Tuesday, October 10, 2017

Mhakal Shanimrityunjaya Stotram महाकाल शनिमृत्युन्जय स्तोत्रम



                                          महाकाल शनिमृत्युन्जय स्तोत्रम 

विनियोगः-
ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः।
श्री गणेशाय नमः।

ॐ महाकाल शनि मृत्युञ्जायाय नमः।
नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः।
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ।।१
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम् ।।२
।।पार्वत्युवाच।।
भगवन् ! देवदेवेश ! भक्तानुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ।।३।।
तदेवत्वं महाबाहो ! लोकानां हितकारकम् ।
तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम् ।।४
शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकाल मृत्युहरणमपमृत्यु निवारणम् ।।५
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम् ।।६
।।श्रीशंकर उवाच।।
नित्ये प्रियतमे गौरि सर्वलोक-हितेरते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ।।७
शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवऽधुना ।
सर्वमंगलमांगल्यं सर्वशत्रु विमर्दनम् ।।८
सर्वरोगप्रशमनं सर्वापद्विनिवारणम् ।
शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ।।९
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ।।१०
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ।।११
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ।।१२
जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम्।
एवं न्यासविधि कृत्वा पश्चात् कालात्मनः शनेः ।।१३
न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः ।
कल्पादियुगभेदांश्च करांगन्यासरुपिणः ।।१४
कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ।।१५
भावयेत्प्रति प्रत्यंगे महाकालाय ते नमः ।
भावयेत्प्रभवाद्यब्दान् शीर्षे कालजिते नमः ।।१६
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून् ।।१७
श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत् ।।१८
नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ।।१९
मार्गशीर्ष न्यसेद्-बाह्वोर्महारौद्राय ते नमः ।
ऊर्द्वलोक-निवासाय पौषं तु हृदये न्यसेत् ।।२०
नमः कालप्रबोधाय माघं वै चोदरेन्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ।।२१
ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ।।२२
जंघयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढ़ं पाद्योश्चैव शनये च नमस्तथा ।।२३
कृष्णपक्षं च क्रूराय नमः आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ।।२४
नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत् ।।२५
न्यसेद्-गुल्फ-द्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जंघोभये शिष्टतमाय ते ।।२६
जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः ।
ऊरुद्वये वारुर्णांन्यसेत्कालभृते नमः ।।२७
पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठउत्तरभाद्रं च करालाय नमस्तथा ।।२८
रेवतीं च न्यसेन्नाभो नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ।।२९
नमो भोगिस्त्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ।।३०
रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे ।
मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ।।३१
दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ।।३२
तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ।।३३
मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्-भगर्क्ष च नमः क्रूरग्रहाय च ।।३४
भावयेद्दक्षनासायामर्यमाणश्व योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ।।३५
त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते ।
स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ।।३६
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ।।३७
प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ।।३८
सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ।।३९
नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ।।४०
धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ।।४१
तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ।।४२
ध्रुवं तद्ङ्गुली-मूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ।।४३
हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ।।४४
सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ।।४५
वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ।।४६
न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ।।४७
साध्यं न्यसेच्च तद्-गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नमः ।।४८
न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः ।
ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ।।४९
ऐन्द्रं तद्-गुल्फसन्धौ च योगाऽधीशाय ते नमः ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम् ।।५०
चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ।।५१
कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ।।५२
गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ।।५३
विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ।।५४
मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ।।५५
पुरुहूतशतमखे विश्ववेधो-विधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ।।५६
सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ।।५७
वह्निनक्तंचरांश्चैव वरुणार्यमयोनकान् ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ।।५८
लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ।।५९
वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत् ।।६०
राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ।।६१
यमाग्नि-चन्द्रादितिजविधातृंश्च विभावयेत् ।
ऊर्द्ध्व-हस्त-दक्षनखेष्वत्यकालाय ते नमः ।।६२
तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत् ।।६३
ऊर्ध्व-वामहस्त-नखेष्वन्यग्रह निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ।।६४
रविवारं ललाटे च न्यसेद्-भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ।।६५
भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म-स्वरुपिणे ।
मेढ्रं न्यसेत्सौम्यवारं नमो जीव-स्वरुपिणे ।।६६
वृषणे गुरुवारं च नमो मन्त्र-स्वरुपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ।।६७
पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ।।६८
कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !।
त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ।।६९
नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ।।७०
अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ।।७१
निमेषादिमहाकल्पकालरुपं च भैरवम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७२
दातारं सर्वभव्यानां भक्तानामभयंकरम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७३
कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७४
हर्त्तारं ग्रहजातानां फलानामघकारिणाम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७५
सर्वेषामेव भूतानां सुखदं शान्तमव्ययम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७६
कारणं सुखदुःखानां भावाऽभाव-स्वरुपिणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७७
अकाल-मृत्यु-हरणऽमपमृत्यु निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७८
कालरुपेण संसार भक्षयन्तं महाग्रहम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।७९
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ-लोचनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।८०
ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ।।८१
कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम् ।।८२
कालदेव जगत्सर्वं काल एव विलीयते ।
कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ।।८३
चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारुढो रसाधिपः ।।८४
चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ।।८५
नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ।।८६
यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः ।
त्रस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !।।८७
ज्वराः सर्वे विनश्यन्ति दद्रु-विस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत् रात्रौ महाकालं यजन् पठेत ।।८८
जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्त्रकम् ।
वेधगे वामवेधे वा जपेदर्द्धसहस्त्रकम् ।।८९
द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दिनावधि ।।९०
चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ।।९१
गुरुलाघवज्ञानेन पठेदावृत्तिसंख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ।।९२
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ।।९३
पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ।।९४
श्रोतव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम् ।।९५
कालक्रमेण कथितं न्यासक्रम समन्वितम् ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ।।९६
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ।।९७
नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ।।९८
नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम् ।।९९
तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित् ।।१००
।। इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्रम्

Friday, September 29, 2017

Shrirajarajeswari Stotram श्रीभगवती राजराजेश्वरी स्तोत्रम्


।। श्री राजराजेश्वरी अष्टकम् ।।


                   
                  स्तुति 
शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्यभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानाम्
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥
     
       ।। श्री राजराजेश्वरी अष्टकम् ।।
अम्बा शाँभवि चन्द्रमौलि रमलाऽपर्णा उमा पार्वती ।                              काली हैमवती शिवा त्रिनयनी   कात्यायनी भैरवी ।
सावित्री नवयौवना शुभकरी   साम्राज्य लक्ष्मीप्रदा ।                              चिद्रूपी      परदेवता    भगवती   श्री   राजराजेश्वरी ।। १ ।।

अम्बा मोहिनी देवता त्रिभुवनी आनन्द सन्दायिनी ।                              वाणी पल्लव पाणि वेणु मुरली गानप्रिया लोलिनी ।
कल्याणी   उडुराजबिंब   वदना  धूम्राक्ष संहारिणी ।                              चिद्रूपी   परदेवता   भगवती    श्री      राजराजेश्वरी ।। २ ।।

अम्बा नूपुर  रत्न    कंकणधरी      केयूर  हारावली ।                              जाती    चंपक   वैजयन्ति  लहरी ग्रैवेयकै राजिता ।
वीणा वेणु विनोद मण्डित करा वीरासने  संस्थिता ।                              चिद्रूपी   परदेवता   भगवती     श्री     राजराजेश्वरी ।। ३ ।।

अम्बा रौद्रिणि भद्रकालि बगला ज्वालामुखी वैष्णवी ।                          ब्रह्माणी   त्रिपुरान्तकी    सुरनुता  देदीप्यमानोज्वला ।
चामुण्डा    श्रितरक्ष   पोष जननी दाक्षायणी वल्लवी ।                          चिद्रूपी     परदेवता    भगवती    श्री      राजराजेश्वरी ।। ४ ।।

अम्बा    शूल   धनु:  कशाँकु़शधरी अर्धेन्दु बिम्बाधरी ।                          वाराही    मधुकैटभ     प्रशमनी    वाणी  रमा सेविता ।
मल्लाद्यासुर    मूकदैत्य  मथनी   माहेश्वरी  चाम्बिका ।                          चिद्रूपी     परदेवता     भगवती     श्री    राजराजेश्वरी ।। ५ ।।

अम्बा सृष्टिविनाश   पालनकरी   आर्या  विसंशोभिता ।                          गायत्री      प्रणवाक्षरामृतरस:    पूर्णनुसन्धी      कृता ।
ओंकारी     विनतासुतार्चित    पदा   उद्दण्ड  दैत्यापहा ।                          चिद्रूपी     परदेवता      भगवती      श्री   राजराजेश्वरी ।। ६ ।।

अम्बा   शाश्वत   आगमादि  विनुता  आर्या  महादेवता ।                          या   ब्रह्मादि   पिपलिकान्त जननी या वै जगन्मोहिनी ।
या  पन्चप्रणवादि  रेफजननी  या  चित्कला    मालिनी ।                          चिद्रूपी     परदेवता     भगवती     श्री      राजराजेश्वरी ।। ७ ।।

अम्बा  पालित  भक्तराजमनिशं  अम्बाष्टकमं य: पठेत् ।                          अम्बा   लोल   कटाक्षवीक्ष   ललितं   चैश्वर्यमव्याहतम् ।
अम्बा    पावन   मन्त्र   राज पठनात् अन्ते च मोक्षप्रदा ।                          चिद्रूपी    परदेवता     भगवती     श्री       राजराजेश्वरी ।। ८ ।।


संकलन- केशव लुईटेल 
मिति- २०७४-०५-०१ बिहिबार
हंगकंग बाट 
      

Saturday, July 22, 2017

Pitri Stotram पितृ स्तोत्रम




पितृदेवता 



दिव्य वैकुण्ठवासी-श्री चक्रपाणी लुईटेल    {हजुरबुबा }
जन्म-१९७५-०८-१० शुक्रवार -दिवंगत २०५८-०६-१२ शुक्रवार

 श्रीमती यशोदा लुईटेल                          {हजुरआमा }
जन्म-१९७५-१२-१३-बुधवार--दिवंगत-२०६७-०८-१६ विहिवार 


दिव्य वैकुण्ठवासी श्री घनस्याम लुईटेल 
जन्म-२०१४-०२-१८ शुक्रवार- दिवंगत-२०७४-०५-२० मंगलवार

    

      श्रीगरुडपुराण पितृस्तोत्रम् 

रुचिरुवाच ।
नमस्येऽहं पितॄन्भक्त्या ये वसन्त्यधिदेवतम् । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १॥
नमस्येऽहं पितॄन्स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ २॥ 
नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३॥ 
नमस्येऽहं पितॄन्भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ ४॥
नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५॥ 
नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६॥ 
नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७॥ 
नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ ८॥ 
नमस्येऽहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९॥ 
नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १०॥ 
नमस्येऽहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११॥ 
नमस्येऽहं पितॄञ्छ्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२॥ 
नमस्येऽहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३॥ 
नमस्येऽहं पितॄञ्छ्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४॥ 
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५॥ 
पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ १६॥ 
पितॄन्नमस्ये दिवि ये च मूर्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ १७॥ 
तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ १८॥ 
सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९॥ 
येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ २०॥ 
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः सम्प्रीणितास्ते मुदमत्र यान्तु ॥ २१॥ 
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२॥ 
दिनेदिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ २३॥ 
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४॥ 
तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ २५॥ 
ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ २६॥ 
रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ २७॥ 
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ २८॥ 
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९॥ 
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३०॥ 
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ ३१॥ 
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ ३२॥ 
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३॥ 
महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ ३४॥ 
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५॥ 
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६॥ 
          माक्रण्डेय उवाच ।
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ।
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ ३७॥ 
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदञ्जगौ ॥ ३८॥
           रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ ३९॥ 
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षोणां तथाऽन्येषां तान्नमस्यामि कामदान् ॥ ४०॥ 
मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ ४१॥ 
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४२॥ 
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ४३॥ 
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ४४॥ 
सोमाधारान्पितृगणान्योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ४५॥ 
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ ४६॥ 
ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ ४७॥ 
     तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
     नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ४८॥ 

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः |            
..........................................................




मार्कण्डेयपुराणपुराण  पितृ स्तोत्रम्                                                                                 रुचिर उवाच 
नमस्येsहं पितृञ्छ्राद्धे ये वसन्त्यधिदेवता: ।   
   देवैरपि हि तर्प्यन्ते ये च श्राद्धै: स्वधोत्तरै: । १ ।
   नमस्येsहं पितृन्स्वर्गे ये तर्प्यन्ते महर्षिभि: ।
   श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभी: २
   नमस्येsहं पितृन्स्वर्गे सिद्धा: संतर्पयन्ति यान् ।
   श्राद्धेषु दिव्यै: सकलैरुपहारैरनुत्तमै: । ३ ।
   नमस्येsहं पितृन्भक्त्या येsर्च्यन्ते गुह्यकैरपि ।
   तन्मयत्वेन वाञ्छद्भिऋद्धिमात्यन्तिकि पराम् ४ 
   नमस्येsहं पितृन्मर्त्यैरर्च्यन्ते भुवि ये सदा ।।
   श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिन: ।। ५ ।
   नमस्येsहं पितृन् विप्रैरर्च्यन्ते भुवि ये सदा ।
   वाञ्छिताभीष्टलाभाय प्रजापत्यप्रदायिन: ।६ ।
   नमस्येsहं पितृन् ये र्वै तर्प्यन्तेsरण्यवासिभि: ।
   वन्यै: श्राद्धैर्यताहारैस्तपोनिर्धूतकिल्विषै: । ७ ।
   नमस्येsहं पितृन् विप्रैर्नैष्ठिकब्रम्हचारिभि: ।
   ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभि: । ८ ।
   नमस्येsहं पितृन् श्राद्धै: राजन्यस्तर्पयन्ति यान् ।
   कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् ।। ९ ।।
   नमस्येsहं पितृन्वैश्यैरर्च्यन्ते भुवि ये सदा ।
   स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभि: ।। १० ।
   नमस्येsहं पितृन् श्राद्धै र्यै: शूद्रैरपि भक्तित: ।
   संतृप्यन्ते जगत्यत्र नाम्ना ज्ञाता: सुकालिन: ११
   नमस्येsहं पितृन् श्राद्धै: पाताले यै: महासुरै: ।
   संतर्प्यन्ते स्वधाहारैस्त्यक्तदंभमदै: सदा ।। १२ ।
   नमस्येsहं पितृन् श्राद्धैरर्च्यन्ते ये रसातले ।
   भोगैरशेषैर्विधिवन्नागै: कामानभीप्सुभि: । १३ ।
   नमस्येsहं पितृन् श्राद्धै: सर्पै: संतर्पितान् सदा ।
   तत्रैव विधिवन्मन्त्रभोगसंपत्समन्वितै: ।। १४ ।
         
         पितृन्नमस्ये निवसन्त्ति साक्षाद् ।
          यद्देवलोके च तथांन्तरिक्षे ।।
          महीतले ये च सुरादिपूज्या ।।
          स्ते मे प्रयच्छंतु मयोपनीतम् ।। १५ ।।
          
          पितृन्नमस्ये परमात्मभूतान् ।
          ये वै विमाने निवसन्ति मूर्त्ता: ।।
          यजन्ति यानस्तमलैर्मनोभि ।
          र्योगिश्वरा: क्लेशविमुक्तिहेतुन् ।। १६ ।।

          पितृन्नमस्ये  दिवि ये च मूर्ता: ।।
          स्वधाभुज: काम्यफलाभिसंघौ ।
          प्रदानसक्ता: सकलेप्सितानां ।।
          विमुक्तिदा येsनभिसंहितेषु ।। १७ ।।
          
          तृप्यन्तु तेsस्मिन् पितर: समस्ता ।
          इच्छावतां ये प्रदिशंति कामान् ।।
          सुरत्वमिन्द्रत्वमतोsधिकं वा ।।
          सुतान् तनून् स्वानि बलं गृहाणि ।।१८ ।।

          सोमस्य ये रश्मिषु येsर्कबिम्बे ।।
          शुक्ले विमाने च सदा वसन्ति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै ।
          र्गन्धादिना पुष्टिमितो ब्रजंतु ।। १९ ।।
           
          येषां हुतेsग्नौ हविषा च तृप्ति ।
          र्येभुञ्जते विप्रशरीरभाज: ।।
          ये पिण्डदानेन मुदं प्रयाति ।।
          तृप्यन्तु तेsस्मिन् पितरोsन्नतोयै: ।।२० ।।

          ये खङ्गिमांसेन सुरैरभिष्टै: ।।
          कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।।
          कालेन साकेन्द्र महर्षिवर्यै: ।।
          संप्रीणितास्ते मुदमत्र यन्तु ।। २१ ।।

         कव्यान्यशेषाणि च यान्यभीष्टा ।
         न्यतीव तेषाममरार्चितानाम् ।।
         तेषां तु सान्निध्यमिहास्तु पुष्प ।।
         गन्धान्नभोज्येषु मया कृतेषु ।। २२ ।।

         दिने दिने ये प्रतिगृह्णतेर्च्चां ।।
         मासान्तपूज्या भुवि येsष्टकासु ।।
         ये वत्सरान्तेsभ्युदये च पूज्या: ।
         प्रयान्तु ते मे पितरोsत्र तृप्तिम् ।। २३ ।।

        पुज्या द्विजानां कुमुदेन्दुभासो ।
        ये क्षत्रियाणां च नवार्कवर्णा: ।।
        तथा विशां ये कनकावदाता ।
        नीलीनिभा: शूद्रजनस्य ये च ।। २४ ।।

       तेsस्मिन् समस्ता मम पुष्पगंध ।
       धूपान्नतोयादिनिवेदनेन ।।
       तथाग्निहोमेन च यांतु तृप्ति ।
       सदा पितृभ्य: प्रणतोsस्मि तेम्य: ।। २५ ।।

       ये देवपूर्वाण्यतितृप्तिहेतो ।। 
       रश्नंन्ती काव्यानि शुभाहूतानि ।।
       तृप्ताश्च ये भूतिसृजो भवन्ती ।।
       तृप्यन्तु तेsस्मिन प्रणतोsस्मि तेभ्य: ।।२६ ।।

       रक्षांसि भूतान्यसुरांस्तथोग्रा ।।
       न्निर्णाशियन्तस्त्वशिवं प्रजानाम् ।
       आद्या: सुराणाममरेशपूज्या ।।
       स्तृप्यन्तु तेsस्मिन्प्रणतोsस्मि तेभ्य: ।। २७ ।
अग्निष्वात्ता बर्हिषदा आज्यपा सोमपास्तथा ।।
व्रजन्तु तृप्तिं श्राद्धेsस्मिन् पितरस्तर्पिता मया २८
अग्निष्वाता: पितृगणा: प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषद: पान्तु याम्यायां पितरस्तथा ।। २९ ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपा: ।।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषत: ।। ३० ।।
सर्वतश्चाधिपस्तेषां यमो  रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धूर्यो धन्य: शुभानन: । ३१ ।
भूतिदो भूतिकृद्भूति पितृणां ये गणा नव ।।
कल्याण: कल्पतां कर्ता कल्प: कल्पतराश्रय: ३२
कल्पताहेतुरनघ: षडिमे ते गणा: स्मृता: ।।
वरो वरेण्यो वरद: पुष्टिदस्तुष्टिदस्तथा ।। ३३ ।।
विश्वपाता तथा धाता सप्तैवैते गणस्तथा ।।
महान् महात्मा महितो महिमावान्महाबल: । ३४।
गणा: पंच तथैवेते पितृणां पापनाशना: ।।
सुखदो धनदश्चान्यो धर्मदोsन्यश्च भूतिद: ।। ३५ ।
पितृणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकविंशत् पितृगणा यैर्व्याप्तमखिलं जगत् । ३६ ।
ते मेsनुतृप्तास्तुष्यंन्तु यच्छान्तु च सदा हितम् ।
अमूर्त्तानां च मूर्त्तानां पितृणां दीप्ततेजसाम् । ३७ ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।। ३८ ।।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ।
मन्वादीनां मुनिंन्द्राणां सूर्यचन्द्रमसोस्तथा । ३९ ।
तान्नमस्याम्यहं सर्वान् पितरश्चार्णवेषु ये ।
नक्षत्राणां ग्रहाणां च वाय्यग्नोर्नभसस्तथा ।। ४० ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांञ्जलि: ।
देवर्षीणां ग्रहाणां च सर्वलोकनमस्कृतम् ।। ४१ ।।
अधिपत्यं सदा दातृन्नमस्येsहं कृताञ्जलि: ।
नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तषु । ४२ ।
चतुर्मूर्ते नस्यामि ब्रम्हणे योगचक्षुषे ।।
यजधारान पितृगणान् योगमूर्तिधरस्तथा । ४३ ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।
अग्निरुपांस्तथैवान्यान्नमस्यामि पितृन्नहम् । ४४ ।
अग्नीषोममयं विश्वे यत एतदशेषत: ।
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय: ।। ४५ ।।
जगत्स्वरुपिणश्चैव तथा ब्रम्हश्वरुपिण: ।
तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानसा: ।
नमो नमो नमस्ते ये प्रसीदन्तु स्वधाभुज । ४६ ।
                    पितर उचु:
                    
स्तोत्रेणानेन च नरो यो मां स्तोष्यन्ति भक्तित: ।
तस्य तुष्टा वयं भोगानात्मज्ञानं तथोत्तमम् । ४७ ।।
शरीरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ।
प्रदास्यामो न संदेहो यच्चान्यदभिवांछितम् । ४८ ।
तस्मात्पुण्यफलं लोके वाञ्छद्भी:सततं नरै: ।
पितृणां चाक्षयां तृप्ति: स्तव्यां स्तोत्रेण मानवै: ४९ 
वाञ्छद्भि: सततं स्तव्या: स्तोत्रेणानेन वै यत: ।
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ५० 
पठिष्यन्ति द्विजाग्र्याणां भुञ्जतां पुरत: स्थिता: ।
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।। ५१ ।।
अस्माकमक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ।
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ।। ५२ ।।
आन्यायोपात्त्वित्तेन यदि वा कृतमन्यथा ।
अश्रद्धार्हैरुपहृतैरुपहारैस्तथा कृतम् ।। ५३ ।।
अकालेsप्यथवाsदेशे विधिहीन्मथापि वा ।
अश्रद्धया वा पुरुषैर्दम्भमाश्रीत्य वा कृतम् ।। ५४ 
अस्माकं तृप्तये श्राद्धं तथाप्येतदुदीरणात् ।
यत्रैतन्पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । ५५ 
अस्माकं जायते तृप्तिस्तत्र द्वादसवर्षिकी ।
हेमन्ते द्वादशब्दानि तृप्तिमेतत्प्रयच्छति ।। ५६ ।
शिशिरे द्विगुणाब्दांश्च तृप्तिस्तोत्रमिदं शुभम् ।
बसन्ते षोडश समास्तृप्तय श्राद्धकर्मणि ।। ५७ ।
ग्रीष्मे च षोडशे चैतत्पठितं तृप्तिकारकम् ।
विकलेsपि कृते श्राद्धे स्तोत्रेणानेन साधिते ।। ५८ 
वर्षाषु तृम्तिरस्माकमक्षया जायते रुचे ।
शरद्कालेsपि पठितं श्राद्धकाले प्रयच्छति । ५९ ।
अस्माकमेतत्पुरुषैस्तृप्तिं पञ्चदशाब्दिकम् ।
यस्मिन् गृहे च लिखितमेतत्तिष्ठति नित्यदा । ६० ।
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ।
तस्मादेतत्वया श्राद्धे विप्राणां भुंजतां पुर: ।। ६१ ।
श्रवणीयं महाभाग अस्माकं पुष्टिहेतुकम् ।
इत्युक्त्वा पितरस्तस्य स्वर्गता मुनिसत्तमम् । ६२ ।

इति मार्कण्डेयपुराणे रुचिमनुना कृतं रुचिस्तवं सप्तर्सिस्तवं च पितृस्तोत्रम् ।।
     
   संग्रह - केशव लुईटेल                                                  
मिति- २०७४-०४-०५ गते गुरुवार  










Kaushikgotra Pooja Paddhati कौशिक गोत्र को पूजा पद्धति




कौशिक ऋषि बाट उत्पन्न कौशिक गोत्र को पूजा पद्धति


कौशिक ऋषि {विश्वामित्र }


कौशिक ॠषि-
विश्वामित्र महाप्राज्ञ गोत्र कौशिकsमुद्भव: ।
मम वंशस्यरक्षार्थं प्रसन्नो भव: सर्वदा ।।
ऋद्धि सिद्धी -
पञ्चधा चित्तवृत्तिश्च बुद्धिरुपेणsकर्षितौ ।
तौ मातरौ प्रणम्योsहम् ॠद्धि सिद्धी प्रदाइनी ।।
रुपाल मष्ट-
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा सन्तुष्टो सर्वदा प्रभो ।।
खप्पर मष्ट-
खप्पर्मष्ट: कुल श्रेष्ठ: मम पुज्याश्च सर्वदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत ।।
कास्यपाल-
कास्यपालं महाभागं महाविघ्न विनाशकम् ।
त्वयर्चयामि पुष्पाणि प्रसन्नो भव: सर्वदा ।।
सुनझाँक्री-
सुनझाँकृति नामोsस्ति यो वै वंशस्य सद्गुरु ।
तस्य पादारविन्देषु भुयो भुयो नमाम्यहम् ।।

लुईटेल वंशको पूजा पद्धति

लुईटेलवंशीया: सर्वे रुमालमाष्टकादय: ।
आवाहनं प्रकुर्वेsहं आयान्तु कुलदेवता: ।। १
खप्परेति कुलश्रेष्ठ माष्टेति कुलमातुल: ।
युष्माकं पूजनं कुर्मो गन्धपुष्पादिभी: सह: ।। २
क्षेत्रपाल ! भागिनेय कुलस्य प्रतिपालक ।
त्वयर्चयामि पुष्पाणि कृपया मां समुद्धर । ३
इदं पाद्यमिदमर्घ्यमिदमाचमनीयकम् ।
स्वीकुरुध्वं वंशदीपा: प्रसन्ना सन्तु सर्वदा । ४
पञ्चामृतं शुद्धजलं पवित्रं कौशिकी पय: ।
स्नानार्थं कल्पितं सर्वे गृह्यतां कुलपालका: । ५
धूपं दीपश्च नैवेद्यमर्पये प्रीतिपूर्वकम् ।।
चन्दनं शुभदं वस्त्रं स्वीकृत्य माष्टकादय: । ६
प्रसन्ना वरदा सन्तु पूजाकाले कुलोद्भवा: ।
पूज्यपूजक भावं हि विभाव्य प्रतिरक्षक: । ७
ये के रौमालका: सन्ति तान् सर्वान् संस्मराम्यहम् ।
ममोपरि कृपां कृत्वा आगच्छन्तु महाशया: । ८
अस्माकं पूर्वजान् स्मृत्वा नमामि न तशीर्षक: ।
यथालब्धोपचारेण अर्चयामि मुहुर्मुहु: ।। ९
दासोsहं कुलदेवस्य भक्तिहीनोsमि मुढधी: ।
तस्मात्त्वच्छरणं प्राप्य निर्भयं विचराम्यsहम् । १०
खप्पर्माष्टाश्चाधिवारा मम पुज्याश्च नित्यदा ।
यथाकालं समागत्य अश्मितान् परिरक्षत । ११
कौशिकं गोत्रवान् सर्वान् स्मारं स्मारं कृताञ्जलि:
सास्टाङ्गमर्पयेत् भक्त्या क्षमां सम्प्रार्थये प्रभो १२
फलश्रुति:
इत्येवंमुत्तमै: पद्यै: पूजां करोति श्रद्धया ।
माष्टकादि प्रसादेन सर्वमाप्नोति पूजक: । १३ त्याज्य
न दद्यादामिषंचान्नं न कुर्याद् पशुहिंसया: ।
फल पुष्प प्रसादेन प्रसन्नो केशवं सदा ।। १४

लेखक- केशव लुईटेल 




२०७४-०१-०४ गते मेरो आफ्नै जन्मोत्सवको उपलक्ष्यमा 
स्वयम्को रचना 

ज्ञातव्य -लुईटेल बन्धु वंशावली २०७३ मा पृष्ठ संख्या १५२१ र १५२२ मा उपर्युक्त श्लोक पूजा पद्धति अन्तर्गत प्रयोग भएको छ  |