|| श्रीआलावन्दारस्तोत्ररत्न प्रारम्भ ||
श्रीयामुनाचार्यस्वमीजीद्वारा विरचित
।। आलावन्दारस्तोत्रम् ।।
स्वादयात्रिह सर्वेषां त्रयन्तार्थं सुदुग्र्रहम् ।।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यमुनाह्वयम् ।। १ ।।
नमो नमो यामुनाय यामुनाय नमो नमः ।।
नमो नमो यामुनाय यामुनाय नमो नमः ।। २ ।।
नमो यामुनपादाब्जरेणुभिः पावितात्मने ।।
विदिताखिलवेद्याय गुरवे विदितात्मने ।। ३ ।।
नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ।। ४ ।।
ॐ
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्व ।।
ज्ञानानुरागमहिमातिशयान्तसीम्ने ।।
नाथाय नाथमुनयेऽत्र परत्र चापि ।।
नित्यं यदीयचरणौ शरणं मदीयम् ।। ५ ।।
ॐ
भूयोे नमोऽपरिमिताच्युतभक्तितत्व ।।
ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।।
लोकेऽवतीर्णपरमार्थसमग्रभक्ति ।।
योगाय नाथमुनये यमिनां वराय ।। ६ ।।
ॐ
तत्वेन यश्चिदचिदीश्वरतत्स्वभाव ।।
भोगापवर्र्गतदुपायगतीरुदारः ।।
सन्दर्शयत्रिरमिमीत पुराणरत्नम् ।।
तस्मै नमो मुनिवराय पराशराय ।। ७ ।।
ॐ
माता पिता युवतयस्तनया विभूतिः ।।
सर्वं यदेव नियमेन मदन्वयानाम् ।।
आद्यस्य नः कुलपतेर्बकुलाभिरामम् ।।
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूध्र्ना ।। ८ ।।
ॐ
यन्मूध्र्नि मे श्रुतिशिरस्सु च भाति यस्मिन् ।।
अस्मन्मनोरथपथः सकलः समेति ।।
स्तोष्यामि नः कुलधनं कुलदैवतं च ।।
पादारविन्दमरविन्दविलोचनस्य ।। ९ ।।
ॐ
तत्वेन यस्य महिमार्णवशीकराणुः ।।
शक्यो न मातुमपि शर्वपितामहाद्यैः ।।
कर्तुं तदीयमहिमस्तुतिमुद्यताय ।।
मह्यं नमोऽस्तु कवये निरपत्रपाय ।। १० ।।
ॐ
यद्वा श्रमावधि यथामति वाऽप्यशक्तः ।।
स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः ।।
वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः ।।
को मज्जतोरणकुलाचलयोर्विशेषः ।। ११ ।।
ॐ
किञ्चैष शक्त्यतिशयेन नु तेऽनुकम्प्यः ।।
स्तोताऽपि तु स्तुतिकृतेन परिश्रमेण ।।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धे ।।
रित्युद्यमोऽयमुचितो मम चाब्जनेत्र ।। १२ ।।
ॐ
नावेक्षसे यदि ततो भुवनान्यमूनि ।
नालं प्रभो भवितुमेव कुतः प्रवृत्तिः ।।
एवं निसर्गसुहृदि त्वयि सर्वजन्तोः ।
स्वामित्र चित्रमिदमाश्रितवत्सलत्वम् ।। १३ ।।
ॐ
स्वाभाविकानवधिकातिशयेशितृत्वम् ।
नारायण ! त्वयि न मृष्यति वैदिकः कः ।।
ब्रह्मा शिवः शतमखः परमस्वराडि ।
त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ।। १४ ।।
ॐ
कः श्रीः श्रियः परमसत्वसमाश्रयः कः ।
कः पुण्डरीकनयनः पुरुषोत्तमः कः ।।
कस्यायुतयुतशतैककलांशकांशे ।
विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ।। १५ ।।
ॐ
वेदापहारगुरुपातकदैत्यपीडा ।
द्यापद्विमोचनमहिष्ठफलप्रदानैः ।।
कोऽन्यः प्रजापशुपती परिपाति कस्य ।
पादोदकेन स शिवः स्वशिरोधृतेन ।। १६ ।।
ॐ
कस्योदरे हरविरिञ्चिमुख प्रपञ्चः ।
को रक्षतीममजनिष्ट च कस्य नाभेः ।।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः ।
कः केन चैष परवानिति शक्यशङ्कः ।। १७ ।।
ॐ
त्वां शीलरुपचरितैः परमप्रकृष्ट—
सत्वेन सात्विकतया प्रबलैश्च शास्त्रैः ।।
प्रख्यातदैवपरमार्थविदां मतैश्च ।
नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ।। १८ ।।
ॐ
उल्लङ्घ्रितत्रिविधसीमसमातिशायि ।
संभावनं तव परिव्रढिमस्वभावम् ।।
मायाबलेन भवताऽपि निगूह्यमानम् ।
पश्यन्ति केचिदनिशं त्वदनन्यभावाः ।। १९ ।।
ॐ
यदण्डमण्डान्तरगोचरं च यद् ।
दशोत्तराण्यावरणानि यानि च ।।
गुणाः प्रधानं पुरुषः परं पदम् ।।
परात्परं ब्रह्म च ते विभूतयः ।। २० ।।
ॐ
वशी वदान्यो गुणवानृजुः शुचि—
र्मृदुर्दयालुर्मधुरः स्थिरः समः ।।
कृति कृतज्ञस्त्वमसि स्वभावतः ।
समस्तकल्याणगुणामृतोदधिः ।। २१ ।।
ॐ
उपर्युपर्याब्जभुवोऽपि पूूरुषान् ।
प्रकल्प्य ते ये शतमित्यनुक्रमात् ।।
गिरस्त्वदेकैकगुणावधीप्सया ।
सदा स्थिता नोद्यमतोऽतिशेरते ।। २२ ।।
ॐ
त्वदाश्रितानां जगदुद्भवस्थिति—
प्रणाशसंसारविमोचनादयः ।।
भवन्ति लीलाविधयश्च वैदिका ।
स्त्वदीयगम्भीरमनोऽनुसारिणः ।। २३ ।।
ॐ
नमो नमो वाङ्मनसातिभूमये ।
नमो नमो वाङ्मनसैकभूमये ।।
नमो नमोऽनन्तमहाविभूतये ।
नमो नमोऽनन्तदयैकसिन्धवे ।। २४ ।।
ॐ
न धर्मनिष्ठोऽस्मि न चात्मवेदी ।
न भक्तिमांस्त्वच्चरणारविन्दे ।।
अकिञ्चनोऽनान्यगतिः शरण्य ।
त्वत्पादमूलं शरणं प्रपद्ये ।। २५ ।।
ॐ
न निन्दितं कर्म तदस्ति लोके ।
सहस्रशो यत्र मया व्यधायि ।।
सोऽहं विपाकावसरे मुकुन्द ।
क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ।। २६ ।।
ॐ
निमज्जतोऽनन्तभवार्णनन्तः ।
चिराय मे कूलमिवासि लब्धः ।।
त्वयाऽपि लब्धं भगवत्रिदानी—
मनुत्तमं पात्रमिदं दयायाः ।। २७ ।।
ॐ
अभूतपूर्वं मम भावि किं वा ।
सर्वं सहे मे सहजं हि दुःखम् ।।
किन्तु त्वदग्रे शरणागतानाम् ।
पराभवो नाथ न तेऽनुरुपः ।। २८ ।।
ॐ
निरासकस्यापि न तावदुत्सहे ।
महेश हातुं तव पादपङ्कजम् ।।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो ।
न जातु मातुश्चरणौै जिहासति ।। २९ ।।
ॐ
तवामृतस्यन्दिनि पादपंङ्कजे ।
निवेशितात्मा कथमन्यदिच्छति ।।
स्थितेऽरविन्दे मकरन्दनिर्भरे ।
मधुव्रतो नेक्षुरकं हि वीक्षते ।। ३० ।।
ॐ
त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचिद् ।
यथा तथा वाऽपि सकृत्कृतोऽञ्जलिः ।।
तदैव मुष्णात्यशुभान्यशेषतः ।
शुभानि पुष्णाति न जातु हीयते ।। ३१ ।।
ॐ
उदीर्णसंसारदवाशुशुक्षणिम् ।
क्षणेन निर्वाप्य परां च निर्वृत्तिम् ।।
प्रयच्छति त्वच्चरणारुणाम्बुज—
द्वयानुरागामृतसिन्धुशीकरः ।। ३२ ।।
ॐ
विलासविक्रान्तपरावरालयम् ।
नमस्यदार्तिक्षपणे कृतक्षणम् ।।
धनं मदीयं तव पादपङ्कजम् ।
कदा नु साक्षात्करवाणि चक्षुषा ।। ३३ ।।
ॐ
कदा पुनः शङ्खरथाङ्गकल्पक—
ध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयम् ।।
मदीयमूर्धानमलङ्करिष्यति ।। ३४ ।।
ॐ
विराजमानोज्ज्वलपीतवाससम् ।
स्मितातसीसूनसमामलच्छविम् ।।
निमग्ननाभिं तनुमध्यमुन्नतम् ।
विशालवक्षःस्थलशोभिलक्षणम् ।। ३५ ।।
ॐ
चकासतं ज्याकिणकर्कशैः शुभै—
श्चतुर्भिराजानुविलम्बिभिर्भुजैः ।
प्रियावतंसोत्पलकर्णभूषण—
श्लथालकाबन्धविमर्दशंसिभिः ।। ३६ ।।
ॐ
उदग्रपीनांसविलम्बिकुण्डला ।
लकावलीबन्धुरकम्बुकन्दरम् ।।
मुखश्रिया न्यक्कृतपूर्णनिर्मला ।
मृतांशुविम्बाम्बुरुहोज्ज्वलश्रियम् ।। ३७ ।।
ॐ
प्रबुद्धमुग्धाम्बुजचारुलोचनम् ।
सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।।
शुचिस्मितं कोमलगण्डमुन्नसम् ।
ललाटपर्यन्तविलम्बितालकम् ।। ३८ ।।
ॐ
स्फुरत्किरीटाङ्गदहारकण्ठिका ।
मणीन्द्रकाञ्चीगुणनूपुरादिभिः ।।
रथाङ्गशङ्खासिगदाधनुर्धरै—
र्लसत्तुलस्या वनमालयोज्ज्वलम् ।। ३९ ।।
ॐ
चकर्थ यस्या भवनं भुजान्तरम् ।
तव प्रियं धाम यदीयजन्मभूः ।।
जगत्समस्तं यदपाङ्गसंश्रयम् ।
यदर्थमम्भोधिरमन्थ्यबन्धि च ।। ४० ।।
ॐ
स्ववैश्वरुप्येण सदाऽनुभूतया—
प्यपूर्ववद्विस्मयमादधानया ।।
गुणेन रुपेण विलासचेष्टितैः ।
सदा तवैवोचितया तव श्रिया ।। ४१ ।।
ॐ
तया सहासीनमनन्तभोगिनि ।
प्रकृष्टविज्ञानबलैकधामनि ।।
फणामणिव्रातमयूखमण्डल ।
प्रकाशमानोदरदिव्यधामनि ।। ४२ ।।
ॐ
निवासशैयासनपादुकांशुको—
पधानवर्षातपवारणादिभिः ।।
शरीरभेदैस्तव शेषतां गतै—
र्यथोचितं शेष इतीरिते जनैः ।। ४३ ।।
ॐ
दासः सखा वाहनमासनं ध्वजो ।
यस्ते वितानं व्यजनं त्रयीमयः ।।
उपस्थितं तेन पुरो गरुत्मता ।
त्वदङ्घ्रिसम्मर्र्दकिणाङ्कशोभिना ।। ४४ ।।
ॐ
त्वदीयभुक्तोज्झितशेषभोजिना ।
त्वया निसृष्टात्मभरेण यद्यथा ।।
प्रियेण सेनापतिना निवेदितम् ।
तथाऽनुजानन्तमुदारवीक्षणैः ।।
ॐ
हताखिलक्लेशमलैः स्वभावतः ।
सदानुकूल्यैकरसैस्तवोचितैः ।।
गृहीततत्तत्परिचारसाधनै—
र्निषेव्यमाणं सचिवैर्यथोचितम् ।। ४६ ।।
ॐ
अपूर्वनानारसभावनिर्भर—
प्रबुद्धया मुग्धविदग्धलीलया ।।
क्षणाणुवत्क्षिप्तपरादिकालया ।
प्रहर्षयन्तं महिषीं महाभुजम् ।। ४७ ।।
ॐ
अचिन्त्यदिव्याद्भुतनित्ययौवन—
स्वभावलावण्यमयामृतोदधिम् ।।
श्रियः श्रियं भक्तजनैकजीवितम् ।
समर्थमापत्सखमर्थिकल्पकम् ।। ४८ ।।
ॐ
भवन्तमेवानुचरन्निरन्तरम् ।
प्रशान्तनिःशेषमनोरथान्तरः ।।
कदाऽहमैकान्तिकनित्यकिङ्करः ।
प्रहर्षयिष्यामि सनाथजीवितः ।। ४९ ।।
ॐ
धिगशुचिमविनीतं निर्दयं मामलज्जम् ।
परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।।
विधिशिवसनकाद्यैध्र्यातुमत्यन्तदूरम् ।
तव परिजनभावं कामये कामवृत्तः ।। ५० ।।
ॐ
अपराधसहस्रभाजनम् ।
पतितं भीमभवार्णवोदरे ।।
अगतिं शरणागतं हरे ।
कृपया केवलमात्मसात्कुरु ।। ५१ ।।
ॐ
अविवेकघनान्दधिङ्मुखे ।
बहुधा सन्ततदुःखवर्षिणि ।।
भगवान् भवदुर्दिने पथ—
स्खलितं मामवलोकयाच्युत ।। ५२ ।।
ॐ
न मृषा परमार्थमेव मे ।
श्रृणु विज्ञापनमेकमग्रतः ।।
यदि मे न दयिष्यसे ततो—
दयनीयस्तव नाथ दुर्लभः ।। ५३ ।।
ॐ
तदहं त्वदृते न नाथवान् ।
मदृते त्वं दयनीयवान् न च ।।
विधिनिर्मितमेतदन्वयम् ।
भगवान् पालय मा स्म जीहपः ।। ५४ ।।
ॐ
वपुरादिषु योऽपि कोऽपि वा ।
गुणतोऽसानि यथातथाविधः ।।
तदयं तव पादद्मयो—
रहमद्यैव मया समर्पितः ।। ५५ ।।
ॐ
मम नाथ यदस्ति योऽस्म्यहम् ।
सकलं तद्धि तवैव माधव ।।
नियतस्वमिति प्रबुद्धधी ।
रथवा किं नु समर्पयामि ते ।। ५६ ।।
ॐ
अवबोधितवानिमां यथा ।
मयि नित्यां भवदीयतां स्वयम् ।।
कृपयैवमनन्यभोग्यताम् ।
भगवान् भक्तिमपि प्रयच्छमे ।। ५७ ।।
ॐ
तव दास्यसुखैकसङ्गिनाम् ।
भवनेष्वस्त्वपि कीटजन्म मे ।।
इतरावसथेषु मास्भू—
दपि मे जन्म चतुर्मुखात्मना ।। ५८ ।।
ॐ
सकृत्वदाकारविलोकनाशया ।
तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।।
महात्मभिर्मामवलोक्यतां नय ।
क्षणेऽपि ते यद्विरहोऽतिदुःसहः ।। ५९ ।।
ॐ
न देहं न प्राणन् न च सुखमशेषाभिलषितम् ।
न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।।
बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा ।
विनाशंं तत्सत्यं मधुमथन विज्ञापनमिदम् ।। ६० ।।
ॐ
दुरन्तस्यानादेरपरिहरणीयस्य महतो ।
निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।।
दयासिन्धो ! बन्धो ! निरवधिकवात्सल्यजलधे ।
तव स्स्मारं स्मारं गुणगणमितीच्छामि गतभीः ।। ६१ ।।
ॐ
अनिच्छन्न्प्येवं यदि पुनरितीच्छन्नव रज ।
स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् ।।
तथाऽपीत्थं रुपं वचनमवलम्ब्याऽपि कृपया ।
त्वमेवैवं भूतं धरणिधर ! मे शिक्षय मनः ।। ६२ ।।
ॐ
पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृत् ।
त्वमेव त्वं मित्रं गुरुरपि गतिश्चासि जगताम् ।।
त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहम् ।
प्रपत्रश्चैवं सत्यहमपि तवैवास्मि हि भरः ।। ६३ ।।
ॐ
जनित्वाऽहं वंशे महति जगति ख्यातयशसाम् ।
शुचीनां युक्तानां गुणपुरुषतत्वस्थितिविदाम् ।।
निसर्गादेव त्वच्चरणकमलैकान्तमनसा ।
मधोऽधः पापात्मा शरणदः निमज्जामि तमसि ।। ६४ ।।
ॐ
अमर्यादः क्षुद्रश्चलमतिरसूया प्रसवभूः ।
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधे ।
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ।। ६५ ।।
ॐ
रघुवर ! यदभूस्त्वं तादृशो वायसस्य ।
प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।।
प्रतिभवमपराद्धुर्मुग्ध ! सायुज्यदोऽभू—
र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ।। ६६ ।।
ॐ
ननु प्रपन्नः सकृदेवनाथ ।
तवाहमस्मीति च याचमानः ।।
तवानुकम्प्यः स्मर तत्प्रतिज्ञाम् ।
मदेकवर्जं किमिदं व्रतं ते ।। ६७ ।।
ॐ
अकृत्रिमत्वच्चरणारविन्द ।
प्रेमप्रकर्षावधिमात्मवन्तम् ।।
पितामहं नाथमुनिं विलोक्य ।
प्रसीद मद्वृत्तमचिन्तयित्वा ।। ६८ ।।
ॐ
यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तमे ।। ६९ ।।
।। श्रीआलावन्दारस्तोत्रं समाप्तम् ।।
|| श्री वरदवल्लभास्तोत्रम् ||
श्री यामुनाचार्र्यस्वामीज्यूद्वारा विरचित
श्री वरदवल्लभास्तोत्रम्
( श्रीचतुश्लोकी )
कान्तास्ते पुरुषोत्तमः फणिपतिः शैयाऽसनं वाहनम् ।
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।।
ब्र्रम्हेशादिसुरव्रजस्सदयितस्त्वद्दासदासीगणः ।
श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ।। १ ।।
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभो ऽपि प्रभु
र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।।
तां त्वां दास इति प्रपत्र इति च स्तोष्याम्यहं निर्भयो ।
लोकैकेश्वरि ! लोकनाथदयिते दान्ते दयान्ते विदन् ।। २ ।।
ईषत्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते ।
नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् ।।
श्रेयो न ह्यरविन्दलोतनमनः कान्ताप्रसादादृते ।
संसृत्याक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ।। ३ ।।
शान्तानन्तमहाविभूूति परमं यद्ब्रह्मरुपं हरे ।
मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रुपं यदत्यद्भुतम् ।।
यान्यान्यानि यथासुखं विहरतो रुपाणि सर्वाणि ता—
न्याहु स्वैरनुरुपरुपविभवैर्गाढोपगूढानि ते ।। ४ ।।
आकारत्रयसम्पन्नामरविन्दनिवासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ।।
समाप्तोऽयम्
कम्प्युटर टाईप एवं संग्रहकर्ता
मिति- २०७१-०४-१४ गते बुधवार
स्थान- बुढानिलकण्ठ १० कपन
काठमाडौं नेपाल
No comments:
Post a Comment