अथ तन्त्रोक्त श्रीलक्ष्मी कवचम्
ॐ अस्य श्रीलक्ष्मीकवचस्तोत्रस्य, श्रीईश्वरो देवता,अनुष्टुप छन्द: श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोग:
ॐ लक्ष्मी मे चाग्रत: पातु कमला पातु पृष्ठत: ।
नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरुपिणी ।। १ ।।
रामपत्नी तु प्रत्यङ्गे सदाsवतु शमेश्वरी ।
विशालाक्षी योगमाया कौमारी चकृणी तथा ।। २ ।।
जयदात्री धनदात्री पाशाक्षमालिनी शुभा ।
हरिप्रिया हरिरामा जयङ्करी महोदरी ।। ३ ।।
कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी ।
जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ।। ४ ।।
सुखदा मोक्षदा देवी चित्रकूटनिवासिनी ।
भयं हरतु भक्तानां भवबन्धं विमुच्यतु ।। ५ ।।
फलश्रुति:
कवचं तन्महापुण्यं य: पठेद्भक्तिसंयुत: ।
त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ।। ६ ।।
एतत्कवच पठनं धनपुत्रविवर्धनम् ।
भीतिर्विनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ।। ७ ।।
भूर्जपत्रे समालिख्य रोचनाकुङ्कमेन तु ।
धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ।। ८ ।।
अपुत्रो लभते पुत्र धनार्थी लभते धनम् ।
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादत: ।। ९ ।।
गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् ।
धारयद्यपि कण्ठे च अथवा वामबाहुके ।। १० ।।
य: पठेन्नियतं भक्त्या स एव विष्णुवद्भवेत् ।
मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ।। ११ ।।
पठेद्वा पाठयेद्वाsपि श्रृणुयाच्छ्रावयेद्यदि ।
सर्वपापविमुक्तस्तु लभते परमां गतिम् ।। १२ ।।
सङ्कटे विपदे घोरे तथा च गहने वने ।
राजद्वारे च नौकायां तथा च रणमध्यत: ।। १३ ।।
पठनाद्धारणादस्य जयमाप्नोति निश्चितम् ।
अपुत्रा च तथा वन्ध्या त्रिपक्षं श्रृणुयाद्यदि ।। १४ ।।
सपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् ।
श्रृणुयाद्य: शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रत: ।। १५ ।।
सर्वान्कामानवाप्नोति सर्वबाधाद्विमुच्यते ।
मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ।। १६ ।।
रोगी रोगद्विमुच्येत पठनान्मासमध्यत: ।
लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ।। १७ ।।
स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् ।
श्रृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ।। १८ ।।
य: पुमान्सततं तस्मिन्प्रसन्ना: सर्वदेवता: ।
बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ।। १९ ।।
आद्या शक्तिर्महालक्ष्मीर्भक्तानुग्रहकारिणी ।
धारके च गृहस्थाने निश्चला निवसेद् ध्रुवम् ।। २० ।।
No comments:
Post a Comment