।। अथ श्री रमा सहित सत्यनारायण संक्षिप्त पूजन पद्धति ।।
श्रीसत्यनारायणाय नमः
प्रारम्भिक दीप, कलश, गणेश, वरुण, नवग्रह आदि पूजन पश्चात् श्रीसत्यनारायण भगवानको रमा सहित पूजन गर्नुपर्छ । यहाँ केवल रमा सहित सत्यनारायण भगवान्को पूजन प्रस्तुत गरिएको छ ।
कृतनित्यकृयो व्रती रविसंक्रान्तिदिने पौर्णमास्यामेकादश्यां वा यस्मिन् शुभदिने सायंकाले स्नानं कृत्वा शुद्धवस्त्रं परिधाय पूजास्थानमागत्य पवित्राऽ सने उपविश्य पवित्रधारणं कृत्वा दीपं प्रज्ज्वल्य आचम्य कर्मपात्रं कुर्यात् तत्रादौ ।
" ॐ यद्देवा देवहेडनन्देवासश्चकृमा वयम् अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्व गूं हस: यदि दिवा यदि नक्तमेना गूं सि चकृमा वयम्म । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्व गूं हस: । यदिजाग्रद्यदिस्वप्न ऐन गूं सि चकृमा वयम्म । सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्व गूं हस: । इति देवानावाह्य तत्र-
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वह: प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: । तस्य ते पवित्रपते पवित्रपूतस्य यत्कांम: पुने तच्छकेयम् ।। इति मन्त्रेण पवित्रं क्षिपेत् ।
ॐ शन्नो देवीरभिष्टयाऽअपो भवन्तु पीतये । शंयोरभिस्रवन्तु न: । इति जलम्
ॐ गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोअपह्वये श्रियम् । इति चन्दनम् ।
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभावनवो विप्रा नेविष्ठयामतीयोजान्विन्द्र ते हरी । इति अक्षतान् क्षिपेत् ।
ॐ यवोसि यवयास्मद् द्वेषो यवयारातीर्दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा । शुन्धन्ताँल्लोका: पितृषदना: पितृषदनमसि । इति यवान् क्षिपेत् ।
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मित: । प्रत्क्नमद्भि: पृक्त: स्वधया पितृँल्लोकान् प्रिणाहिन: । इति तिलान् क्षिपेत् ।
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण । इति पुष्पम् क्षिपेत् ।
ॐ हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेकऽआसीत् । स दधार पृथिवीं द्यामुते माङ्कस्मै देवाय हविषा विधेम । इति हिर्ण्यं प्रक्षिपेत् ।
ॐ अपवित्र: पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।
य: स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यान्तर: शुचि: ।।
ॐ पुण्डरीकाक्ष: पुनातु । इति द्रव्याणि आत्मानं च सिञ्चेत् ।।
अथ संकल्पं कुर्यात्
हरि: ॐ तत्सत् ३ ॐ विष्णु: ३ देशकालौ संस्मृत्य मम पुत्रपौत्राद्यनेक विधधनधान्यादिनानासुखभोगानन्तरं सकलदुरितक्षयसर्वारिष्ट शान्ति पूर्वकथयोक्तफल प्राप्त्यर्थं श्रीपरमेश्वर प्रीत्यर्थं सत्यपुरवासकायनया यथा मिलितोपचारै: दीपकलशगणेशनवग्रहेन्द्रादि दशदिक्पालदेवतापूजनपूर्वकं साङ्गसपरिवाररमासहितश्रीसत्यनारायणपूजनं कथाश्रवणाञ्चाऽहं करिष्ये ।
दीपपूजा- ॐ पृष्टोदिवि ॐ नमोऽस्त्वनन्ताय इति मन्त्रेण च दीपं सम्पूज्य ॐ नम: कमलनाभाय इत्यादि मन्त्रेण दीपं प्रार्थयेत् ।
कलशपूजा- तत: कलशस्थापनविधिना कलशं संस्थाप्य, वरुणमावाह्य गन्धादिभि: सम्पूज्य देवदानवसंवादे इत्यादि मन्त्रै: प्रार्थयेत् ।
गणेशपूजा- ततो गणनान्त्वा इति मन्त्रेण गणेशमावाह्य गन्धादिषोडशोपचारै: सम्पूज्य वक्रतुण्ड महाकाय इत्यादिना प्रार्थयेत् ।
तत: कलशस्कन्धप्रदेशे- ॐ गणपत्यादि पंचायतनेभ्यो नम: इत्यादि वनस्पत्यन्तदेवताभ्यो नाममन्त्रै: पूजयेत ।
प्रधानकलशस्थापनं पूजनञ्च- मध्ये धान्योपरि कलशं संस्थाप्य पूर्वोक्तकलशपूजाविधिना कलशं सम्पूज्य ततस्ताम्रस्थाल्यामष्टदलं विलिख्य कलशोपरि स्थापयेत् ।
अथ पीठपूजा
ॐ पूर्वे विमलायै नम: विमले इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरा भव इत्यावाह्य पाद्यादिभिरुपचारै: पूजयेत् । इत्यनेनैव क्रमेण
आग्नये- ॐ ज्ञानरुपायै नम: । दक्षिणे- ॐ क्रियायै नम: । नैऋत्ये- ॐ योगायै नम: । पश्चिमे- ॐ प्रभायै नम: । वायव्ये- ॐ सत्यायै नम: । उत्तरे- ॐ अनुग्रहायै नम: । ईशाने- ॐ ईशान्यै नम: । मध्ये- ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्म संयोगाय योगपद्मपीठात्मने नम: । इति आवाहनादि पाद्यादिभिरुपचारै: पीठपूजां कुर्यात् ।
पुन: लक्ष्मीश्च पीठपूजनम् ।
पूर्वे- ॐ लक्ष्मै नम: । दक्षिणे- ॐ सरस्वत्यै नम: । पश्चिमे- ॐ श्रीयै नम: । उत्तरे- ॐ अमृतोद्भवाय नम: । आग्नये- ॐ कमलायै नम: । नैऋत्ये- ॐ विष्णुपत्न्यै नम: । वायव्ये- ॐ अम्बिकायै नम: । ईशाने- शिवायै नम: ।
दिक्पालपूजा
पूर्वदले- ॐ इन्द्राय नम: भो इन्द्र इहागच्छ इह तिष्ठ मम पूजां गृहाण यावत्पूजां करोमि तावत्वं सुस्थिरा भव इत्यावाह्य पाद्यादिभिरुपचारै: पूजयेत् । एवं क्रमेण- आग्नेयदले ॐ अग्नये नम: । दक्षिणदले- ॐ यमाय नम: । नैऋत्यदले- ॐ नैॠतये नम: । पश्चिमदले- ॐ वरुणाय नम: । वायव्यदले- ॐ वायवे नम:। उत्तरदले- ॐ कुबेराय नम: । ईशानदले- ॐ इशानाय नम: । पूर्वेशानयोर्मध्ये- ॐ ब्रह्मणे नम: । निऋतिवरुणमध्ये- ॐ अनन्ताय नम: ।
द्वारपालपूजा
पूर्वे- ॐ नन्दाय नम: । आग्नये- ॐ सुनन्दाय नम: । दक्षिणे- ॐ बलाय नम: । नैऋत्ये- ॐ प्रवलाय नम: । पश्चिमे- ॐ जयाय नम: । वायव्ये- ॐ विजयाय नम: । उत्तरे- ॐ सुशीलाय नम: । ईशाने- ॐ पुण्यशीलाय नम: । इति आवाहन्पाद्यादिभिरुपचरै: सम्पूज्य धूपदीपनैवेद्यादिकं च कुर्यात् ।
प्रधानदेवतापूजा- तत: स्थालीमध्ये सुवर्णप्रतिमा संस्थाप्य तत्र
रमासहितस्य श्रीसत्यनारायणस्य जीवप्राणवाक्पाणी पादपायूपस्थ
सर्वेन्दृयाणि इहागत्य यथासुखं चिरं तिष्ठन्तु नम: ।।
ॐ मनोजुतिर्ज्जुषतामाज्ज्यस्य वृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं
यज्ञ गूं समिमन्दधातु विश्वेदेवासऽइह मादयन्तामों ३ प्रतिष्ठ ।।
इति मन्त्रेण प्राणप्रतिष्ठां कुर्यात् ।
आवाहनम्-
सहस्त्रशीर्षा पुरुष:सहस्राक्ष:सहस्रपात् |
स भूमि गूं सर्वत: स्पृत्वाऽत्यतिष्ठद्द्शाङ्गुलम् ।
ॐ भूर्भुव: स्व: रमासहितं श्रीसत्यनारायण इहागच्छ इह तिष्ठ मम पूजां
गृहाण यावत्पूजा करोमि तावत्वं सुस्थिरो भव सुप्रसन्नो भव ।।
ध्यानम्-
ॐ ध्यायेत्सत्यं गुणातीतं गुणत्रयसमन्वितम् ।
लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ।।
सुलोकनं चतुर्वाहुं शंखचक्रगदाधरम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।।
कङ्कणाङ्गुलिभूषाभि: केयूरैश्च विराजितम् ।
गोविन्दं गोकुलानन्दं ब्रह्माद्यैरपिपूजितम् ।।
ध्यानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
आसनम्
कुशद्वयासनम् स्थापनम्
ॐ पुरुषऽएवेद गूं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।
आसनं स्थापयामि श्रीसत्यनारायणाय नम: ।
पाद्यम्
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।
नानातीर्थाहृतं तोयं निर्मलं गन्धमिश्रितम् ।
पाद्यं गृहाण देवेश विश्वरुप नमोऽस्तुते ।।
पाद्य प्रक्षालनं श्रीसत्यनारायणाय नम: ।
अर्घ्यम्
ॐ त्रिपादूर्ध्व उदैत्पुरुष:पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशनेऽअभि ।
गन्धपुष्पांक्षतोपेतं दधिदूर्वासमन्वितम् ।
अर्घ्यं गृहाण देवेश मया दत्तं हि भक्तित: ।।
अर्घ्यं समर्पयामि श्रीसत्यनारायणाय नम: ।
आचमनीयम्
ॐ ततो विराडजायत विराजोऽअधि पूरुषः।
स जातोअत्यरिच्यत पश्चाद्भूमिमथो पुर: ।।
कर्पूरवासितं तोयं मन्दाकिन्या: समाहृतम् ।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तित: ।
आचमनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
मधुपर्कम्
ॐ मधुवाताऽऋतायते मधु क्षरन्ति सिन्धव: माध्वीर्न: सन्त्वोषधी:।
मधु नक्तमुतोषसो मधुमत्पार्थिव६•रज: मधु द्यौरस्तु न: पिता ।
मधुमान्नो वनस्पतिर्मधुमाँऽअस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ।
दधि क्षौद्रमिदं शुभ्रं कपिलाया: सुगन्धिकम् ।
सुस्वादु मधुरं देव मधुपर्कं गृहाण भो ।
मधुपर्कं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
पुनराचमनीयम्
ॐ शुचिर्वाप्यशुचिर्वाऽपि यस्य स्मरणमात्रत: ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।
पुनराचमनीयं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
पयसा
ॐ पय: पृथिव्यां पयऽओषधीषु पयो सिव्यन्तरिक्षे पयोधा: ।
पयस्वती: प्रदिश: सन्तु मह्यम् ।
देवाद्यैर्वन्दिता धेनु: सर्वपापप्रणाशिनी ।
त्वां क्षीरस्नापितो देव नित्यं शोकहरो भव ।।
पय स्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शुद्धोदकेन
ॐ आपोऽअस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु ।
विश्व ६• हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्य: शुचिरापूतऽएमि ।
दीक्षातपसोस्तनूरसि तान्त्वा शिवा ६• सग्मापरिदधे भद्रं वर्ण पुष्यन् ।
शुद्धोदकं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
दधिस्नानम्
ॐ दधिक्राव्णोऽअकारिषञ्जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखाकरत्प्राणऽआयु ६• षितारिषत् ।
पयसस्तु समुद्भूतं मधुराम्लं शशीप्रभम् ।
दध्यार्पितं मया देव स्नानाय प्रतिगृह्यताम् ।।
दधिस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शुद्धोदकेन
ॐ आपोऽअस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु ।
विश्व ६• हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्य: शुचिरापूतऽएमि ।
दीक्षातपसोस्तनूरसि तान्त्वा शिवा ६• सग्मापरिदधे भद्रं वर्ण पुष्यन् ।
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
घृतस्नानम्
ॐघृतम्मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वध मावह मादयस्व स्वाहाकृतं वृषभ वक्षिहव्यम् ।
रसानामुत्तमं त्वाज्यं देवानां च सदाप्रियम् ।
तेन तब स्नापितो देव मम कान्तिप्रदो भव ।
घृतस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शुद्धोऽदकेन
ॐ आपोऽअस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु ।
विश्व ६• हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्य: शुचिरापूतऽएमि ।
दीक्षातपसोस्तनूरसि तान्त्वा शिवा ६• सग्मापरिदधे भद्रं वर्ण पुष्यन् ।
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
मधुस्नानं
ॐ मधुवाताऽऋतायते मधु क्षरन्ति सिन्धव: माध्वीर्न: सन्त्वोषधी:।
मधु नक्तमुतोषसो मधुमत्पार्थिव६•रज: मधु द्यौरस्तु न: पिता ।
मधुमान्नो वनस्पतिर्मधुमाँऽअस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ।
यस्य धारणमात्रेण तृप्तिं यान्ति पितामहा: ।
मधुना स्नापितो देव नित्यं शोकहरो भव ।।
मधुस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शुद्धोऽदकेन
ॐ आपोऽअस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु ।
विश्व ६• हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्य: शुचिरापूतऽएमि ।
दीक्षातपसोस्तनूरसि तान्त्वा शिवा ६• सग्मापरिदधे भद्रं वर्ण पुष्यन् ।
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शर्करास्नानम्
ॐ अपा ६• रसमुद्वयस ६• सूर्ये सन्त ६• समाहितम् ।
अपा ६• रसस्य यो रसस्तं वो ग्रुह्णाम्युत्तममुपयामगृहीतोसीन्द्राय ।
त्वा जुष्टङ् गृहणाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका ।
मलापहारिणी दिव्या स्नानाय प्रतिगृह्यताम् ।
शर्करास्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
शुद्धोऽदकेन
ॐ आपोऽअस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु ।
विश्व ६• हि रिप्रम्प्रवहन्ति देवीरुदिदाभ्य: शुचिरापूतऽएमि ।
दीक्षातपसोस्तनूरसि तान्त्वा शिवा ६• सग्मापरिदधे भद्रं वर्ण पुष्यन् ।
शुद्धोदकस्नानं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
वस्त्रम्
ॐ तस्माद्यज्ञात्सर्वहुत: सम्भृतं पृषदाज्यम् ।
पशूंस्न्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।
पीताम्बरयुगं देव सर्वकामार्थसिद्धये ।
मया निवेदितं भक्त्या गृहाण जगदीश्वर: ।
युग्मवस्त्रं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
यज्ञोपवीतम्
ॐ तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।
दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् ।
ब्रह्मसूत्रं सोत्तरीयं गृहाण जगदीश्वर: ।।
यज्ञोपवीतं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
आभूषणानि
ॐ किरीटकुण्डलादीनि काञ्चीवलययुग्मकम् ।
कौस्तुभं बनमालां च भूषणानि गृहाण भो ।।
आभूषणं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
गन्धम् ( चन्दनम् )
ॐ तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रत: ।
तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ।
श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं गन्धमुत्तमम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतीगृह्यताम् ।
चन्दनं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
तिलाक्षतान्
ॐ तिलोसि सोमदैवत्यो गोसवो देवनिर्मित: ।
प्रत्क्नमद्भि: पृक्त: स्वधया पितृँल्लोकान् प्रिणाहिन: ।
धन्यराजा: स्वमाङ्गल्या विष्णुप्रीतिकरा यवा: ।
तस्मादेषां प्रदानेन ममास्त्वविकलं फलम् ।।
तिलाक्षतान् समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
पुष्पम्
ॐ श्रीश्चते लक्ष्मीश्चपत्न्यावहोरात्रे पार्श्वे नक्षत्राणि
रुपमश्विनौ व्यात्तम मुम्मऽइषाण सर्वलोकम्मऽइषाण ।
इमानि पुस्पाणि मनोहराणि ।
सुरासुराणामपि दुर्लभानि ।
कल्पद्रुमादि द्रुमजानि तानि ।
पुष्पाञ्जलिर्मेऽस्तु सुखाय नित्यम् ।।
पुष्पं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
सिंन्दूरम्
सिन्दूरं च वर रम्यं भाले शोभादिवर्धनम् ।
पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्यताम् ।
दिव्यरत्नसमायुक्ता बह्निभानुसमप्रभा: ।
गात्राणि शोभयिष्यन्ति ह्यलङ्कारा सुरेश्वरि ।
श्रीलक्ष्मीप्रीतये सिन्दूरादि सौभाग्यद्रव्याणि समर्पयामि ।
अङ्गपूजा
ॐ विष्णवे नम: पादौ पूजयामि । ॐ नारायणाय नम: जंघे पूजयामि ।
ॐ केशवाय नम: गुल्फौ पूजयामि । ॐ रामाय नम: जानुनी पूजयामि ।
ॐ कृष्णाय नम: मेढ्रं पूजयामि । ॐ नृसिंहाय नम: नाभि पूजयामि ।
ॐ दामोदराय नम: हृदयं पूजयामि । ॐ जनार्दनाय नम: कण्ठं पूजयामि ।
ॐ श्रीधराय नम: बाहु पूजयामि । ॐ वाचश्पतये नम: मुखं पूजयामि ।
ॐ जगन्नाथाय नम: ललाटं पूजयामि । ॐ सर्वात्मने नम: शिरं पूजयामि ।
ॐ सत्यनारायणाय नम: सर्वाङ्गं पूजयामि ।
तुलसीपत्राणि
ॐ तुलसीं रत्नरुपां च हेमरुपां च मञ्जरीम् ।
भवमोक्षप्रदां नित्यमर्पयामि हरिप्रियाम् ।।
तुलसीपत्रं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
धुपम्
ॐ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्य: कृत: ।
ऊरू तदस्य यद्वैश्य: पद्भ्या शूद्रोऽअजायत ।
बनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
धूपम् समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
दीपम्
ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।
घृतवर्ति समायुक्तं बह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ।।
दीपं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
नैवेद्यम्
ॐ नाभ्याऽआसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकांन्मऽकल्पयन् ।।
नैवेद्यं गृह्यतां देव भक्ति मे ह्यचलां कुरु ।
ईप्सितं मे वर देहि परत्रं च परां गतिम् ।।
नैवेद्यं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
फलम्
ॐ या: फलिनीर्य्याऽअफलाऽअपुष्पायाश्चपुष्पिणी: ।
बृहस्पतिप्प्रसूतास्तानो मुञ्चत्व ६• हस: ।
रसयुक्तानि स्वादूनि यथाकालोद्भवानि च ।
मयानीतानि देवेश फलानि प्रतिगृह्यताम् ।।
फलं समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
अपूपम्
ॐ त्वदीय वस्तु गोविन्द तुभ्यमेव समर्पितम् ।
गृहाण सुमुखोभूत्वा प्रसीद परमेश्वर ।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम् ।
जातीपत्रलवङ्गैलाशर्करागुडमिश्रितम् ।।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदितं ।
मया श्रद्धावता देव गृहाण जगदीश्वर ।
अपूपम् समर्पयामि रमासहिताय श्रीसत्यनारायणाय नम: ।
आचमनीयम्
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्मऽइध्म: शरद्धवि:।
कर्पूरवासितं तोयं मन्दाकिन्या: समाहृतम् ।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तित: ।।
आचमनीयम् समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
चन्दनादिकरोद्वर्तनम्
ॐ श्रीखण्डं कुङ्कुमं चैव कर्पूराऽगरुमिश्रितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ।।
करोद्वर्तनकम् समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
श्रीफलम्
ॐ इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।
नारिकेलादिफलं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
ताम्बूलम्
ॐ पूगीफलं महाद्दिव्यं नागवल्लीदलैर्युतम् ।
एलाचूर्णादिसहितं ताम्बूलं प्रतिगृह्यताम् ।।
ताम्बूलं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
दक्षिणा
ॐ हिरण्यगर्भ:समवर्तताग्रे भूतस्य जात: पतिरेकऽआसीत् ।
सदाधार पृथिवीन्द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ।
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो ।
अनन्तपुण्यफलद: मत: शान्तिं प्रयच्छ मे ।।
दक्षिणां समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
चामरम्
ॐ शशाङ्करसशंकाशं हिमडिंडिमपाण्डूरम् ।
प्रोत्सारयासु दुरितं चामरावरवल्लभ ।
चामरं दोलयामि समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
व्यजनम्
ॐ शिखिपुङ्खसमायुक्तं शैत्यमानन्ददायकम् ।
व्यजनं दोलयामित्वामत: शान्तिं प्रयच्छ मे ।।
व्यजनं समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
आदर्शम्
ॐ दर्शनेन त्वमादर्शं नूनं मङ्गलदायक: ।
शौर्यसौभाग्यसत्कीर्तिर्निर्मलज्ञानदो भव: ।।
आदर्शम् समर्पयामि श्रीरमासहिताय श्रीसत्यनारायणाय नम: ।
ततो यथाशक्ति श्रीरमासत्यनारायणस्य जपं कुर्यात् ।
नीराजनम्
ॐ पञ्चवर्तिसमायुक्तं घृतेन ज्वलितं मया ।
आरार्तिकप्रदानेन सन्तुष्टो भव सर्वदा ।।
चन्द्रादित्यौ च धरणीविद्युदग्निस्तथैव च ।
त्वमेव सर्वज्योतिश्च तेन नीराजयाम्यहम् ।।
निराजनं अर्पयामि रमासहिताय सत्यनारायणाय नम: ।
कर्पूरदीपम्
सूर्येन्दुतारकाबह्निस्तेज: पुञ्जविराजितम् ।
कर्पूरदीपं देवेश गृहाण पुरुषोत्तम ।।
अग्निर्ज्ज्योतिर्ज्योतिरग्नि: स्वाहा सूर्यो ज्योतिर्ज्योति: सूर्य: स्वाहा ।
अग्निवर्चोज्योतिर्वर्च: स्वाहा सूर्यो वर्चो ज्योतिर्वर्च: स्वाहा ।
ज्योति: सूर्यो ज्योति: स्वाहा ।
पुष्पाञ्जलि:
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा:।
नमो भगवते तुभ्यं सत्यनारायणाय च ।
नमस्ते विश्वरुपाय शंखचक्रगदाभृते ।
पद्मनाभाय देवाय हृषीकपतये नम: ।
नमस्तेऽनन्तरुपाय त्रिगुणात्मविभाविने ।
लक्ष्मीकान्ताय देवाय जगदानन्दकारिणे ।
सहस्त्रशिरसे तुभ्यं वाग्विभूतिकृते नम: ।।
प्रदक्षिणा
ॐ सप्तास्यासन्परिधयस्त्रि: सप्त समिध: कृता: ।
देवा यद्यज्ञन्तन्वानाऽअबघ्नन्पुरुषं पशूम् ।
यानि कानि च पापानि ब्रह्महत्या सतानि च ।
तानि तानि प्रणश्यन्तु प्रदक्षिणपदे पदे ।।
नमस्कार:
सत्यनारायणं देवं वन्देऽहं कामदं विभुम् ।
लीलया विततं विश्व येन तस्मै नमोनम: ।
प्रणमामि सदा सत्यं सत्यनारायणं गुरुम् ।
बद्धाञ्जलि: पठेत्
अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदन ।
हृषीकेशं जगन्नाथं वागीशं वरदायकम् ।
योगेश्वरं गुणातीतं गोविन्दं गरुडध्वजम् ।
जनार्दनं व्रजानन्दं श्रीवल्लभमधीश्वरम् ।
सत्यनारायणं देवं वन्देऽहं कामदं विभुम् ।
लीलया रचित विश्वं येन तस्मै नमो नम: ।
प्रणमामि सदा सत्यं सत्यनारायणं परम् ।
दुर्गमे विषमे घोरे शत्रुभि: परिपीडिते ।
विविधापत्सु घोरेषु दु:खेष्वपि च यद्भयम् ।
विनाशाय सदादेव तत्सर्वमुपसर्गकम् ।
त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस: ।
न जानन्ति गुणं रुपं तवाश्चर्यमिदं प्रभो ।
मूढोऽहं त्वां कथं जाने मोहितस्तवमायया ।
प्रसीद पूजितो भक्त्या यथाविभवविस्तरै: ।
पुत्रं वित्तं च मच्चित्तं पाहि मां शरणागतम् ।
शरण तं प्रपद्येऽहं सर्वकामार्थसिद्धये ।
प्रणमामि सदा सत्यं देवं नारायणं हरिम् ।
विशेषार्घ्यं दद्यात्
ॐ जातो दैत्यवधार्थाय देवानां पालनाय च ।
तस्मै देवाय सत्याय सगुणाय महात्मने ।
व्यक्ताव्यक्तस्वरुपाय हृषीकपतये नम: ।
गृहाणार्घ्यं मया दत्तं रमया सहित प्रभो ।
क्षमापनम्
ॐ त्राहि मां सर्वग श्रीश हरे संसारसागरात् ।
पुष्कराक्ष निमग्नोऽहं मायावीज्ञानमत्सरात् ।
त्राहि मां देवदेवेश त्वत्तो नास्तीह रक्षिता ।
इत्यर्घं निवेद्य शंखजलं निवेदयेत्
ॐ यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलं ।
निवेदितं च नैवेद्यं गृहाण चानुकम्पया ।
मन्त्रहीनं क्रियाहीनं विधीहीनं सुरेश्वर ।
यत्पूजितं मयादेव परिपूर्णं तदस्तु मे ।
साधु वासाधु वा कर्म यद्यदाचरितं मया ।
तत्सर्वं क्ष्यम्यतां देव गृहाण परमेश्वर ।
इत्यार्घं पराङ्मुखं कृत्वा - ॐ अर्घ्यपात्राय नम: । ॐ शंखपात्राय नम: ।
इति पूजनम् । तत्पश्चात् ब्राह्मणद्वारा कथां शृणुयात् ।
कथा श्रवणानन्तरं पूर्णपात्रं कुर्यात् । फलयज्ञोपवीतवस्त्रादिद्रव्यसमेतं तण्डुपूर्णपात्रं हस्तेनादाय संकल्पं कुर्यात् ।
अद्येत्यादि देशकालौ समुच्चार्य ..........मम कृतैतत् दीपकलशगणेशपूजन-पूर्वकं साङ्गसपरिवाररमासहितश्रीसत्यनारायणपूजनकर्मण: परिपूरणार्थं मिदं पूर्णपात्रं प्रजापतिदैवतं........गोत्राय शर्मणे ब्राह्मणाय तुभ्यऽमहं संप्रददे ।
दक्षिणासङ्कल्प
हरि: ॐ तत्सदित्यादि देशकालौ संस्मृत्य मम श्रुतिस्मृतिपुराणोक्त फलवाप्तिपूर्वकमनोवाञ्छासिद्ध्यर्थं सत्यनारायणव्रताङ्गत्वेन कृतस्य दीपकलशगणेशगणपत्यादिवनस्पत्यन्तं देवतापूजनपूर्वकसाङ्गसपरिवार श्रीरमासहितसत्यनारायणपूजनकर्मण: प्रतिष्ठासाङ्गतासिध्यर्थंमिमां दक्षिणां रौप्यं चन्द्रदैवतं....... गोत्राय....... नाम शर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे ।
विसर्जनम्
ॐ यान्तु देवगणा: सर्वे पूजामादाय पार्थिवम् ।
इष्टकामप्रसिध्यर्थं पुनरागमनाय च ।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ।
यत्र ब्रह्मादयो देवास्तत्र गच्छ सुरेश्वर ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि तब गति: परमेश्वर: ।
कर्मेश्वराणाम्
ॐ कायेन वाचा मनसेन्दृयैर्वा ।
बुध्यात्मना वानुसृत: स्वभावात् ।
करोमि यद्यत्सकलं परस्मै ।
नारायणायेति समर्पयेतत् ।
प्रार्थना
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यून सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णु: प्रसीदतु ।
ॐ अच्युताय नम: ३ कर्मेश्वरार्पणमस्तु
अभिषेक:
ॐ द्यौ: शान्तिरन्तरिक्ष ६• शान्ति: पृथिवीशान्तिराप: शान्तिरोषधय: शान्ति:
वनस्पतय: शान्तिर्विश्वेदेवा: शान्तिर्ब्रह्मशान्ति: सर्व ६• शान्ति: शान्तिरेव शान्ति: सा माशान्तिरेधि ।
ॐतच्चक्षुर्देव हितम्पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरद: शतञ्जीवेम शरद: शत ६• शृणुयाम शरद: शतम्प्रब्रवाम
शरद: शतमदीना: स्याम शरद: शतम्भूयश्च शरद: शतात् ।
ॐ स्वस्तिनऽइन्द्रो वृद्धश्रवा: स्वस्तिन: पूषा विश्ववेदा: ।
स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमि: स्वस्तिनो वृहस्पतिर्द्दधातु ।
ॐ विश्वानि देवसवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव ।।
मन्त्रैरभिषेकं कुर्यात् ।
प्रसादवितरणम्
यजमान अपूपपुष्पादि हस्तेनादाय मन्त्रं पठेत् ।
बलिर्विभीषणो भीष्म: प्रह्लादो नारदो ध्रुव: ।
कपिलश्चान्तरिक्षश्च वसुर्वायुसुतस्तथा ।
विश्वक्सेनोद्धवाक्रूरसनकाद्या महर्षय: ।
वासुदेवप्रसादोऽयं सर्वे गृह्णन्तु वैष्णवा: ।
इति मन्त्रोच्चारणपूर्वकं विष्णुभक्त्येभ्य: प्रसादादिकं समर्पयेत् ।
यजमानाय प्रसाद्वितरणम्
आशिषमन्त्रपठनपूर्वकं प्रसादवितरणं कुर्यात्
ॐ श्रीर्वर्चस्वमायुष्यमारोग्यमाविधात्पवमानं महीयते ।
धनं धान्यं पशुं बहुवित्तलाभं शतसंवत्सर दीर्घमायु: ।
श्रीसत्यनारायण व्रतकथा प्रारभ्यते
।। अथ प्रथमोऽयाय: ।।
व्यास उवाच-
एकदा नैमिषारण्ये ऋषय: शौनकादय:।
पप्रच्छुर्मुनय: सर्वे सूतं पौराणिकं खलु॥१॥
ऋषय: ऊचु:-
व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम्।
तत्सर्वं श्रोतुमिच्छाम: कथयस्व महामुने !॥२॥
सूत उवाच-
नारदेनैव सम्पृष्टो भगवान् कमलापति:।
सुरर्षये यथैवाऽऽह तच्छृणुध्वं समाहिता:॥३॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया।
पर्यटन् विविधान् लोकान् मर्त्य लोकमुपागत:॥४॥
तत्र दृष्ट्वा जनान् सर्वान् नाना क्लेशसमन्वितान्।
नाना योनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभि:॥५॥
केनोपायेन चैतेषां दु:खनाशो भवेद् ध्रुवम्।
इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥६॥
तत्र नारायणं देवं कृष्णवर्णं चतुर्भुजम्।
शङ्ख-चक्र- गदा-पद्म-वन मालाविभूषितम् ।
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे।। ७ ।।
नारद-उवाच-
नमो वाङ्मनसाऽतीतरूपायाऽनन्तशक्तये ।
आदि-मध्याऽन्तहीनाय निर्गुणाय गुणात्मने।। ८ ।।
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत।। ९ ।।
श्रीभगवानुवाच-
किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते।
कथयस्व महाभाग तत्सर्वं कथयामि ते।। १०
नारद उवाच-
मत्र्यलोके जना: सर्वे नाना क्लेशसमन्विता:।
नाना योनिसमुत्पन्ना: क्लिश्यन्ते पापकर्मभि:॥११॥
तत्कथं शमयेन्नाथ लघूपायेन तद् वद।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि॥१२॥
श्रीभगवानुवाच-
साधु पृष्टं त्वया वत्स! लोकानुग्रहकाङ्क्षया।
यत्कृत्वा मुच्यते मोहात् तच्क्षुणुष्व वदामि ते॥१३॥
व्रतमस्ति महत्पुण्यं स्वर्गे मत्र्ये च दुलर्भम्।
तव स्नेहान्मया वत्स! प्रकाश: क्रियतेऽधुना॥१४॥
सत्यनारायणस्यैतद् व्रतं सम्यग्विधानत:।
कृत्वा सद्य:सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रत्वा भगवद् वाक्यं नारदो मुनिरब्रवीत्।। १५
नारद उवाच-
किं फलं किं विधानं च कृतं केनैव तद्व्रतम्॥
तत्सर्वं विस्तराद् बूरहि कदा कार्यं व्रतं हि तत्।। १६ ।।
श्रीभगवानुवाच-
दु:ख-शोकादिशमनं धन-धान्यप्रवर्धनम् ।
सौभाग्य-सन्ततिकरं सर्वत्रा विजयप्रदम्।
यस्मिन् कस्मिन् दिने मत्र्यो भक्ति श्रद्धासमन्वित:॥१७॥
सत्यनारायणं देवं यजेच्चैव निशामुखे।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्पर:॥१८॥
नैवेद्यं भक्तितो दद्यात् सपादं भक्तिसंयुतम्।
रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम्॥ १९॥
अभावे शालिचूर्णं वा शर्करा वा गुडं तथा।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥२०॥
विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनै: सह।
ततश्च बन्धुभि: सार्धं विप्रांश्च प्रतिभोजयेत्॥२१॥
प्रसादं भक्षयेद् भक्त्यानृत्यगीतादिकं चरेत्।
ततश्च स्वगृहं गच्छेत् सत्यनारायणं स्मरन्॥ २२॥
एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद् ध्रुवम्।
विशेषत: कलियुगे लघूपायोऽस्ति भूतले॥२३॥
॥ इति श्री स्कन्दपुराणे रेवाखण्डे सूत-शौन-संवादे
सूत उवाच-
यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ॥१॥
कियद् दूरे गते साधौ सत्यनारायण: प्रभु:।
जिज्ञासां कृतवान् साधो! किमस्ति तव नौ स्थितम्॥२॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै।
कथं पृच्छसि भो दण्डिन्! मुद्रां नेतुं किमिच्छसि॥३॥
लता-पत्रादिकं चैव वर्तते तरणौ मम।
निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच:॥४॥
एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत:।
कियद्दूरे ततो गत्वा स्थित: सिन्धुसमीपत:॥५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा।
उत्थितां तरणीं ट्टष्ट्वा विस्मयं परमं ययौ ॥६॥
दृष्ट्वा लतादिकं चैव मूच्र्छितो न्यपतद् भुवि।
लब्धसंज्ञो वणिक् पुत्रास्ततश्चिन्ताऽन्वितोऽभवत्॥७॥
तदा तु दुहितु: कान्तो वचनं चेदमब्रवीत्।
किमर्थं क्रियते शोक: शापो दत्तश्च दण्डिना॥८॥
शक्यतेऽनेन सर्वं हि कर्तुं चात्रा न संशय:।
अतस्तच्छरणं याहि वञ्छितार्थो भविष्यति ॥९॥
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा॥
द्दष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्॥१०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ॥
एवं पुन: पुनर्नत्वा महाशोकाऽऽकुलोऽभवत्॥११॥
प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च।
मारोदी: श्रृणु मद्वाक्यं मम पूजाबहिर्मुख:॥१२॥
ममाऽऽज्ञया च दुर्बुद्धे! लब्धं दु:खं मुहुर्मुहु:।
तच्छ्रुत्वा भगवद् वाक्यं व्रतं कर्तुं समुद्यत:॥१३॥
साधुरुवाच-
त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस:।
न जानन्ति गुणान् रूपं तवाऽऽश्चर्यर्ममिदं प्रभो॥१४॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया।
प्रसीद पूजमिष्यामि यथाविभवविस्तरै:॥१५॥
पुरा वित्तैश्च तत्सर्वै: पाहि मां शरणागतम्।
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन:॥१६॥
वरं च वाञ्छितं दत्त्वा तत्रौवाऽन्तर्दधे हरि:।
ततो नौकां समारुह्य दृष्ट्वा वित्तप्रपूरिताम्॥१७॥
कृपया सत्यदेवस्य सफलं वाञ्छितं मम।
इत्युक्त्वा स्वजनै: सार्धं पूजां कृत्वा यथाविधि॥१८॥
हर्षेण चाऽभवत्पूर्ण: सत्यदेवप्रसादत:।
नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्॥१९॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम्॥२०॥
दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च।
प्रोवाच वाञ्छितंवाक्यं नत्वा बद्धाजलिस्तदा॥२१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक्।
आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत:॥२२॥
श्रुत्वा दूतमुखाद् वाक्यं महाहर्षवती सती।
सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति॥२३॥
ब्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च।
इति मातृवच: श्रुत्वा व्रतं कृत्वा समासत:॥२४॥
प्रसादं च परित्यज्य गता साऽपि पतिं प्रति।
तेन रुष्ट: सत्यदेवो भर्तारं तरणीं तथा॥२५॥
संहृत्य च धनै: सार्धं जले तस्मिन्नमज्जयत्।
तत: कलावती कन्या न विलोक्य निजं पतिम्॥२६॥
शोकेन महता तत्र रुदती चाऽपतद् भुवि।
दृष्ट्वा तथाविधां नौकां कन्यां च बहुदु:खिताम् ॥२७॥
भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् ,
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका:॥२८॥
ततो लीलावती कन्या दृष्ट्वा सा विह्नलाऽभवत्।
विललापऽतिदु: खेन भर्तारं चेदमब्रतीत्॥२९॥
इदानीं नौकया सार्धं कथं सोऽभूदलक्षित:।
न जाने कस्य देवस्य हेलया चैव सा हृता॥३०॥
सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते।
इत्युक्त्वा विलालपैवं ततश्च स्वजनै: सह॥३१॥
ततौ लीलावती कन्या क्रोडे कृत्वा रुरोद ह।
तत: कलावती कन्या नष्टे स्वामिनि दु:खिता॥३२॥
गृहीत्वा पादुकां तस्याऽनुगन्तुं च मनोदधे।
कन्यायाश्चरितं दृष्ट्वा सभार्य: सज्जनो वणिक्॥३३॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्।
हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरम्।
इति सर्वान् समाहूय कथयित्वा मनोरथम्॥३५॥
नत्वा च दण्डवद् भूमौ सत्यदेवं पुन: पुन:।
ततस्तुष्ट: सत्यदेवो दीनानां परिपालक:॥३६॥
जगाद वचनं चैनं कृपया भक्तवत्सल:।
त्यक्त्त्वा प्रसादं ते कन्या पतिं दुरष्टुं समागता॥३७॥
अतोऽदृष्टोभवत्तस्या: कन्यकाया: पतिध्र्रुवम्।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन:॥३८॥
लब्धभत्ररी सुता साधो! भविष्यति न संशय:।
कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्॥३९॥
क्षिपंर तदा गृहं गत्वा प्रसादं च बुभोज सा।
तत् पश्चात्पुनरागत्य सा ददर्श निजं पतिम्॥४०॥
तत: कलावती कन्या जगाद पितरं प्रति।
इदानीं च गृहं याहि विलम्बं कुरुषे कथम्॥४१॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद वणिक्सुत:।
पूजनं सत्यदेवस्य कृत्वा विधिविधानत:॥४२॥
धनैर्बन्धुगणै: सार्धं जगाम निजमन्दिरम्॥
पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यपूजनम्॥
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥४३॥
सत्यनारायण-व्रत कथायां प्रथमोऽध्याय:॥
।। अथ द्वितीयोऽध्याय: ।।
सूत उवाच-
अथाऽन्यत् सम्प्रवक्ष्यामि कृतं येन पुरा व्रतम्।
कश्चित् काशीपुरे रम्ये ह्यासीद् विप्रोऽतिनिर्धन:॥१॥
क्षुत्तृड्भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले।
दु:खितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रिय:॥२॥
वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात्।
किमर्थं भ्रमसे विप्र! महीं नित्यं सुदु: खित: ॥३॥
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम!।
ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम् ।
उपायं यदि जानासि कृपया कथय प्रभो! ।। ४ ।।
वृद्धब्राह्मण उवाच-
सत्यनारायणो विष्णुर्वछितार्थफलप्रद:॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम्।
यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥५॥
विधानं च व्रतस्यास्य विप्रायाऽऽभाष्य यत्नत:।
सत्यनारायणोवृद्ध-स्तत्रौवान्तर धीयत॥६॥
तद् व्रतं सङ्करिष्यामि यदुक्तं ब्राह्मणेन वै।
इति सचिन्त्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान्॥७॥
तत: प्रात: समुत्थाय सत्यनारायणव्रतम्।
करिष्य इति सङ्कल्प्य भिक्षार्थमगद् द्विज:॥८॥
तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान्।
तेनैव बन्धुभि: साद्र्धं सत्यस्य व्रतमाचरत्॥९॥
सर्वदु:खविनिर्मुक्त: सर्वसम्पत् समन्वित:।
बभूव स द्विज-श्रेष्ठो व्रतास्यास्य प्रभावत:॥१०॥
तत: प्रभृतिकालं च मासि मासि व्रतं कृतम्।
एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम:॥११॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान्।
व्रतमस्य यदा विप्रा: पृथिव्यां सचरिष्यन्ति॥१२॥
तदैव सर्वदु:खं च मनुजस्य विनश्यति।
एवं नारायणेनोक्तं नारदाय महात्मने ।
मया तत्कथितं विप्रा: किमन्यत् कथयामि व:।। १३ ।।
ऋषय ऊचु:-
तस्माद् विप्राच्छुरतं केन पृथिव्यां चरितं मुने।
तत्सर्वं श्रोतुमिच्छाम:श्रद्धाऽस्माकं प्रजायते॥ १४
सूत उवाच-
श्रृणुध्वं मुनय:सर्वे व्रतं येन कृतं भुवि।
एकदा स द्विजवरो यथाविभवविस्तरै:॥१५॥
बन्धुभि: स्वजैन: सार्ध व्रतं कर्तुं समुद्यत:।
एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत्॥१६॥
बहि: काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ।
तृष्णया पीडितात्मा च दृष्ट्वा विप्रकृतं व्रतम् ॥१७॥
प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया।
कृते किं फलमाप्नोति विस्तराद् वद मे प्रभो! ॥१८॥
विप्र उवाच-
सत्यनाराणस्येदं व्रतं सर्वेप्सित- प्रदम्।
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत्॥१९॥
तस्मादेतत् ब्रतं ज्ञात्वा काष्ठक्रेतातिहर्षित:।
पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ॥२०॥
सत्यनारायणं देवं मनसा इत्यचिन्तयत्।
काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम्॥२१॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम्।
इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके॥२२॥
जगाम नगरे रम्ये धनिनां यत्र संस्थिति:।
तद्दने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ॥२३॥
तत: प्रसन्नहृदय: सुपक्वं कदलीफलम्।
शर्करा-घृत-दुग्धं च गोधूमस्य च चूर्णकम् ॥२४॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ।
ततो बन्धून् समाहूय चकार विधिना व्रतम्॥२५॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्।
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥२६॥

॥इति श्री स्कन्दपुराणे रेवाखण्डे सूत शौनकसंवादे
सत्यनारायण व्रतकथायां द्वितीयोऽध्याय:॥
।। अथ तृतीयोऽध्याय: ।।
सूत उवाच-
पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा:।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामति:॥१॥
जितेन्द्रिय: सत्यवादी ययौ देवालयं प्रति।
दिने दिने धनं दत्त्वा द्विजान् सन्तोषयत् सुधी:॥२॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती।
भद्रशीलानदीतीरे सत्यस्य व्रतमाचरत्॥३॥
एतस्मिन् समये तत्र साधुरेक: समागत:।
वाणिज्यार्थं बहुधनैरनेकै: परिपूरिताम् ॥४॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति।
दृष्ट्वा स व्रतिनं भूपं पप्रच्छ विनयान्वित:॥५॥
साधुरुवाच-
किमिदं कुरुषे राजन्! भक्तियुक्तेन चेतसा।
प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम्॥६॥
राजोवाच-
पूजनं क्रियते साधो! विष्णोरतुलतेजस: ।
व्रतं च स्वजनै: सार्धं पुत्राद्यावाप्तिकाम्यया॥७॥
भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम्।
सर्वं कथय में राजन्! करिष्येऽहं तवोदितम्॥८॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम्।
ततो निवृत्य वाणिज्यात् सानन्दो गृहमागत:॥९॥
भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम्।
तदा व्रतं करिष्यामि यदा में सन्ततिर्भवेत् ॥१०॥
इति लीलावती प्राह स्वपत्नीं साधुसत्तम:।
एकस्मिन् दिवसे तस्य भार्या लीलावती सती॥११॥
भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा।
गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत: ॥१२॥
दशमे मासि वै तस्या: कन्यारत्नमजायत।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी॥१३॥
नाम्ना कलावती चेति तन्नामकरणं कृतम्।
ततो लीलावती प्राह स्वामिनं मधुरं वच:॥
न करोषि किमर्थं वै पुरा सङ्कल्पितं व्रतम्।। १४ ।।
साधुरुवाच-
विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये!॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति।
तत: कलावती कन्या वृधपितृवेश्मनि॥१५॥
दृष्ट्वा कन्यां तत: साधुर्नगरे सखिभि: सह।
मन्त्रायित्वा दुरतं दूतं प्रेषयामास धर्मवित्॥१६॥
विवाहार्थं च कन्याया वरं श्रेष्ठ विचारय।
तेनाऽऽज्ञप्तश्च दूतोऽसौ काचनं नगरं ययौ ॥१७॥
तस्मादेकं वणिक्पुत्रां समादायाऽऽगतो हि स:।
दृष्ट्वा तु सुन्दरं बालं वणिक्पुत्रां गुणान्वितम्॥१८॥
ज्ञातिभि-र्बन्धुभि: सार्धं परितुष्टेन चेतसा।
दत्तवान् साधुपुत्रााय कन्यां विधि-विधानत: ॥१९॥
ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्।
विवाहसमये तस्यास्तेन रुष्टोऽभवत् प्रभु: ॥२०॥
तत: कालेन नियतो निजकर्मविशारद:।
वाणिज्यार्थं तत: शीघ्रं जामातृसहितो वणिक्॥२१॥
रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपत:।
वाणिज्यमकरोत् साधुर्जामात्रा श्रीमता सह॥ २२॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च।
एतस्मिन्नेव काले तु सत्यनारायण: प्रभु: ॥२३॥
भ्रष्टप्रतिज्ञमा-लोक्य शापं तस्मै प्रदत्तवान्।
दारुणं कठिनं चास्य महद्दु:खं भविष्यिति॥२४॥
एकस्मिन् दिवसे राज्ञो धनमादाय तस्कर:।
तत्रौव चागतश्चौरौ वणिजौ यत्र संस्थितौ॥२५॥
तत्पश्चाद् धावकान् दूतान् दृष्ट्वा भीतेन चेतसा।
धनं संस्थाप्य तत्रौव स तु शिघ्रमलक्षित:॥२६॥
ततो दूता: समायाता यत्रास्ते सज्जनो वणिक्।
द्दष्ट्वा नृपधनं तत्र बद्ध्वाऽ ऽनीतौ वणिक्सुतौ॥२७॥
हर्षेण धावमानाश्च ऊचुर्नृपसमीपत:।
तस्करौ द्वौ समानीतौ विलोक्याऽऽज्ञापय प्रभो॥२८॥
राज्ञाऽऽज्ञप्तास्तत: शीघ्रं दृढं बद्ध्वा तु तावुभौ।
स्थापितौ द्वौ महादुर्गे कारागारेऽविचारत:॥२९॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच:।
अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना॥३०॥
तच्छापाच्च तयोर्गेहे भार्या चैवातिदु:खिता।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्॥३१॥
आधिव्याधिसमायुक्ता क्षुत्पिपसातिदु:खिता।
अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे॥३२॥
कलावती तु कन्यापि बभ्राम प्रतिवासरम्।
एकस्मिन् दिवसे जाता क्षुधार्ता द्विजमन्दिरम् ॥३३॥
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च।
उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाछितम्॥३४॥
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति।
माता लीलावती कन्यां कथयामास प्रेमत:॥३५॥
पुत्रि रात्रौ स्थिता कुत्रा किं ते मनसि वर्तते।
कन्या कलावती प्राह मातरं प्रति सत्वरम्॥३६॥
द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम्।
तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तु समुद्यता॥३७॥
सा तदा तु वणिग्भार्या सत्यनारायणस्य च।
व्रतं चक्रे सैव साध्वी बन्धुभि: स्वजनै: सह॥३८॥
भर्तृ-जामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम्।
इति दिव्यं वरं बब्रे सत्यदेवं पुन: पुन:॥३९॥
अपराधं च मे भर्तुर्जामातु: क्षन्तुमर्हसि।
व्रतेनानेन तुष्टोऽसौ सत्यनारायण: पुन:॥४०॥
दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम्।
वन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम!॥४१॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना।
नो चेत् त्वा नाशयिष्यामि सराज्यं-धन-पुत्रकम्॥४२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभु:।
तत: प्रभातसमये राजा च स्वजनै: सह॥४३॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति॥
बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ॥४४॥
इति राज्ञो वच: श्रुत्वा मोचयित्वा महाजनौ।
समानीय नृपस्याऽग्रे प्राहुस्ते विनयान्विता:॥४५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्त्वा निगडबन्धनात्।
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम्॥४६॥
स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविद्दलौ।
राजा वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम्॥४७॥
दैवात् प्राप्तं महद्दु:खमिदानीं नास्ति वै भयम्।
तदा निगडसन्त्यागं क्षौरकर्माऽद्यकारयत्॥४८॥
वस्त्रालङ्कारकं दत्त्वा परितोष्य नृपश्च तौ।
पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोच्चयद् भृशम्॥४९॥
पुराऽऽनीतं तु यद् द्रव्यं द्विगुणीकृत्य दत्तवान्।
प्रोवाच तौ ततो राजा गच्छ साधो! निजाश्रमम्॥५०॥
राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादत:।
इत्युक्त्वा तौ महावैश्यौ जग्मतु: स्वगृहं प्रति॥५१॥

॥ इति श्री स्कन्दपुराणे रेवाखण्डे सूतशौनकसंवादे
सत्यनारायणव्रतकथायां तृतीयोध्याय:॥
।। अथ चतुर्थोऽध्याय: ।।
सूत उवाच-
यात्रां तु कृतवान् साधुर्मङ्गलायनपूर्विकाम्।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ॥१॥
कियद् दूरे गते साधौ सत्यनारायण: प्रभु:।
जिज्ञासां कृतवान् साधो! किमस्ति तव नौ स्थितम्॥२॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै।
कथं पृच्छसि भो दण्डिन्! मुद्रां नेतुं किमिच्छसि॥३॥
लता-पत्रादिकं चैव वर्तते तरणौ मम।
निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच:॥४॥
एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत:।
कियद्दूरे ततो गत्वा स्थित: सिन्धुसमीपत:॥५॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा।
उत्थितां तरणीं ट्टष्ट्वा विस्मयं परमं ययौ ॥६॥
दृष्ट्वा लतादिकं चैव मूच्र्छितो न्यपतद् भुवि।
लब्धसंज्ञो वणिक् पुत्रास्ततश्चिन्ताऽन्वितोऽभवत्॥७॥
तदा तु दुहितु: कान्तो वचनं चेदमब्रवीत्।
किमर्थं क्रियते शोक: शापो दत्तश्च दण्डिना॥८॥
शक्यतेऽनेन सर्वं हि कर्तुं चात्रा न संशय:।
अतस्तच्छरणं याहि वञ्छितार्थो भविष्यति ॥९॥
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा॥
द्दष्ट्वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्॥१०॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ॥
एवं पुन: पुनर्नत्वा महाशोकाऽऽकुलोऽभवत्॥११॥
प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च।
मारोदी: श्रृणु मद्वाक्यं मम पूजाबहिर्मुख:॥१२॥
ममाऽऽज्ञया च दुर्बुद्धे! लब्धं दु:खं मुहुर्मुहु:।
तच्छ्रुत्वा भगवद् वाक्यं व्रतं कर्तुं समुद्यत:॥१३॥
साधुरुवाच-
त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस:।
न जानन्ति गुणान् रूपं तवाऽऽश्चर्यर्ममिदं प्रभो॥१४॥
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया।
प्रसीद पूजमिष्यामि यथाविभवविस्तरै:॥१५॥
पुरा वित्तैश्च तत्सर्वै: पाहि मां शरणागतम्।
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन:॥१६॥
वरं च वाञ्छितं दत्त्वा तत्रौवाऽन्तर्दधे हरि:।
ततो नौकां समारुह्य दृष्ट्वा वित्तप्रपूरिताम्॥१७॥
कृपया सत्यदेवस्य सफलं वाञ्छितं मम।
इत्युक्त्वा स्वजनै: सार्धं पूजां कृत्वा यथाविधि॥१८॥
हर्षेण चाऽभवत्पूर्ण: सत्यदेवप्रसादत:।
नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्॥१९॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम्॥२०॥
दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च।
प्रोवाच वाञ्छितंवाक्यं नत्वा बद्धाजलिस्तदा॥२१॥
निकटे नगरस्यैव जामात्रा सहितो वणिक्।
आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत:॥२२॥
श्रुत्वा दूतमुखाद् वाक्यं महाहर्षवती सती।
सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति॥२३॥
ब्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च।
इति मातृवच: श्रुत्वा व्रतं कृत्वा समासत:॥२४॥
प्रसादं च परित्यज्य गता साऽपि पतिं प्रति।
तेन रुष्ट: सत्यदेवो भर्तारं तरणीं तथा॥२५॥
संहृत्य च धनै: सार्धं जले तस्मिन्नमज्जयत्।
तत: कलावती कन्या न विलोक्य निजं पतिम्॥२६॥
शोकेन महता तत्र रुदती चाऽपतद् भुवि।
दृष्ट्वा तथाविधां नौकां कन्यां च बहुदु:खिताम् ॥२७॥
भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत् ,
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका:॥२८॥
ततो लीलावती कन्या दृष्ट्वा सा विह्नलाऽभवत्।
विललापऽतिदु: खेन भर्तारं चेदमब्रतीत्॥२९॥
इदानीं नौकया सार्धं कथं सोऽभूदलक्षित:।
न जाने कस्य देवस्य हेलया चैव सा हृता॥३०॥
सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते।
इत्युक्त्वा विलालपैवं ततश्च स्वजनै: सह॥३१॥
ततौ लीलावती कन्या क्रोडे कृत्वा रुरोद ह।
तत: कलावती कन्या नष्टे स्वामिनि दु:खिता॥३२॥
गृहीत्वा पादुकां तस्याऽनुगन्तुं च मनोदधे।
कन्यायाश्चरितं दृष्ट्वा सभार्य: सज्जनो वणिक्॥३३॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्।
हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥३४॥
सत्यपूजां करिष्यामि यथाविभवविस्तरम्।
इति सर्वान् समाहूय कथयित्वा मनोरथम्॥३५॥
नत्वा च दण्डवद् भूमौ सत्यदेवं पुन: पुन:।
ततस्तुष्ट: सत्यदेवो दीनानां परिपालक:॥३६॥
जगाद वचनं चैनं कृपया भक्तवत्सल:।
त्यक्त्त्वा प्रसादं ते कन्या पतिं दुरष्टुं समागता॥३७॥
अतोऽदृष्टोभवत्तस्या: कन्यकाया: पतिध्र्रुवम्।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन:॥३८॥
लब्धभत्ररी सुता साधो! भविष्यति न संशय:।
कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्॥३९॥
क्षिपंर तदा गृहं गत्वा प्रसादं च बुभोज सा।
तत् पश्चात्पुनरागत्य सा ददर्श निजं पतिम्॥४०॥
तत: कलावती कन्या जगाद पितरं प्रति।
इदानीं च गृहं याहि विलम्बं कुरुषे कथम्॥४१॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद वणिक्सुत:।
पूजनं सत्यदेवस्य कृत्वा विधिविधानत:॥४२॥
धनैर्बन्धुगणै: सार्धं जगाम निजमन्दिरम्॥
पौर्णमास्यां च सङ्क्रान्तौ कृतवान् सत्यपूजनम्॥
इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥४३॥
॥ इति श्री सकन्दपुराणे रेवाखण्डे सूतशौनकसंवादे
सत्यनारायणव्रतकथायां चतुर्थोऽध्याय:॥
।। अथ पञ्चमोऽध्याय: ।।
सूत उवाच-
अथान्यत् संप्रवक्ष्यामि श्रृणध्वं मुनिसत्तमा:।
आसीत् तुङ्गध्वजो राजा प्रजापालनतत्पर:॥१॥
प्रसादं सत्यदेवस्य त्यक्त्त्वा दु:खमवाप स:।
एकदा स वनं गत्वा हत्वा बहुविधान् पशून्॥२॥
आगत्य वटमूलं च दृष्ट्वा सत्यस्य पूजनम्।
गोपा: कुर्वन्ति सन्तुष्टा भक्तियुक्ता: सबन्धवा:॥३॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम स:।
ततो गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥४॥
संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम्।
तत: प्रसादं संत्यज्य राजा दु:खमवाप स:॥५॥
तस्य पुत्राशतं नष्टं धनधान्यादिकं च यत्।
सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम्॥६॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनन्।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ॥७॥
ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृप:॥८॥
सत्यदेवप्रसादेन धनपुत्राऽन्वितोऽभवत्।
इह लोके सुखं भुक्त्वा पश्चात् सत्यपुरं ययौ॥९॥
य इदं कुरुते सत्यव्रतं परम दुर्लभम्।
श्रृणोति च कथां पुण्यां भक्तियुक्तां फलप्रदाम्॥१०॥
धनधान्यादिकं तस्य भवेत् सत्यप्रसादत:।
दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात्॥११॥
भीतो भयात् प्रमुच्येत सत्यमेव न संशय:।
ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं ब्रजेत्॥१२॥
इति व: कथितं विप्रा: सत्यनारायणव्रतम्।
यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव:॥१३॥
विशेषत: कलियुगे सत्यपूजा फलप्रदा।
केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च॥१४॥
सत्यनारायणं केचित् सत्यदेवं तथापरे।
नाना रूपधरो भूत्वा सर्वेषामीप्सितप्रद:॥१५॥
भविष्यति कलौ सत्यव्रतरूपी सनातन:।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम्॥१६॥
श्रृणोति य इमां नित्यं कथा परमदुर्लभाम्।
तस्य नश्यन्ति पापानि सत्यदेव प्रसादत:॥१७॥
व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च।
तेषां त्वपरजन्मानि कथयामि मुनीश्वरा:॥१८॥
शतानन्दो महा-प्राज्ञ: सुदामा ब्राह्मणोऽभवत्।
तस्मिन् जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह॥१९॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह।
तस्मिन् जन्मनि श्रीरामसेवया मोक्षमाप्तवान्॥२०॥
उल्कामुखो महाराजो नृपो दशरथो-ऽभवत्।
श्रीरङ्नाथं सम्पूज्य श्रीवैकुण्ठं तदाऽगमत्॥२१॥
धार्मिक: सत्यसन्धश्च साधुर्मोरध्वजोऽभवत्।
देहार्धं क्रकचैश्छित्वा दत्त्वा मोक्षमवाप ह॥२२॥
तुङ्गध्वजो महाराजः स्वायभ्मुरभवत् किल।
सर्वान् भागवतान् कृत्वा श्रीवैकुण्ठं तदाऽगमत्॥२३॥

No comments:
Post a Comment