|| मनसादेवी स्तोत्रम् ||
।। अथ ध्यानः ।।
चारु-चम्पक-वर्णाभां, सर्वांग-सु-मनोहराम् ।
नागेन्द्र-वाहिनीं देवीं, सर्व-विद्या-विशारदाम् ।।
नमः सिद्धि-स्वरुपायै, वरदायै नमो नमः ।
नमः कश्यप-कन्यायै, शंकरायै नमो नमः ।।
बालानां रक्षण-कर्त्र्यै, नाग-देव्यै नमो नमः ।
नमः आस्तीक-मात्रे ते, जरत्-कार्व्यै नमो नमः ।।
तपस्विन्यै च योगिन्यै, नाग-स्वस्रे नमो नमः ।
साध्व्यै तपस्या-रुपायै, शम्भु-शिष्ये च ते नमः ।।
।। फल-श्रुति ।।
इति ते कथितं लक्ष्मि ! मनसाया स्तवं महत् ।
यः पठति नित्यमिदं, श्रावयेद् वापि भक्तितः ।।
न तस्य सर्प-भीतिर्वै, विषोऽप्यमृतं भवति ।
वंशजानां नाग-भयं, नास्ति श्रवण-मात्रतः ।।
।।अथ द्वितीय मनसादेवी स्तोत्रम् ।।
देवी त्वां स्तोतुमिच्छामि सा विनां प्रवरा परम् ।
परात्परां च परमां नहि स्तोतुं क्षयोsधुना ।। १ ।।
स्तोत्राणां लक्षणं वेदे स्वभावाव्यानत: परम् ।
न क्षम: प्रकृति वक्तुं गुणानां तब सुव्रते ।। २ ।।
शुद्रसत्वस्वरुपा त्वम् कोपहिंसाविवर्जिता ।
न च सप्तो मुनिस्तेन त्यक्तया च त्वया यत: ।। ३ ।।
त्वं मया पूजिता साध्वी जननी च यथाsदिति: ।
दयारुपा च भगिनी क्षमारुपा यथा प्रसु: ।। ४ ।।
त्वया मे रक्षिता: प्राणा: पुत्रदारा सुरेश्वरी ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्छ वर्धते ।। ५ ।।
नित्यं यद्यपि पूज्यां त्वां भवेsत्र जगदम्बिके ।
तथाsपि तव पूजां वै वर्धयामि पुन: पुन: ।। ६ ।।
ये त्वयाषाढसङ्क्रान्त्या पूजयिष्यन्ति भक्तित: ।
पञ्चम्यां मनसारव्या यां मासान्ते दिने दिने ।। ७ ।।
पुत्रपौत्रादयस्तेषां वर्धन्ते न धनानि च ।
यशस्विन: कीर्तिमन्तो विद्यावन्तो गुणान्विता: ।। ८ ।।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जना: ।
लक्ष्मी हीना भविष्यन्ति तेषां नागभयं सदा ।। ९ ।।
त्वं स्वर्गलक्ष्मी: स्वर्गे च वैकुण्ठे कमलाकला ।
नारायणांशो भगवन् जरत्कारुर्मुनीश्वर: ।। १० ।।
तपसा तेजसा त्वं च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिदा ।। ११ ।।
मनसादेवी त्वं शक्त्या चाssत्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।। १२ ।।
यां भक्त्या मनसा देवा: पूजयन्त्यंनिशं भृशम् ।
तेन त्वं मनसादेवीं प्रवदन्ति पुराविद: ।। १३ ।।
सत्त्वरुपा च देवी त्वं शश्वत्सर्वानषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।। १४ ।।
इदं स्तोत्रं पुण्यवीजं तां संपूज्य च य: पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ।। १५ ।।
विषं भवेत्सुधातुल्य सिद्धस्तोत्रं यदा पठेत् ।
पञ्चलक्ष जपेनैव सिद्ध्यस्तोत्रो भवेन्नर ।।
सर्पशायी भवेत्सोsपि निश्चितं सर्ववाहन: ।। १६ ।।
।। इति महेन्द्रकृतं मनसादेवीस्तोत्रं समसम्पूर्णम् ।।
।। अथ मनसा द्वादशनाम स्तोत्रम् ।।
ॐ नमो मनसायै
जरत्कारु जगद्गौरी मनसा सिद्धयोगिनी ।
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।। १ ।।
जरत्कारुप्रियाssस्तीकमाता विषहरीती च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ।। २ ।।
द्वादशैतानि नामानि पूजाकाले च य: पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भस्य च ।। ३ ।।
नागभीते च शयने नागग्रस्ते च मन्दिरे ।
नागभीते महादुर्गे नागवेष्ठितविग्रहे ।। ४ ।।
इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशय: ।
नित्यं पठेद् य: तं दृष्ट्वा नागवर्ग: पलायते ।। ५ ।।
नागौधं भूषणं कृत्वा स भवेत् नागवाहना: ।
नागासनो नागतल्पो महासिद्धो भवेन्नर: ।। ६ ।।
।। इति मनसादेवीद्वादशनाम स्तोत्र सम्पूर्णम् ।।
संकलन-