श्रीशिवमहामृत्युञ्जय स्तुति
प्रारम्भः
कैलासस्योत्तरे श्रृङ्गे शुद्धस्फटिकसन्निभे ।
तमोगुण्विहीने तु जरामृत्युविवर्जिते ।। १ ।।
सर्वार्थसम्पदाधारे सर्वज्ञानकृतालये ।
कृताञ्जलिपुटो ब्रह्मा ध्यानासीनं सदाशिवम् ।। २ ।।
पप्रच्छ्प्रणतो भूत्वा जानुभ्यामवनिं गत: ।
सर्वार्थसम्पदाधार ब्रह्मलोक पितामह: ।। ३ ।।
।। ब्रह्मोवाच: ।।
केनोपायेन देवेश चिरायुर्लोमशोsभवेत् ।।
तन्मे ब्रुहि महेशान लोकानां हितकाम्यया ।। ४ ।।
।। श्रीसदाशिव उवाच: ।।
श्रृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तम: ।
संजात: कर्मणा येन व्याधिमृत्युविवर्जित: ।। ५ ।।
तस्मिन्नेकार्णवे घोरे सलिलौघ परिप्लुते ।
कृतान्तभयनाशायस्तुतोमृत्युञ्जय: शिव: ।। ६ ।।
तस्य संकीर्तनान्नित्यं मुनिर्मृत्युविवर्जित: ।
तमेवकीर्तयन्ब्रह्मन्मृत्युं जेतुं न संशय ।। ७ ।।
।।अथ महामृत्युञ्जय स्तुति प्रारभ्यते ।।
।। लोमश उवाच: ।।
ॐ देवाधिदेव ! देवेश ! सर्वप्राणभृताम्बर ।
प्राणीनामपिनाथस्त्वं मृत्युञ्जय नमोस्तु ते ।। ८ ।।
देहिनां जीवभूतोsसि जीवोजीवस्य कारणम् ।
जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोस्तु ते ।। ९ ।।
हेमामादृशिखराकारसुधावीचिमनो हरे ।
पुण्डरीकपरं ज्योतिर्मृत्युञ्जय नमोस्तु ते ।। १० ।।
ध्यानाधारमहाज्ञान सर्वज्ञानैककारण ।
परित्राणासि लोकानां मृत्युञ्जय नमोस्तु ते ।। ११ ।।
निहता येन कालेन स देवासुरमानुषा: ।
गन्धर्वाप्सरसश्चैव सिद्धविद्याधरस्त था ।। १२ ।।
साध्याश्च वशवो रुद्रास्तथाश्विनिसुतावुभौ ।
मरुतश्च दिशो नागा: स्थावरा जंगमास्तथा
जित: सोsपि त्वया ध्यानात्मृत्युञ्जय नमोस्तु ते ।। १३ ।।
ये ध्यायन्ति परां मूर्तिम्पुजयन्त्यमरादय: ।
न ते मृत्युवशं यान्ति मृत्युञ्जय नमोस्तु ते ।। १४ ।।
त्वमोगांरोsसि वेदानां देवानां च सदा शिव: ।
आधारशक्ति: शक्तीनां मृत्युञ्जय नमोस्तु ते ।। १५ ।।
स्थावरे जंगमे वापि यावतिष्ठति देहिग: ।
जीवत्यपत्यलोकोsयं मृत्युञ्जय नमोस्तु ते ।। १६ ।।
सोमसूर्याग्निमध्यस्थव्योमव्यापिन् सदाशिव: ।
कालत्रय महाकाल मृत्युञ्जय नमोस्तु ते ।। १७ ।।
प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् ।
सृष्टिरुपेण देवेश मृत्युञ्जय नमोस्तु ते ।। १८ ।।
व्योम्नि त्वं व्योमरुपोsसि तेज: सर्वत्र तेजसि ।
ज्ञानिनां ज्ञानरुपोsसि मृत्युञ्जय नमोस्तु ते ।। १९ ।।
जगज्जीवो जगत्प्राण: स्रष्टा त्वं जगत: प्रभु: ।
कारणं सर्वतीर्थानां मृत्युञ्जय नमोस्तु ते ।। २० ।।
नेतात्वमिन्दृयाणां च सर्वज्ञानप्रबोधक: ।
सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोस्तु ते ।। २१ ।।
रुपातीत: स्वरुपश्च पिण्डस्थपदमेव च ।
चतुर्लोककलाधार मृत्युञ्जय नमोस्तु ते ।। २२ ।।
रेचके वन्हिरुपोsसि सोमरुपोsसि पूरके ।
कुम्भके शिवरुपोsसि मृत्युञ्जय नमोस्तु ते ।। २३ ।।
क्षयं करोषि पापानां पुण्यानामपिवर्धनम् ।
हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोस्तु ते ।। २४ ।।
सर्वमायाकलातीते सर्वेन्दृयपरावर ।
सर्वेन्दृयकलाधीश मृत्युञ्जय नमोस्तु ते ।। २५ ।।
रुपगन्धो रसस्पर्श: शब्द साकार एव च ।
त्वत्त: प्रकाश एतेषां मृत्युञ्जय नमोस्तु ते ।। २६ ।।
चतुर्विधानां सृष्टिनां हेतुस्त्वं कारणेश्वर ।
भावाभावपरिछिन्न मृत्युञ्जय नमोस्तु ते ।। २७ ।।
त्वमेको निष्कलो लोके सकल भुवनत्रयम् ।
अतिसूक्ष्मातिरुपस्त्वं मृत्युञ्जय नमोस्तु ते ।। २८ ।।
त्वं प्रबोधस्त्वमाधारस्त्वद्बीजं भुवनत्रयम् ।
सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोस्तु ते ।। २९ ।।
त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृते: पर: ।
अष्टत्रिशत् कलानाथ मृत्युञ्जय नमोस्तु ते ।। ३० ।।
सर्वेन्दृयाणामाधार: सर्वभूतगुणाश्रय: ।
सर्वज्ञानमयानन्त मृत्युञ्जय नमोस्तु ते ।। ३१ ।।
त्वमात्मा सर्वभूतानां गणानां त्वामधीश्वर: ।
सर्वानन्दमयाधार मृत्युञ्जय नमोस्तु ते ।। ३२ ।।
तब यज्ञ: सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा ।
शब्दब्रह्मत्वमोङ्कार मृत्युञ्जय नमोस्तु ते ।। ३३ ।।
।। अथ: फलश्रूति: ।।
।।श्री सदाशिव उवाच ।।
एवं सङ्कीर्तयेद् यस्तु शुचिस्तद्गतमानस: ।
भक्त्याश्रृणोति यो ब्रह्मन्न स मृत्युवशो भवेत् ।। ३४ ।।
न च मृत्युभयं तस्य प्राप्तकालं च लङघयेत् ।
अल्पमृत्युभयं तस्य प्रणश्यति न संशय: ।। ३५ ।।
व्याघ्रयो नोपपद्यन्ते नोपसर्गभयं भवेत् ।
प्रत्यासन्नन्तरे काले शतैकावर्तने कृते ।। ३६ ।।
मृत्युर्न जायते तस्य रोगान्मुञ्चति निश्चितम् ।
पंचम्यां वा दशम्यां वा पौर्णिमास्यामथाsपि वा ।।३७ ।।
शतमावर्तते यस्तु शतवर्षं स जीवति ।
तेजस्वी बलसम्पन्नो लभते शिवमुत्तमम् ।। ३८ ।।
त्रिविधं नाशयेत् पापं मनोवाक् कायसम्भवम् ।
अभिचाराणि कर्माणि कर्माण्याथर्वणानि च ।। ३९ ।।
क्षीयन्ते नात्र सन्देहो दु:स्वप्नश्च विनश्यति ।
इदं रहस्यं परमं देवदेवस्य शूलिन: ।।
दु:स्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम् ।। ४० ।।
।। इति श्रीशिवब्रह्मसम्वादे श्रीमृत्युञ्जयस्तुति: सम्पूर्णम् ।।
श्लोकाङ्कित-
केशव कौशिक
२०७४-०७-०६ सोमबार
No comments:
Post a Comment