Saturday, July 22, 2017

Pitri Stotram पितृ स्तोत्रम




पितृदेवता 



दिव्य वैकुण्ठवासी-श्री चक्रपाणी लुईटेल    {हजुरबुबा }
जन्म-१९७५-०८-१० शुक्रवार -दिवंगत २०५८-०६-१२ शुक्रवार

 श्रीमती यशोदा लुईटेल                          {हजुरआमा }
जन्म-१९७५-१२-१३-बुधवार--दिवंगत-२०६७-०८-१६ विहिवार 


दिव्य वैकुण्ठवासी श्री घनस्याम लुईटेल 
जन्म-२०१४-०२-१८ शुक्रवार- दिवंगत-२०७४-०५-२० मंगलवार

    

      श्रीगरुडपुराण पितृस्तोत्रम् 

रुचिरुवाच ।
नमस्येऽहं पितॄन्भक्त्या ये वसन्त्यधिदेवतम् । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १॥
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २॥ 
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३॥ 
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ ४॥
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५॥ 
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६॥ 
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७॥ 
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८॥ 
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९॥ 
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १०॥ 
नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११॥ 
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२॥ 
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३॥ 
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४॥ 
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५॥ 
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १६॥ 
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७॥ 
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८॥ 
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९॥ 
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ २०॥ 
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ २१॥ 
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२॥ 
दिनेदिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३॥ 
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४॥ 
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ २५॥ 
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६॥ 
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ २७॥ 
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८॥ 
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९॥ 
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३०॥ 
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१॥ 
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ ३२॥ 
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३॥ 
महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ ३४॥ 
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५॥ 
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६॥ 
          माक्रण्डेय उवाच ।
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७॥ 
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ ३८॥
           रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ ३९॥ 
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षोणां तथाऽन्येषां तान्नमस्यामि कामदान् ॥ ४०॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ ४१॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४२॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ४३॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ४४॥ 
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ४५॥ 
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ ४६॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ ४७॥ 
     तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
     नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ४८॥ 

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः |            
..........................................................




मार्कण्डेयपुराणपुराण  पितृ स्तोत्रम्                                                                                 रुचिर उवाच 
नमस्येsहं पितृञ्छ्राद्धे ये वसन्त्यधिदेवता: ।   
   देवैरपि हि तर्प्यन्ते ये च श्राद्धै: स्वधोत्तरै: । १ ।
   नमस्येsहं पितृन्स्वर्गे ये तर्प्यन्ते महर्षिभि: ।
   श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभी: २
   नमस्येsहं पितृन्स्वर्गे सिद्धा: संतर्पयन्ति यान् ।
   श्राद्धेषु दिव्यै: सकलैरुपहारैरनुत्तमै: । ३ ।
   नमस्येsहं पितृन्भक्त्या येsर्च्यन्ते गुह्यकैरपि ।
   तन्मयत्वेन वाञ्छद्भिऋद्धिमात्यन्तिकि पराम् ४ 
   नमस्येsहं पितृन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।।
   श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिन: ।। ५ ।
   नमस्येsहं पितृन् विप्रैरर्च्यन्ते भुवि ये सदा ।
   वाञ्छिताभीष्टलाभाय प्रजापत्यप्रदायिन: ।६ ।
   नमस्येsहं पितृन् ये र्वै तर्प्यन्तेsरण्यवासिभि: ।
   वन्यै: श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्विषै: । ७ ।
   नमस्येsहं पितृन् विप्रैर्नैष्ठिकब्रम्हचारिभि: ।
   ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभि: । ८ ।
   नमस्येsहं पितृन् श्राद्धै: राजन्यस्तर्पयन्ति यान् ।
   कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् ।। ९ ।।
   नमस्येsहं पितृन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
   स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभि: ।। १० ।
   नमस्येsहं पितृन् श्राद्धै र्यै: शूद्रैरपि भक्तित: ।
   संतृप्यन्ते जगत्यत्र नाम्ना ज्ञाता: सुकालिन: ११
   नमस्येsहं पितृन् श्राद्धै: पाताले यै: महासुरै: ।
   संतर्प्यन्ते स्वधाहारैस्त्यक्तदंभमदै: सदा ।। १२ ।
   नमस्येsहं पितृन् श्राद्धैरर्च्यन्ते ये रसातले ।
   भोगैरशेषैर्विधिवन्नागै: कामानभीप्सुभि: । १३ ।
   नमस्येsहं पितृन् श्राद्धै: सर्पै: संतर्पितान् सदा ।
   तत्रैव विधिवन्मन्त्रभोगसंपत्समन्वितै: ।। १४ ।
         
         पितृन्नमस्ये निवसन्त्ति साक्षाद् ।
          यद्देवलोके च तथांन्तरिक्षे ।।
          महीतले ये च सुरादिपूज्या ।।
          स्ते मे प्रयच्छंतु मयोपनीतम् ।। १५ ।।
          
          पितृन्नमस्ये परमात्मभूतान् ।
          ये वै विमाने निवसन्ति मूर्त्ता: ।।
          यजन्ति यानस्तमलैर्मनोभि ।
          र्योगिश्वरा: क्लेशविमुक्तिहेतुन् ।। १६ ।।

          पितृन्नमस्ये  दिवि ये च मूर्ता: ।।
          स्वधाभुज: काम्यफलाभिसंघौ ।
          प्रदानसक्ता: सकलेप्सितानां ।।
          विमुक्तिदा येsनभिसंहितेषु ।। १७ ।।
          
          तृप्यन्तु तेsस्मिन् पितर: समस्ता ।
          इच्छावतां ये प्रदिशंति कामान् ।।
          सुरत्वमिन्द्रत्वमतोsधिकं वा ।।
          सुतान् तनून् स्वानि बलं गृहाणि ।।१८ ।।

          सोमस्य ये रश्मिषु येsर्कबिम्बे ।।
          शुक्ले विमाने च सदा वसन्ति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै ।
          र्गन्धादिना पुष्टिमितो ब्रजंतु ।। १९ ।।
           
          येषां हुतेsग्नौ हविषा च तृप्ति ।
          र्येभुञ्जते विप्रशरीरभाज: ।।
          ये पिण्डदानेन मुदं प्रयाति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै: ।।२० ।।

          ये खङ्गिमांसेन सुरैरभिष्टै: ।।
          कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।।
          कालेन साकेन्द्र महर्षिवर्यै: ।।
          संप्रीणितास्ते मुदमत्र यन्तु ।। २१ ।।

         कव्यान्यशेषाणि च यान्यभीष्टा ।
         न्यतीव तेषाममरार्चितानाम् ।।
         तेषां तु सान्निध्यमिहास्तु पुष्प ।।
         गन्धान्नभोज्येषु मया कृतेषु ।। २२ ।।

         दिने दिने ये प्रतिगृह्णतेर्च्चां ।।
         मासान्तपूज्या भुवि येsष्टकासु ।।
         ये वत्सरान्तेsभ्युदये च पूज्या: ।
         प्रयान्तु ते मे पितरोsत्र तृप्तिम् ।। २३ ।।

        पुज्या द्विजानां कुमुदेन्दुभासो ।
        ये क्षत्रियाणां च नवार्कवर्णा: ।।
        तथा विशां ये कनकावदाता ।
        नीलीनिभा: शूद्रजनस्य ये च ।। २४ ।।

       तेsस्मिन् समस्ता मम पुष्पगंध ।
       धूपान्नतोयादिनिवेदनेन ।।
       तथाग्निहोमेन च यांतु तृप्ति ।
       सदा पितृभ्य: प्रणतोsस्मि तेम्य: ।। २५ ।।

       ये देवपूर्वाण्यतितृप्तिहेतो ।। 
       रश्नंन्ती काव्यानि शुभाहूतानि ।।
       तृप्ताश्च ये भूतिसृजो भवन्ती ।।
       तृप्यन्तु तेsस्मिन प्रणतोsस्मि तेभ्य: ।।२६ ।।

       रक्षांसि भूतान्यसुरांस्तथोग्रा ।।
       न्निर्णाशियन्तस्त्वशिवं प्रजानाम् ।
       आद्या: सुराणाममरेशपूज्या ।।
       स्तृप्यन्तु तेsस्मिन्प्रणतोsस्मि तेभ्य: ।। २७ ।
अग्निष्वात्ता बर्हिषदा आज्यपा सोमपास्तथा ।।
व्रजन्तु तृप्तिं श्राद्धेsस्मिन् पितरस्तर्पिता मया २८
अग्निष्वाता: पितृगणा: प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषद: पान्तु याम्यायां पितरस्तथा ।। २९ ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपा: ।।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषत: ।। ३० ।।
सर्वतश्चाधिपस्तेषां यमो  रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धूर्यो धन्य: शुभानन: । ३१ ।
भूतिदो भूतिकृद्भूति पितृणां ये गणा नव ।।
कल्याण: कल्पतां कर्ता कल्प: कल्पतराश्रय: ३२
कल्पताहेतुरनघ: षडिमे ते गणा: स्मृता: ।।
वरो वरेण्यो वरद: पुष्टिदस्तुष्टिदस्तथा ।। ३३ ।।
विश्वपाता तथा धाता सप्तैवैते गणस्तथा ।।
महान् महात्मा महितो महिमावान्महाबल: । ३४।
गणा: पंच तथैवेते पितृणां पापनाशना: ।।
सुखदो धनदश्चान्यो धर्मदोsन्यश्च भूतिद: ।। ३५ ।
पितृणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकविंशत् पितृगणा यैर्व्याप्तमखिलं जगत् । ३६ ।
ते मेsनुतृप्तास्तुष्यंन्तु यच्छान्तु च सदा हितम् ।
अमूर्त्तानां च मूर्त्तानां पितृणां दीप्ततेजसाम् । ३७ ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।। ३८ ।।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ।
मन्वादीनां मुनिंन्द्राणां सूर्यचन्द्रमसोस्तथा । ३९ ।
तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु ये ।
नक्षत्राणां ग्रहाणां च वाय्यग्नोर्नभसस्तथा ।। ४० ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांञ्जलि: ।
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतम् ।। ४१ ।।
अधिपत्यं सदा दातृन्नमस्येsहं कृताञ्जलि: ।
नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तषु । ४२ ।
चतुर्मूर्ते नस्यामि ब्रम्हणे योगचक्षुषे ।।
यजधारान पितृगणान् योगमूर्तिधरस्तथा । ४३ ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।
अग्निरुपांस्तथैवान्यान्नमस्यामि पितृन्नहम् । ४४ ।
अग्नीषोममयं विश्वे यत एतदशेषत: ।
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय: ।। ४५ ।।
जगत्स्वरुपिणश्चैव तथा ब्रम्हश्वरुपिण: ।
तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानसा: ।
नमो नमो नमस्ते ये प्रसीदन्तु स्वधाभुज । ४६ ।
                    पितर उचु:
                    
स्तोत्रेणानेन च नरो यो मां स्तोष्यन्ति भक्तित: ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् । ४७ ।।
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न संदेहो यच्चान्यदभिवांछितम् । ४८ ।
तस्मात्पुण्यफलं लोके वाञ्छद्भी:सततं नरै: ।
पितृणां चाक्षयां तृप्ति: स्तव्यां स्तोत्रेण मानवै: ४९ 
वाञ्छद्भि: सततं स्तव्या: स्तोत्रेणानेन वै यत: ।
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ५० 
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरत: स्थिता: ।
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।। ५१ ।।
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ।। ५२ ।।
आन्यायोपात्त्वित्तेन यदि वा कृतमन्यथा ।
अश्रद्धार्हैरुपहृतैरुपहारैस्तथा कृतम् ।। ५३ ।।
अकालेsप्यथवाsदेशे विधिहीन्मथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रीत्य वा कृतम् ।। ५४ 
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतन्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । ५५ 
अस्माकं जायते तृप्तिस्तत्र द्वादसवर्षिकी ।
हेमन्ते द्वादशब्दानि तृप्तिमेतत्प्रयच्छति ।। ५६ ।
शिशिरे द्विगुणाब्दांश्च तृप्तिस्तोत्रमिदं शुभम् ।
बसन्ते षोडश समास्तृप्तय श्राद्धकर्मणि ।। ५७ ।
ग्रीष्मे च षोडशे चैतत्पठितं तृप्तिकारकम् ।
विकलेsपि कृते श्राद्धे स्तोत्रेणानेन साधिते ।। ५८ 
वर्षाषु तृम्तिरस्माकमक्षया जायते रुचे ।
शरद्कालेsपि पठितं श्राद्धकाले प्रयच्छति । ५९ ।
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकम् ।
यस्मिन् गृहे च लिखितमेतत्तिष्ठति नित्यदा । ६० ।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्वया श्राद्धे विप्राणां भुंजतां पुर: ।। ६१ ।
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तमम् । ६२ ।

इति मार्कण्डेयपुराणे रुचिमनुना कृतं रुचिस्तवं सप्तर्सिस्तवं च पितृस्तोत्रम् ।।
     
   संग्रह - केशव लुईटेल                                                  
मिति- २०७४-०४-०५ गते गुरुवार  










Kaushikgotra Pooja Paddhati कौशिक गोत्र को पूजा पद्धति




कौशिक ऋषि बाट उत्पन्न कौशिक गोत्र को पूजा पद्धति


कौशिक ऋषि {विश्वामित्र }


कौशिक ॠषि-
विश्वामित्र महाप्राज्ञ गोत्र कौशिकsमुद्भव: ।
मम वंशस्यरक्षार्थं प्रसन्नो भव: सर्वदा ।।
ऋद्धि सिद्धी -
पञ्चधा चित्तवृत्तिश्च बुद्धिरुपेणsकर्षितौ ।
तौ मातरौ प्रणम्योsहम् ॠद्धि सिद्धी प्रदाइनी ।।
रुपाल मष्ट-
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा सन्तुष्टो सर्वदा प्रभो ।।
खप्पर मष्ट-
खप्पर्मष्ट: कुल श्रेष्ठ: मम पुज्याश्च सर्वदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत ।।
कास्यपाल-
कास्यपालं महाभागं महाविघ्न विनाशकम् ।
त्वयर्चयामि पुष्पाणि प्रसन्नो भव: सर्वदा ।।
सुनझाँक्री-
सुनझाँकृति नामोsस्ति यो वै वंशस्य सद्गुरु ।
तस्य पादारविन्देषु भुयो भुयो नमाम्यहम् ।।

लुईटेल वंशको पूजा पद्धति

लुईटेलवंशीया: सर्वे रुमालमाष्टकादय: ।
आवाहनं प्रकुर्वेsहं आयान्तु कुलदेवता: ।। १
खप्परेति कुलश्रेष्ठ माष्टेति कुलमातुल: ।
युष्माकं पूजनं कुर्मो गन्धपुष्पादिभी: सह: ।। २
क्षेत्रपाल ! भागिनेय कुलस्य प्रतिपालक ।
त्वयर्चयामि पुष्पाणि कृपया मां समुद्धर । ३
इदं पाद्यमिदमर्घ्यमिदमाचमनीयकम् ।
स्वीकुरुध्वं वंशदीपा: प्रसन्ना सन्तु सर्वदा । ४
पञ्चामृतं शुद्धजलं पवित्रं कौशिकी पय: ।
स्नानार्थं कल्पितं सर्वे गृह्यतां कुलपालका: । ५
धूपं दीपश्च नैवेद्यमर्पये प्रीतिपूर्वकम् ।।
चन्दनं शुभदं वस्त्रं स्वीकृत्य माष्टकादय: । ६
प्रसन्ना वरदा सन्तु पूजाकाले कुलोद्भवा: ।
पूज्यपूजक भावं हि विभाव्य प्रतिरक्षक: । ७
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा आगच्छन्तु महाशया: । ८
अस्माकं पूर्वजान् स्मृत्वा नमामि न तशीर्षक: ।
यथालब्धोपचारेण अर्चयामि मुहुर्मुहु: ।। ९
दासोsहं कुलदेवस्य भक्तिहीनोsमि मुढधी: ।
तस्मात्त्वच्छरणं प्राप्य निर्भयं विचराम्यsहम् । १०
खप्पर्माष्टाश्चाधिवारा मम पुज्याश्च नित्यदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत । ११
कौशिकं गोत्रवान् सर्वान् स्मारं स्मारं कृताञ्जलि:
सास्टाङ्गमर्पयेत् भक्त्या क्षमां सम्प्रार्थये प्रभो १२
फलश्रुति:
इत्येवंमुत्तमै: पद्यै: पूजां करोति श्रद्धया ।
माष्टकादि प्रसादेन सर्वमाप्नोति पूजक: । १३ त्याज्य
न दद्यादामिषंचान्नं न कुर्याद् पशुहिंसया: ।
फल पुष्प प्रसादेन प्रसन्नो केशवं सदा ।। १४

लेखक- केशव लुईटेल 




२०७४-०१-०४ गते मेरो आफ्नै जन्मोत्सवको उपलक्ष्यमा 
स्वयम्को रचना 

ज्ञातव्य -लुईटेल बन्धु वंशावली २०७३ मा पृष्ठ संख्या १५२१ र १५२२ मा उपर्युक्त श्लोक पूजा पद्धति अन्तर्गत प्रयोग भएको छ  |

Friday, July 21, 2017

Saraswati Bandana सरस्वती बन्दना

     


सरस्वती बन्दना 


उद्धर भारति मामोह ज्ञानम् ।
त्वं खलु निखिल- ज्ञान निधानम् ।।
देवि सुरासुर सेवित चरणम् ।
भीषण संसारार्णव - शरणम् ।। १ ।।

सुन्दर शत दल मण्डित चरणे ।
कुन्द विनिन्दित सस्मित वदने ।।
शिरसि चिरं में क्षरतु च वासी ।
नश्यतु निमिषम् दुष्कृतराशी ।। २ ।।

श्वेताम्बर धर तनु तनु युक्ते ।
विघ्नविघाते मति मति मुक्ते ।।
कुरु मे ध्वान्तम् ध्वान्त विनाशम् ।
छिन्धि च भयदम् भव भय पाशम् ।।३ ।।

आद्या विद्या रचयति सर्वम् ।
हर मे तामस मामिती गर्वम् ।।
वेत्ति न कश्चन तव महिमानम् ।
तमसाध्वान्तं सत्यं ज्ञानम् ।। ४ ।।

सृष्टौ तमसि च मूढा माया ।
तमसि जगतनुरपगत काया ।।
भामति शुद्धे सायं प्रातर ।
दह मम बुद्धे जडता मातर् ।। ५ ।।

प्रसरतु काव्ये शास्त्रे बुद्धि ।
र्भवतु च वाद्ये वाचां सिद्धि: ।।
कुण्ठतु कुञ्च दयया: मैते ।
विधि हर पूज्या माधव दैत्ये ।। ६ ।।

जय ? जय ? देवि चराचर सारे ।
कण्ठ विलम्बित मुक्ताहारे ।।
वीणा रञ्जित पुस्तकहस्ते ।
भगवति भारति ? देवि नमस्ते ।। ७ ।।
साभार -सयपत्री को थुँगो बाट लिएको हो
संग्रह केशव लुईटेल
मिति-२०७४-०८-०१ गते शुक्रवार





                

Tuesday, April 4, 2017

Mool Ramayana मूल रामायण

            || अथ मूल रामायण ||

      
               राँ रामाय नमः 




      श्रीमद्वाल्मीकीय रामायण बालकाण्ड प्रथमः सर्गः
   
       तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
       नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ।। १ ।।
      
       को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्
       धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ।। २ ।।
       
       चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
       विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ।। ३ ।।
       
       आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
       कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।। ४ ।।
       
       एतदिच्छाम्यहं श्रोतुंं परं कौतुहलं हि मे ।
       महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।। ५ ।।
       
       श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
       श्रूयतामिति चामन्त्र प्रहृष्टो वाक्यमब्रवीत् ।। ६ ।।
      
       बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
       मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ।। ७ ।।
      
      इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
      नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।
      
      बुद्घिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः ।
      विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। ९ ।।
      
       महोरस्को महेष्वासो गुढजत्रुररिन्दमः ।
      आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ।। १० ।।
     
      समः समविभक्तांगः स्निग्धवर्णः प्रतापवान् ।
      पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। ११ ।।
      
      धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः ।
      यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। १२ ।।
      
      प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
      रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। १३ ।।
      
      रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
      वेदवेदांगतत्वज्ञो धनेर्वेदे च निष्ठितः ।। १४ ।।
      
       सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् ।
      सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। १५ ।।
       
       सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
       आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ।। १६ ।।
       
       स च सर्वगुणोपेतः कौशल्यानन्दवर्द्धन: ।
       समुद्र इव गम्भीर्ये धैर्येण हिमवानिव ।। १७ ।।
       
       विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शन:।
       कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। १८ ।।
       
       धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
       तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।। १९ ।।
       
       ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
       प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। २० ।।
       
       यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः ।
       तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ।। २१ ।।
      
       पूर्वं दत्तवरा देवी वरमेनामयाचत ।
       विवासनं च रामस्य भरतस्याभिषेचनम् ।। २२ ।।
       
       स सत्यवचनाद् राजा धर्मपाशेन संयतः ।
       विवासयामास सुतं रामं दशरथ प्रियम् ।। २३ ।।
       
       स जगाम वनं विरः प्रतिज्ञामनुपालयन् ।
       पितुर्वचननिर्देशात् कैकेयाः प्रियकारणात् ।। २४ ।।
       
       तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
       स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धन: ।। २५ ।।
       
       भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।
       रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। २६ ।।
       
       जनकस्य कुले जाता देवमायेव निर्मिता ।
       सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।।
       
       सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
       पौरेरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।।
       
       श्रृंगवेरपुरे सूतं गंगाकूले व्यसर्जयेत् ।
       गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।।
       
       गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
       ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।। ३० ।।
      
       चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
       रम्यमावसथं कृत्वा रममाणा वने त्रयः ।। ३१ ।।
       
        देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।
        चित्रकुटं गते रामे पुत्रशोकातुरस्तदा ।। ३२ ।।
        
        राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ।
        गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजै: ।। ३३ ।।
       
        नियुज्यमानो राज्याय नेच्छद् राज्यं महाबलः ।
        स जगाम वनं वीरो रामपादप्रसादकः ।। ३४ ।।
        
        गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।
        अयाचद् भ्रातरं राममार्यभावपुरस्कृतः ।। ३५ ।।
        
        त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
        रामोऽपि परमोदारः सुमुखः सुमहायशाः ।। ३६ ।।
        
        न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः ।
        पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः ।। ३७ ।।
        
        निवर्तयामास ततो भरतं भरताग्रजः ।
        स काममनवप्यैव रामपादावुपस्पृशन् ।। ३८ ।।
        
        नन्दिग्रामेऽकरोद् राज्यं रामागमनकांक्षया ।
        गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः ।। ३९ ।।
        
        रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
        तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ।। ४० ।।
       
        प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
        विराधं राक्षसं हत्वा शरभंगं ददर्श ह । ४१ ।
        
        सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
        अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।। ४२ ।।
        
        खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
        वसतस्तस्य रामस्य वने वनचरैः सह ।। ४३ ।।
       
        ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।
        स तेषां प्रतिशुश्राव राक्षसानां तदा वने ।। ४४ ।।
        
        प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।
        ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ।। ४५ ।।
        
        तेन तत्रैव वसता जनस्थाननिवासिनी ।
        विरुपिता शूूर्पणखा राक्षसी कामरुपिणी ।। ४६ ।।
        
         ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।
        खरं त्रिशिरसं चैव दूषणां चैव राक्षसम् ।। ४७ ।।
        
        निजघान रणे रामस्तेषां चैव पदानुगान् ।
        वने तस्मिन् निवसता जनस्थाननिवसिनाम् ।। ४८ ।।
        
        रक्षसां निहतन्यासन् सहस्त्राणि चतुर्दश ।
        ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।। ४९ ।।
        
        सहायां वरयामास मारीचं नाम राक्षसम् ।
        वार्यमाणः सुबहुशो मारीचेन स रावणः ।। ५० ।।
        
        न विरोधो बलवता क्षमो रावण तेन ते ।
        अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।। ५१ ।।
        
        जगाम सहमारीचस्तस्याश्रमपदं तदा ।
        तेन मायाविना दूरमपवाह्य नृपात्मजौ ।। ५२ ।।
        
        जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
        गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।। ५३ ।।
        
         राघवः शोकसंतप्तो विललापकुलेन्द्रियः ।
        ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम् ।। ५४ ।।
        
        मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
        कबन्धं नाम रुपेण विकृतं घोरदर्शनम् ।। ५५ ।।
        
        तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
        स चास्य कथयामास शबरीं धर्मचरिणीम् ।। ५६ ।।
        
        श्रमणां धर्मनिपुणामभिगच्छेति राघव ।
        सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ।। ५७ ।।
        
        शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।
        पम्पातीरे हनुमता संगतो वानरेण ह ।। ५८ ।।
        
        हनुमद्वचनाच्चैव सुग्रीवेण समागताः ।
       सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।। ५९ ।।
       
       आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।
       सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।। ६० ।।
       
       चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
       ततो वानरराजेन वैरानुकथनं प्रति ।। ६१ ।।
       
       रामायावेदितं सर्वं प्रणयाद् दुःखितेन च ।
       प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।। ६२ ।।
       
       वालिनश्च बलं तत्र कथयामास वानरः ।
       सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ।। ६३ ।।
       
       राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
       दर्शयामास सुग्रीवो महापर्वतसंनिभम् ।। ६४ ।।
       
       उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
       पादांगुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ।। ६५ ।।
       
       बिभेद च पुनस्तालान् सप्तैकेन महेषुणा ।
       गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ।। ६६ ।।
      
       ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
       किष्किन्धां रामसहितो जगाम च गुहां तदा ।। ६७ ।।
      
       ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिंगलः ।
       तेन नादेन महता निर्जगाम हरिश्वरः ।। ६८ ।।
       
       अनुमान्य तदा तारां सुग्रीवेण समागतः ।
       निजघान च तत्रैनं शरेणैकेन राघवः ।। ६९ ।।
       
       ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
       सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ।। ७० ।।
      
       स च सर्वान् समानीय वानरान् वानरर्षभः ।
       दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ।। ७१ ।।
       
       ततो गृधस्य वचनात् सम्पातेर्हनुमान् बली ।
       शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ।। ७२ ।।
      
       तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
       ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ।। ७३ ।।
      
       निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
       समाश्वस्य च वैदेहीं मर्दयामास तोरणम् ।। ७४ ।।
       
       पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
       शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ।। ७५ ।।
       
       अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।
       मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ।। ७६ ।।
        
        ततो दग्ध्वा पुरीं लङ्का ऋते सीतां च मैथिलीम् ।
       रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ।। ७७ ।।
       
       सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
       न्यवेदयदमेयात्मा दृष्टा सीतेति तत्वतः ।। ७८ ।।
       
       ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
       समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ।। ७९ ।।
      
       दर्शयामास चात्मानंं समुद्रः सरितां पतिः ।
       समुद्रवचनाच्चैव नलं सेतुमकारयत् ।। ८० ।।
       
       तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
       रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ।। ८१ ।।
       
        तमुवाच ततो रामः परुषं जनसंसदि ।
       अमृष्यमाणा सा सीता विवेश ज्वलनं सती ।। ८२ ।।
       
       ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।
       कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।। ८३ ।।
       
        सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ।
       बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ।। ८४ ।।
       
       अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
       कृतकृत्यस्तदारामो विज्वरः प्रमुमोद ह ।। ८५ ।।
       
        देवताभ्यो वरं प्राप्य समुत्थाय च वानरान् ।
       अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ।। ८६ ।।
       
       भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
       भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ।। ८७ ।।
       
       पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
       पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ।। ८८ ।।
       
       नन्दिग्रामे जटां हित्वा भ्रातृभिःसहितोऽनघः ।
       रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ।। ८९ ।।
       
       प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
       निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ।। ९० ।।
       
       न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
       नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ।। ९१ ।।
      
      न चाग्निजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः ।
      न वातजं भयं किंचिन्नापि ज्वरकृतं तथा ।। ९२ ।।
      
      न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
      नगराणि च राष्ट्राणि धनधान्ययुतानि च ।। ९३ ।।
     
       नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।
      अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।। ९४ ।।
      
       गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम् ।
      असंख्येयं धनं दत्वा ब्राम्हणेभ्यो महायशाः ।। ९५ ।।
      
      राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
     चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ।। ९६ ।।
     
      दशवर्षसहस्त्राणि     दशवर्षशतानि     च ।
     रामो राज्यमुपासित्वा ब्रम्हलोकं प्रयास्यति ।। ९७ ।।
     
                      फल श्रूतिः 

     इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
     यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते ।। ९८ ।।
     
      एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
     सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ।। ९९ ।।
            
            पठन् द्विजो वागृषभत्वमीयात् ।
           स्यात् क्षत्रियो भूमिपतित्वमीयात् ।।
            वणिग्जनःपण्यफलत्वमीया—
          ज्जनश्च शूद्रोऽपि महत्वमीयात् ।। १०० ।।

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः
                   
      टाइप— आचार्य डा. केशव शरण लुईटेल
      
       
       मिति—२०७१—०६—१२ गते रविवार नवरात्र चौथी तिथी
       बडा दशैं २०७१ सालको उपलक्ष्यमा हार्दिक शुभकामना









     

Friday, August 12, 2016

Shiva Kawach शिव कवच

अमोघशिवकवचस्तोत्रम् 


                                                  ।।श्रीगणेशाय नम:।।
                                                     ॐ नमः शिवाय 
विनियोगः- ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:। श्रीसदाशिवरुद्रो देवता। ह्रीं शक्‍ति:। रं कीलकम्। श्रीं ह्री क्लीं बीजम्। श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:।
र-न्यास: – ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्लांसर्वशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रुं अनादिशक्‍तिधाम्ने अघोरात्मने मध्यामाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वांरौं अलुप्तशक्तिधाम्ने सद्यो जातात्मने कनिष्ठिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐयंर: अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्यां नम:।
॥ अथ ध्यानम् ॥
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वंदे शंभुमुपतिम् ॥ १ ॥
।।ऋषभ उवाच।।
अथापरं सर्वपुराणगुह्यं निशे:षपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥ २ ॥
नमस्कृत्य महादेवं विश्‍वव्यापिनमीश्‍वरम्।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ ३ ॥
शुचौ देशे समासीनो यथावत्कल्पितासन: ।
जितेन्द्रियो जितप्राणश्‍चिंतयेच्छिवमव्ययम् ॥ ४ ॥
ह्रत्पुंडरीक तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।
अतींद्रियं सूक्ष्ममनंतताद्यंध्यायेत्परानंदमयं महेशम् ॥ ५ ॥
ध्यानावधूताखिलकर्मबन्धश्‍चरं चितानन्दनिमग्नचेता: ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ६ ॥
मां पातु देवोऽखिलदेवत्मा संसारकूपे पतितं गंभीरे
तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं ह्रदिस्थम् ॥ ७ ॥
सर्वत्रमां रक्षतु विश्‍वमूर्तिर्ज्योतिर्मयानंदघनश्‍चिदात्मा ।
अणोरणीयानुरुशक्‍तिरेक: स ईश्‍वर: पातु भयादशेषात् ॥ ८ ॥
यो भूस्वरूपेण बिर्भीत विश्‍वं पायात्स भूमेर्गिरिशोऽष्टमूर्ति: ॥
योऽपांस्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्य: ॥ ९ ॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलील: ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ १० ॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणि: ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्र: प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ११ ॥
कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान् दधान: ।
चतुर्मुखोनीलरुचिस्त्रिनेत्र: पायादघोरो दिशि दक्षिणस्याम् ॥ १२ ॥
कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांक: ।
त्र्यक्षश्‍चतुर्वक्र उरुप्रभाव: सद्योधिजातोऽवस्तु मां प्रतीच्याम् ॥ १३ ॥
वराक्षमालाभयटंकहस्त: सरोज किंजल्कसमानवर्ण: ।
त्रिलोचनश्‍चारुचतुर्मुखो मां पायादुदीच्या दिशि वामदेव: ॥ १४ ॥
वेदाभ्येष्टांकुशपाश टंककपालढक्काक्षकशूलपाणि: ॥
सितद्युति: पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाश: ॥ १५ ॥
मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्र: ।
नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्‍वनाथ: ॥ १६ ॥
पायाच्छ्र ती मे श्रुतिगीतकीर्ति: कपोलमव्यात्सततं कपाली ।
वक्रं सदा रक्षतु पंचवक्रो जिह्वां सदा रक्षतु वेदजिह्व: ॥ १७ ॥
कंठं गिरीशोऽवतु नीलकण्ठ: पाणि: द्वयं पातु: पिनाकपाणि: ।
दोर्मूलमव्यान्मम धर्मवाहुर्वक्ष:स्थलं दक्षमखातकोऽव्यात् ॥ १८ ॥
मनोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।
हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्‍वरो मे ॥ १९ ॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्‍वरोऽव्यात् ।
जंघायुगंपुंगवकेतुख्यातपादौ ममाव्यत्सुरवंद्यपाद: ॥ २० ॥
महेश्‍वर: पातु दिनादियामे मां मध्ययामेऽवतु वामदेव: ॥
त्रिलोचन: पातु तृतीययामे वृषध्वज: पातु दिनांत्ययामे ॥ २१ ॥
पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।
गौरी पति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ॥ २२ ॥
अन्त:स्थितं रक्षतु शंकरो मां स्थाणु: सदापातु बहि: स्थित माम् ।
तदंतरे पातु पति: पशूनां सदाशिवोरक्षतु मां समंतात् ॥ २३ ॥
तिष्ठतमव्याद्‍भुवनैकनाथ: पायाद्‍व्रजंतं प्रथमाधिनाथ: ।
वेदांतवेद्योऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ॥ २४ ॥
मार्गेषु मां रक्षतु नीलकंठ: शैलादिदुर्गेषु पुरत्रयारि: ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्ति: ॥ २५ ॥
कल्पांतकोटोपपटुप्रकोप-स्फुटाट्टहासोच्चलितांडकोश: ।
घोरारिसेनर्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्र: ॥ २६ ॥
पत्त्यश्‍वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडोघोर कुठार धारया २७ ॥
निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य ।
शार्दूल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनु: पिनाक: ॥ २८ ॥ दु:स्वप्नदु:शकुनदुर्गतिदौर्मनस्यर्दुर्भिक्षदुर्व्यसनदु:सहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्‍ग्रहार्ति व्याधींश्‍च नाशयतु मे जगतामधीश: ॥ २९ ॥
ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्‍धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनायानंतकोटिब्रह्माण्डनायकायानंतवासुकितक्षककर्कोटकङ्‍खकुलिक पद्ममहापद्मेत्यष्टमहानागकुलभूषणायप्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपायग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैकर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकल वेदान्तपारगाय सकललोकैकवरप्रदाय सकलकोलोकैकशंकराय शशांकशेखराय शाश्‍वतनिजावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्‍चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरंतकाय निष्प्रपंचाय नि:संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियय निस्तुलाय नि:संशयाय निरंजनाय निरुपमविभवायनित्यशुद्धबुद्ध परिपूर्णसच्चिदानंदाद्वयाय परमशांतस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्‍वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्‍तिभिंदिपालतोमरमुसलमुद्‌गरपाशपरिघ भुशुण्डीशतघ्नीचक्राद्यायुधभीषणकरसहस्रमुखदंष्ट्राकरालवदनविकटाट्टहासविस्फारितब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेन्द्रवलय नागेंद्रचर्मधरमृयुंजय त्र्यंबकपुरांतक विश्‍वरूप विरूपाक्ष विश्‍वेश्वर वृषभवाहन विषविभूषण विश्‍वतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशयनाशयचोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय ममशमनुच्चाट्योच्चाटयत्रिशूलेनविदारय कुठारेणभिंधिभिंभधि खड्‌गेन छिंधि छिंधि खट्‍वांगेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय वाणै: संताडय संताडय रक्षांसि भीषय भीषयशेषभूतानि निद्रावय कूष्मांडवेतालमारीच ब्रह्मराक्षसगणान्‌संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्‍वासयाश्‍वासय नरकमहाभयान्मामुद्धरसंजीवय संजीवयक्षुत्तृड्‌भ्यां मामाप्याय-आप्याय दु:खातुरं मामानन्दयानन्दयशिवकवचेन मामाच्छादयाच्छादयमृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।
   
।। ऋषभ उवाच ।।
इत्येतत्कवचं शैवं वरदं व्याह्रतं मया ॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ ३० ॥
य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शंभोरनुग्रहात् ॥ ३१ ॥
क्षीणायुअ:प्राप्तमृत्युर्वा महारोगहतोऽपि वा ॥
सद्य: सुखमवाप्नोति दीर्घमायुश्‍चविंदति ॥ ३२ ॥
सर्वदारिद्र्य शमनं सौमंगल्यविवर्धनम् ।
यो धत्ते कवचं शैवं सदेवैरपि पूज्यते ॥ ३३ ॥
महापातकसंघातैर्मुच्यते चोपपातकै: ।
देहांते मुक्‍तिमाप्नोति शिववर्मानुभावत: ॥ ३४ ॥
त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम्
धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ॥ ३५ ॥
    
॥ सूत उवाच ॥
इत्युक्त्वाऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ॥ ३६ ॥
पुनश्‍च भस्म संमत्र्य तदंगं परितोऽस्पृशत् ।
गजानां षट्‍सहस्रस्य द्विगुणस्य बलं ददौ । ३७ ॥
भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृति: ।
स राजपुत्र: शुशुभे शरदर्क इव श्रिया ॥ ३८ ॥
तमाह प्रांजलिं भूय: स योगी नृपनंदनम् ।
एष खड्‍गो मया दत्तस्तपोमंत्रानुभावित: ॥ ३९ ॥
शितधारमिमंखड्गं यस्मै दर्शयसे स्फुटम् ।
स सद्यो म्रियतेशत्रु: साक्षान्मृत्युरपि स्वयम् ॥ ४० ॥
अस्य शंखस्य निर्ह्लादं ये श्रृण्वंति तवाहिता: ।
ते मूर्च्छिता: पतिष्यंति न्यस्तशस्त्रा विचेतना: ॥ ४१ ॥
खड्‌गशंखाविमौ दिव्यौ परसैन्य निवाशिनौ ।
आत्मसैन्यस्यपक्षाणां शौर्यतेजोविवर्धनो ॥ ४२ ॥
एतयोश्‍च प्रभावेण शैवेन कवचेन च ।
द्विषट्‍सहस्त्रनागानां बलेन महतापि च ॥ ४३ ॥
भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम् ॥ ४४ ॥
इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां पूजित: सोऽथ योगी स्वैरगतिर्ययौ ॥ ४५ ॥
।।इति श्रीस्कंदपुराणे एकाशीतिसाहस्त्रयां तृतीये ब्रह्मोत्तरखण्डे अमोघ-शिव-कवचं समाप्तम् ।।

संकलन- डा. केशव लुईटेल                                                                                              मिति- २०७४-०७-१४ गते मंगलवार