Monday, October 30, 2017

Samkshipta Tulasipooja and Kawach Stotram संक्षिप्त तुलसी पूजा एवं कवच स्तोत्रम्


                                                                                                                                                                                                                      
 || संक्षिप्त तुलसी पूजा एवं कवच स्तोत्र पाठ ||




संक्षिप्त गणेश, दिपक, कलश, को पूजा गरेर तुलसी को निम्न मन्त्र द्वारा पूजन गर्नु | विशेष एकादशी तिथिमा पूजाको  लागि आवस्यक स्तोत्र हरु  |

तुलसी प्रार्थना

महाप्रसाद जननी, सर्व सौभाग्यवर्धिनी
आधि व्याधि हरा नित्यं, तुलसी त्वं नमोस्तुते।।

पूजा गर्ने श्लोक

देवी त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः
नमो नमस्ते तुलसी पापं हर हरिप्रिये।।

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी।
धर्म्या धर्मानना देवी देवीदेवमन: प्रिया।।

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।
तुलसी भूर्महालक्ष्मी: पद्मिनी श्रीर्हरप्रिया।।

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी।
धर्म्या धर्मानना देवी देवीदेवमन: प्रिया।।

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत्।
तुलसी भूर्महालक्ष्मी: पद्मिनी श्रीर्हरप्रिया।।

तुलसी वैष्णवी वृन्दा पत्रपुस्पा हरिप्रिया |
सुभागा पावनी पुण्या पवित्रा सुरमन्जरी ||

ॐ सौभाग्यं सन्ततिं देवि धनं धान्यं च मे सदा ।





आरोग्यशोकशमनं   कुरु   मे   माधवप्रिये ।।

अभीष्टफलसिद्धिं  च  सदा देहि हरिप्रिये ।
देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनिश्वरै: ।।

अतो मां सर्वदा भक्त्या कृपादृष्ट्या विलोकय ।
पतेरायुष्यभाग्यं च सदा देवि हरिप्रिये ।।

पूतनाभयसंत्रासाद्रक्षितश्च यथा हरि: ।
तथा   संसारसन्त्रासाद्रक्ष   मे   वंशमुत्तमम् ।।







॥ अथ श्री तुलसी स्तोत्रम्‌ ॥

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥१२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥

|| इति श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् ॥

||तुलसी कवचम् ||

अस्य श्री तुलसीकवच स्तोत्रमंत्रस्य I

श्री महादेव ऋषिः I अनुष्टुप्छन्दः I

श्रीतुलसी देवता I मन ईप्सितकामनासिद्धयर्थं पाठे विनियोगः I

तुलसी श्रीमहादेवि नमः पंकजधारिणी I
शिरो मे तुलसी पातु भालं पातु यशस्विनी ||१ ||

दृशौ मे पद्मनयना श्रीसखी श्रवणे मम I
घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम II २ II

जिव्हां मे पातु शुभदा कंठं विद्यामयी मम I
स्कंधौ कह्वारिणी पातु हृदयं विष्णुवल्लभा II ३ II

पुण्यदा मे पातु मध्यं नाभि सौभाग्यदायिनी I
कटिं कुंडलिनी पातु ऊरू नारदवंदिता II ४ II

जननी जानुनी पातु जंघे सकलवंदिता I
नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी II ५ II

संकटे विषमे दुर्गे भये वादे महाहवे I
नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा II ६ II

इतीदं परमं गुह्यं तुलस्याः कवचामृतम् I
मर्त्यानाममृतार्थाय भीतानामभयाय च II ७ II

मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् I
वशाय वश्यकामानां विद्यायै वेदवादिनाम् II ८ II

देवी त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः
नमो नमस्ते तुलसी पापं हर हरिप्रिये।। || ९ ||

अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् I
पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षिणाम् II १० II

राज्यायभ्रष्टराज्यानामशांतानां च शांतये I
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वांतरात्मनि II ११ II

जाप्यं त्रिवर्गसिध्यर्थं गृहस्थेन विशेषतः I
उद्यन्तं चण्डकिरणमुपस्थाय कृतांजलिः II १२ II

तुलसीकानने तिष्टन्नासीनौ वा जपेदिदम् I
सर्वान्कामानवाप्नोति तथैव मम संनिधिम् II १३ II

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् I
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत् II १४ II

सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् I
वंध्याया मार्जयेदंगं कुशैर्मंत्रेण साधकः II १५ II

साSपिसंवत्सरादेव गर्भं धत्ते मनोहरम् I
अश्वत्थेराजवश्यार्थी जपेदग्नेः सुरुपभाक II १६ II

पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः I
कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम II १७ II

श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् I
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः II १८ II

यं यं काममभिध्यायेत्त तं प्राप्नोत्यसंशयम् I
मम गेहगतस्त्वं तु तारकस्य वधेच्छया II १९ II

जपन् स्तोत्रं च कवचं तुलसीगतमानसः I
मण्डलात्तारकं हंता भविष्यसि न संशयः II २० II

II इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसीकवचं नाम स्तोत्रं श्रीतुलसी देवीं समर्पणमस्तु II


संकलन- केशव शरण लुईटेल 
२०७४-०७-१४ गते मंगलबार
हरिबोधिनी एकादशी को अवसरमा 





No comments:

Post a Comment