Wednesday, December 13, 2017

Pratah Bishnu Prarthana प्रात: विष्णु प्रार्थना



                || प्रात: विष्णु प्रार्थना ||  



औषधे चिन्तयेद् विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ।। १ ।।
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ।। २ ।।
दु:स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् ।
कानने नरसिंहं च पावके जलशायिनम् ।। ३ ।।
जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ।। ४ ।।
षोडशैतानि नामानि प्रातरुत्थाय य: पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।। ५ ।।



संग्रह-केशव शरण लुईटेल 
मिति-२०७४-०८-२७ बुधवार 
कपन काठमाण्डौ नेपाल 

No comments:

Post a Comment