नागवेष्ठितविग्रहे ।। ४ ।।

इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशय: ।
‎नित्यं पठेद् य: तं दृष्ट्वा नागवर्ग: पलायते ।। ५ ।।

नागौधं भूषणं कृत्वा स भवेत् नागवाहना: ।
‎नागासनो नागतल्पो महासिद्धो भवेन्नर: ।। ६ ।।
‎।। इति मनसादेवीद्वादशनाम स्तोत्र सम्पूर्णम् ।।


              संकलन-
       केशव शरण लुईटेल
  मिति- २०७४-०९-०९ शनिवार
 स्थान- कपन मिलनचोक काठमाडौं
               नेपाल