ॐ अस्य श्रीविष्णुमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः। अनुष्टुप् छन्दः॥
श्रीविष्णुमृत्युंञ्जयो देवता॥ लक्ष्मी शक्तिः॥ मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च पाठे विनियोगः ॥
|| प्रार्थना ||
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
|| अथ विष्णुमृत्युन्जयस्तोत्र प्रारम्भः ||
मार्कण्डेय उवाच
नारायणं सहस्त्राक्षं पद्मनाभं पुरातनम् ।
प्रपन्नोSस्मि हृषीकेशं कि नो मृत्यु: करिष्यति ।। १ ।।
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवं च प्रपन्नोSस्मि कि नो मृत्यु: करिष्यति ।। २ ।।
वासुदेवं जगद्योनिं भानुवर्णमतीन्दृयम् ।
दामोदरं प्रपन्नोSस्मि कि नो मृत्यु: करिष्यति ।। ३ ।।
शंख चक्रधरं देवं छन्दोरुपिणमव्ययम् ।
अधोक्षजं प्रपन्नोsस्मि कि नो मृत्यु: करिष्यति ।। ४ ।।
वराहं वामनं विष्णुं नारसिंहं जनार्दनम् ।
माधवं च प्रपन्नोsस्मि कि नो मृत्यु: करिष्यति ।।५ ।।
पुरुषं पुष्कर पुण्यं क्षेमबीजं जगत्पतिम् ।
लोकनाथं प्रपन्नोsस्मि कि नो मृत्यु: करिष्यति ।। ६ ।।
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरुपं प्रपन्नोsस्मि कि नो मृत्यु: करिष्यति ।। ७ ।।
सहस्त्रशीरषं देवं व्यक्ताsव्यक्तं सनातनम् ।
महायोगं प्रपन्नोsस्मि कि नो मृत्यु: करिष्यति ।। ८ ।।
|| फलश्रुती: ||
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मन: ।
अपयातस्ततो मृत्युर्विष्णुदुतैश्च पीडित: ।। ९ ।।
इत्येन विजितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ।। १० ।।
मृत्युष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेय-- हितार्थाय स्वयं विष्णुरुवाच ह ।। ११ ।।
य इदं पठते भक्त्या त्रिकाले नियत: शुचि: ।
नाsकाले तस्य मृत्यु: स्यान् नरस्याsच्युतचेतस: ।। १२ ।।
हृत्पद्ममध्ये पुरुषं पुरातनं । नारायणं शाश्वतमादिदेवम् ।
सञ्चिन्त्य सूर्यादि विराजमानं । मृत्युं स योगी जितवांस्तदैव ।। १३ ।।
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमोनम: ।।
संकलित- केशव शरण लुईटेल
संवत- २०७४-०६-१४ गते शनिवार
विजया दशमी को अवसरमा
संकलित- केशव शरण लुईटेल
संवत- २०७४-०६-१४ गते शनिवार
विजया दशमी को अवसरमा
No comments:
Post a Comment